जनतायाः प्रत्येकं धनस्य लेखनं भवेत्, लोकलेखासमितिः राजनीतेः उपरि उत्थाय कार्यं कुर्यात् : ओमबिरला
नवदिल्ली, ०३ नवम्बरमास: (हि.स.)। लोकसभाध्यक्षः ओमबिरला मङ्गलवासरे अवदत् यत् जनतायाः प्रत्येकं धनस्य स्पष्टः लेखनं भवेत् तथा तस्य उपयोगः पूर्णतया निर्धारितानाम् उद्देश्यानां पूर्तये एव करणीयः। ओमबिरला तिरुवनन्तपुरम्-नगरे संसदः तथा राज्येषु केन्द्रश
लोकसभा अध्यक्ष ओम बिरला के साथ अन्य लोग मौजूद।


नवदिल्ली, ०३ नवम्बरमास: (हि.स.)। लोकसभाध्यक्षः ओमबिरला मङ्गलवासरे अवदत् यत् जनतायाः प्रत्येकं धनस्य स्पष्टः लेखनं भवेत् तथा तस्य उपयोगः पूर्णतया निर्धारितानाम् उद्देश्यानां पूर्तये एव करणीयः।

ओमबिरला तिरुवनन्तपुरम्-नगरे संसदः तथा राज्येषु केन्द्रशासितप्रदेशेषु च स्थितानां विधानमण्डलानां लोकलेखा-समितीनां पीठासीनाधिकारिणां द्वि-दिवसीयसम्मेलनस्य उद्घाटनावसरे एतद् उक्तवान्। सः सार्वजनिकधनस्य निरीक्षणे, संसदीय-उत्तरदायित्वे तथा वित्तीयान्वेषणे कृत्रिमबुद्धिमत्तायाः इत्यादीनां आधुनिकप्रौद्योगिकीनां प्रयोगे विशेषं बलं दत्तवान्। एतत् सम्मेलनम् ‘लेखापरीक्षा, उत्तरदायित्वं सुशासनं च—लोक-लेखासमितीनां परिवर्तमानं दायित्वम्’ इति विषयम् आधृत्य आयोजितम् अस्ति।

लोकसभाध्यक्षः अवदत्, “सार्वजनिक-धनस्य संरक्षणस्य विषये राजनैतिक-मतभेदाः परित्यक्तव्याः। लोकलेखासमितेः अध्यक्षरूपेण विपक्षस्य सदस्यस्य नियुक्तेः लोकतान्त्रिकपरम्परा भारतीयसंसदीय-लोकतन्त्रस्य परिपक्वतां प्रदर्शयति। समितेः उद्देश्यम् कस्यचित् सर्वकारस्य आलोचनं नास्ति, अपितु एतत् सुनिश्चितं करणम् अस्ति यत् सार्वजनिकधनस्य दुरुपयोगः अथवा अपव्ययः न भवेत् तथा कार्यपालिका जनतायाः प्रति उत्तरदायिनी तिष्ठेत्। सर्वकारीयव्ययस्य मूल्याङ्कनं केवलम् विवरणै: ‘उपयोगिताप्रमाणपत्रैः’ च सीमितं न भवेत्। सदस्यैः आधारभूतसंरचना-परियोजनानां गुणवत्तायाः सामाजिक-कल्याणयोजनानां वास्तविकप्रभावस्य च परीक्षणाय परियोजनास्थलानां भ्रमणम् अपि करणीयम्।”

परिवर्तमानकाले निरीक्षणपद्धतीनाम् आधुनिकीकरणस्य आवश्यकतायाः विषये बलं दत्त्वा लोकसभाध्यक्षः अवदत् यत् विशालव्ययसम्बद्धानाम् विवरणानां विश्लेषणाय, वित्तीयानियमिततानां परिचयाय तथा लेखापरीक्षायाः निरीक्षणाय कृत्रिमबुद्धिमत्तायाः, विवरणविश्लेषणस्य आधुनिकप्रौद्योगिकीनां च उपयोगः करणीयः।

संसदः लोकलेखासमितेः अध्यक्षः के.सी. वेणुगोपालः संसदीयपरीक्षणं परिणाम-केन्द्रितं कर्तुं बलं दत्तवान्। सः प्रस्तावम् अकरोत् यत् संसदः प्रत्येकस्मिन् सत्रे न्यूनातिन्यूनम् एका लोकलेखासमितेः प्रतिवेदना तथा तस्याः विषये सर्वकारेण कृता कार्यवाही अनिवार्यरूपेण चर्चायाः विषयः भवेत्। वेणुगोपालः बृहदाधार-भूतसंरचना-परियोजनानां प्रमुख-कल्याणकारी-कार्यक्रमाणां च समयबद्धलेखापरीक्षायाः विषये अपि बलं दत्तवान्।

अस्मिन्नवसरे लोकलेखासमितिनां सम्मेलनस्य स्मारिकायाः अपि विमोचनं कृतम्। अस्मिन् कार्यक्रमे राज्यसभायाः उपसभापतिः हरिवंशः, केरलस्य मुख्यमन्त्री वी.डी. सतीशनः, केरलविधानसभायाः अध्यक्षः थिरुवञ्चूरः राधाकृष्णन् तथा विधानसभायाः लोकलेखासमितेः अध्यक्षः के.एन. बालगोपालः इत्यादयः अनेके गणमान्याः जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan