दीपावल्याः पूर्वं काठमाण्डूनगरे कृत्रिमपुष्पाणां मालानां च विक्रये पूर्णप्रतिबन्धः।
काठमांडूः, 03 नवंबरमासः (हि.स.)। आसन्नं दीपावलीपर्वम् अवलोक्य काठमाण्डूमहानगरपालिकया स्वकीयक्षेत्रे प्लास्टिकनिर्मितपुष्पाणां, पुष्पमालानां तथा विविधसज्जासामग्रीणां विक्रये वितरणे च पूर्णतया प्रतिबन्धः आरोपितः अस्ति। महानगरपालिकया सर्वेभ्यः व्यव
काठमांडू में प्लास्टिक फूलों के बिक्री पर प्रतिबंध


काठमांडूः, 03 नवंबरमासः (हि.स.)।

आसन्नं दीपावलीपर्वम् अवलोक्य काठमाण्डूमहानगरपालिकया स्वकीयक्षेत्रे प्लास्टिकनिर्मितपुष्पाणां, पुष्पमालानां तथा विविधसज्जासामग्रीणां विक्रये वितरणे च पूर्णतया प्रतिबन्धः आरोपितः अस्ति। महानगरपालिकया सर्वेभ्यः व्यवसायिभ्यः, व्यापारिभ्यः सामान्यनागरिकेभ्यश्च प्राकृतिकपुष्पाणां पुष्पमालानां च उपयोगाय प्राथमिकतां दातुम् आग्रहः कृतः।

काठमाण्डूमहानगरपालिकायाः नगरकार्यपालिकाकार्यालयस्य अन्तर्गतः महानगरप्रहरीबलः सूचना प्रकाशित्य चेतावनीं दत्तवान् यत् प्रतिबन्धस्य उल्लङ्घनं कृत्वा यदि कश्चित् प्लास्टिकनिर्मितानि अथवा निर्धारितगुणवत्तामानकेभ्यः न्यूनस्तराणि पुष्पाणि, मालाः, सज्जासामग्रीश्च विक्रयन् दृश्यते, तर्हि ताः सर्वाः सामग्रीः अधिग्रहीताः भविष्यन्ति।

महानगरप्रहरीबलेन नेपालीकृषकैः उत्पादितानां पुष्पमालानां कृते समुचितविपण्याः उपलब्धतां सुनिश्चित्य सामान्यजनानां कृते च सुगमतया क्रयणसुविधां प्रदातुम् उद्दिश्य सम्बन्धितविभागानां समन्वयेन विक्रयार्थं विभिन्नस्थानानि निर्धारितानि सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani