‘नदीसंजीवनी’ कार्यक्रमस्य अन्तर्गतं बिहारस्य नद्यः पंकरहिताः भविष्यन्ति, केन्द्र-राज्यसर्वकारयोः मध्ये सन्धिपत्रे हस्ताक्षराणि
नवदिल्ली, ०३ नवम्बरमास: (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राटचौधरी तथा केन्द्रीयसड़कपरिवहन-राजमार्गमन्त्री नितिनगडकरी इत्यनयोः उपस्थितौ मङ्गलवासरे केन्द्रसर्वकारस्य सड़क-परिवहन-राजमार्गमन्त्रालयस्य बिहारसर्वकारस्य च मध्ये ‘नदीसंजीवनी’ कार्यक्रमस्य
सिल्ट हटाने और उसके उपयोग को लेकर समझौता ज्ञापन (एमओयू) पर मंगलवार को हस्ताक्षर होने के बाद संवाद करते केंद्रीय मंत्री गडकरी


सिल्ट हटाने और उसके उपयोग को लेकर समझौता ज्ञापन (एमओयू) पर मंगलवार को हस्ताक्षर के बाद अपने सम्बोधन के दौरान मुख्यमंत्री सम्राट


नवदिल्ली, ०३ नवम्बरमास: (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राटचौधरी तथा केन्द्रीयसड़कपरिवहन-राजमार्गमन्त्री नितिनगडकरी इत्यनयोः उपस्थितौ मङ्गलवासरे केन्द्रसर्वकारस्य सड़क-परिवहन-राजमार्गमन्त्रालयस्य बिहारसर्वकारस्य च मध्ये ‘नदीसंजीवनी’ कार्यक्रमस्य अन्तर्गतं सन्धिपत्रे हस्ताक्षराणि कृतानि। अस्य अन्तर्गतं बिहारस्य नद्यः अन्यजलस्रोतांसि च सञ्चितस्य पंकस्य निष्कासनस्य तस्याः उपयोगस्य च व्यवस्था क्रियते।

कार्यक्रमं सम्बोधयन् केन्द्रीयमन्त्री नितिनगडकरी अवदत् यत् ‘नदीसंजीवनी’ कार्यक्रमस्य अन्तर्गतं महाराष्ट्रस्य सफलस्य बुलढाणा-प्रतिरूपस्य अनु-सरणेन बिहारस्य नद्यः गादरहिताः करिष्यन्ते। अनेन नदीनां पुनरुद्धारः भविष्यति तथा जलसंरक्षणं प्रोत्साहनं प्राप्स्यति। सः अवदत् यत् अस्मात् परियोजनातः सर्वकारस्य उपरि किमपि वित्तीयभारः न भविष्यति तथा पंकनिष्का-सनाय केन्द्रसर्वकारः राज्यात् किमपि धनराशिं न स्वीकरिष्यति।

गडकरी अवदत् यत् नद्यः पंकस्य निष्कासनेन तासां जलधारणक्षमतायां जलप्रवाहक्षमतायां च सुधारः भविष्यति। अनेन कृषकेभ्यः सिञ्चनाय जलोपलब्धौ सहायता भविष्यति। अपि च बिहारं प्रतिवर्षम् आगच्छत: जलौघेन जाय-मानाया: हान्या: न्यूनीकरणे, कृषिक्षेत्रस्य सुदृढीकरणे, कृषकाणाम् आयस्य जीवनस्तरस्य च उन्नतौ सम्भावनाः वर्धिष्यन्ते।

अस्मिन्नवसरे मुख्यमन्त्री सम्राटचौधरी अवदत् यत् बिहारं देशस्य प्रथमं राज्यम् अस्ति, येन स्वकीयां पृथक् पंक-निष्कासननीतिं निर्मितम्। ‘बिहारजल-स्रोतः पुनरुद्धारः तथा पंकनीतिः-२०२६’ इत्यस्य माध्यमेन राज्यस्य नदीनां जलस्रोतसां च सञ्चितगादायाः समुचितं प्रबन्धनं क्रियते। सः अवदत् यत् बिहारस्य प्रमुखे द्वे आव्हाने—अत्यधिकजनसङ्ख्या अनियन्त्रित-जलप्रवाहश्च—अधुना विकासस्य शक्तिरूपेण परिणमिष्यतः। नद्यः निष्कासित: पंक: राज्याय संजीवनीरूपा भविष्यति तथा बिहारस्य अर्थव्यवस्थां सुदृढां करिष्यति।

