Enter your Email Address to subscribe to our newsletters


जबलपुरे द्वौ हरितमार्गौ निर्माय अन्येषु चिकित्सालयेषु प्रेषितानि अङ्गानि, यकृत् विशेषविमानेन अहमदाबादनगरं प्रेषितम्।
जबलपुरम्, ०३ नवम्बरमास: (हि.स.)। मध्यप्रदेशस्य जबलपुरनगरे मार्गदुर्घटनायां मस्तिष्कमृतः अभवत् ४० वर्षीयः नरेन्द्ररजकः अधुना अस्मिन् संसारे नास्ति, किन्तु तस्य अङ्गानि पञ्च रोगिभ्यः नवजीवनं प्रदास्यन्ति। असहनीयदुःखस्य मध्ये तस्य पत्नी पूजा रजकः परिवारजनाश्च अङ्गदानाय अनुमतिं दत्त्वा अनुकरणीयम् उदाहरणं प्रस्तुतवन्तः। तदनन्तरं प्रशासनेन रात्रौ द्वौ हरितमार्गौ निर्माय अङ्गानि निर्धारितचिकित्सालयान् विमानपत्तनं च यथासमयं प्रापितानि।
मेट्रो प्राइम चिकित्सालयस्य प्रत्यारोपण-शल्यचिकित्सकस्य डॉ. राजेशपटेलस्य अनुसारं नरेन्द्रस्य द्वे वृक्के, यकृत्, नेत्रे त्वक् च दानं कृतानि। यद्यपि चिकित्सकीयपरीक्षणे हृदयस्य प्रत्यारोपणयोग्यता न दृष्टा, अतः तस्य उपयोगः न सम्भवितः। एकं वृक्कं मेट्रो प्राइम चिकित्सालये रोगिणः शरीरे प्रत्यारोपयिष्यते, अपरं च जबलपुरस्य आयुर्विज्ञानमहाविद्यालयं प्रेषितम्। यकृत् विशेषविमानेन अहमदाबादनगरस्य मरेन्गो सिम्स चिकित्सालयं प्रापितम्।
अहमदाबादनगरात् आगतं चिकित्सक-दलम्
अङ्गानि ग्रहीतुं अहमदाबादनगरात् पञ्चसदस्यीयं चिकित्सकदलं विशेषवि-मानेन जबलपुरम् आगतम् आसीत्। अस्मिन् दले हृदयशल्य-चिकित्सकः डॉ. निकुञ्जव्यासः, यकृ-त्प्रत्यारोपणशल्य-चिकित्सकः डॉ. विकासपटेलः, हृदय-चिकित्सानिश्चेतना-विशेषज्ञा डॉ. चिन्तासेठः तथा द्वे परिचारिके च आसन्। यकृत् हृदयं च अहमदाबादनगरं नेतुं योजना आसीत्, किन्तु परीक्षणानन्तरं हृदयम् प्रत्यारोपणाय अनुपयुक्तं घोषितम्।
रात्रौ निर्मितौ द्वौ हरितमार्गौ
अङ्गानि सुरक्षिततया निर्धारितसमये च प्रापयितुं प्रशासनेन पृथक्-पृथक् द्वौ हरितमार्गौ निर्मितौ। प्रथमः मार्गः मेट्रो प्राइम चिकित्सालयात् अब्दुलहमीद-चौकमार्गेण डुमनाविमानपत्तनं यावत् निर्मितः, द्वितीयः मार्गः चिकित्सालयात् रानीदुर्गावती-उड्डयनसेतुमार्गेण आयु-र्विज्ञानमहाविद्यालयं यावत् सज्जीकृतः। आरक्षकवाहनानां निरीक्षणे रुग्णवाहिकाः यातायातस्य बाधां विना गन्तव्यस्थानं प्रापिताः।
रात्रौ जबलपुरविमानपत्तनं निरुद्धम् आसीत्, तथापि प्रशासनेन विशेषानुमतिं प्राप्य विमानस्य रात्रौ अवतरणस्य विमानपत्तनसञ्चालनस्य च व्यवस्था कृता। प्रातः प्रायः चतुर्वादने यकृत् विशेषचिकित्सकीयसुरक्षया रुग्ण-वाहिकया विमानपत्तनं प्रापितम्। अस्मिन्नवसरे चिकित्सालयपरिसरे दीपान् प्रज्वाल्य अङ्गदानस्य निर्णयाय श्रद्धाञ्जलिः अर्पिता। ततः यकृत् विशेषविमानेन अहमदाबादनगरं प्रेषितम्। प्रातः प्रायः ४:३० वादने द्वितीयया रुग्णवाहिकया वृक्कं चिकित्सामहाविद्यालयं प्रति प्रेषितम्।
दुर्घटनया जीवनं हृतम्, परिवारः अन्येभ्यः नूतनाशां प्रदत्तवान्
जबलपुरस्य गङ्गानगर-नवनिवेश-कालोनीनिवासी नरेन्द्ररजकः (४१) एचसीएल-निर्माण्यां कार्यरतः आसीत्। गतवर्षस्य डिसेम्बरमासस्य ३१ दिनाङ्के सः स्वभार्यायाः भ्रातुः मृत्योः अनन्तरं गङ्गापूजनाय कुआँखेडा-स्थानं गतवान् आसीत्। परिवारजनानाम् अनुसारं नरेन्द्रः सामान्यतः शिरस्त्राणं धृत्वैव गृहात् निर्गच्छति स्म, किन्तु दुर्घटनायाः दिने तेन शिरस्त्राणं न धृतम्। गृहं प्रत्यागच्छन् तस्य मोटरसाइकिलं केनचित् अज्ञातवाहनेन आहतम्। गम्भीरावस्थायां सः मेट्रो प्राइम चिकित्सालये प्रवेशितः। उपचारस्य अनन्तरमपि तस्य स्थितौ सुधारः नाभवत् तथा चिकित्सकैः तं मस्तिष्कमृतः घोषितम्।
पत्नी अवदत्—अस्मात् श्रेष्ठं दानं किमपि नास्ति
नरेन्द्रस्य पत्नी पूजा रजकः तस्य द्वौ च पुत्रौ अङ्गदानस्य निर्णयं कुर्वन्तः भावुकौ अभवताम्। पत्नी अवदत् यत् परिवारेण स्वप्रियजनः नष्टः, किन्तु अङ्गदानेन अन्येषां परिवाराणां सदस्येभ्यः स्वप्रियजनानां जीवनरक्षणस्य आशा मिलितुं शक्नोति। येषां परिवारजनानां सदस्याः मस्तिष्कमृताः घोषिताः भवन्ति, ते अङ्गदानाय अग्रे आगच्छेयुः। अस्मात् श्रेष्ठं दानं किमपि नास्ति।
Hindusthan Samachar / Divya Ranjan