मुख्यमन्त्री अवदत् यत् नेपालदेशे भवति अतिवृष्टिः अन्यराज्येभ्यः आगच्छत् जलं च कारणतः बिहारं प्रतिवर्षं जलौघसमस्यायाः सामना कर्तुम् बाध्यते। फरक्का-बैराजस्य कारणेन गङ्गानद्यां पंकसञ्चयस्य समस्या अपि गम्भीरा अस्ति। नद्यः पंकनिष्कासनेन तासां पुनरुद्धारेण च जलौघस्य प्रभावं न्यूनीकर्तुं जलप्रबन्धनं च उत्तमं कर्तुं सहायता भविष्यति।

सः अवदत् यत् बिहारं बाङ्गलादेशाय जलप्रदाने विरोधं न करोति, किन्तु राज्यस्य आवश्यकतानाम् अपि पूर्णतया ध्यानं दातव्यम्। वर्तमानव्यवस्थानुसारं बिहारं केवलं चतुर्षु मासेषु—जुलाई, अगस्त, सितम्बर, अक्तूबर च—गङ्गाजलस्य उपयोगस्य अवसरं प्राप्नोति। कृषेः, उद्योगानां पेयजलस्य च आवश्यकताः दृष्ट्वा बिहाराय पर्याप्तं जलं प्रदातव्यम्।

मुख्यमन्त्री केन्द्रीयमन्त्रिणं नितिनगडकरिं गङ्गानद्याः उभयतः तीरयोः चतुर्मार्गीय-मार्गनिर्माणस्य आग्रहं कृतवान्। सः अवदत् यत् नद्यः गादनिष्कासनेन प्रायः एकलक्षम् एकर् परिमिता नवीना भूमिः उपलब्धा भवितुम् अर्हति। अस्यां भूमौ मुम्बई-दिल्लीनगरयोः आदर्शेन बिहारस्य ‘गङ्गाभिमुखाः’ आवासीयबस्तयः आवासाश्च विकसिताः कर्तुं शक्यन्ते।

उल्लेखनीयम् अस्ति यत् एतत् सन्धिपत्रं ‘बिहारजलस्रोतः जीर्णोद्धारः तथा गादप्रबन्धननीतिः-२०२६’ इत्यस्य अन्तर्गतं कृतम्। अस्य उद्देश्यम् अस्ति—‘गभीराः नद्यः, सुदृढाः मार्गाः, समृद्धं बिहारम्’ इति। पंकस्य उपयोगेन प्राकृतिकस्य ऊपरीमृत्तिकायाः अतिदोहनं न्यूनीभविष्यति तथा नदीपारिस्थितिकी-तन्त्रे सुधारः भविष्यति।

बिहारे ५८,३४० कोटिरूप्यकाणां निवेशेन राष्ट्रियमार्गप्राधिकरणस्य ३९ परियोजनाः (समग्रतया १,५६१ किलोमीटर्) निर्माणा-धीनाः सन्ति। एतदतिरिक्तं १,८५,२०० कोटिरूप्यकाणाम् अनुमानित-व्यययुक्ताः ११ नवीनाः परियोजनाः (१,९८२ किलोमीटर्) प्रस्ताविताः सन्ति। सन्धिपत्रस्य अन्तर्गतं २४३ लक्षघनमीटर परिमिता निःशुल्क: १६ प्रचलितासु राजमार्गपरियोजनासु उपयुज्यते। क्षेत्रीयसम्पर्कं सुदृढं कर्तुं विभिन्नासु नदीषु २९ नवीनसेतूनां निर्माणकार्यम् अपि प्रचलति।

Hindusthan Samachar / Divya Ranjan