मुख्यमन्त्रिण: तमाङस्य केन्द्रीयमन्त्रिणा राजीवरञ्जनसिंहेन सह साक्षात्कारवार्ता, सिक्किमस्य विकाससम्बद्धेषु विभिन्नविषयेषु चर्चा
गंगटोकम्, ०३ नवम्बरमास: (हि.स.)। सिक्किमस्य मुख्यमन्त्री प्रेमसिंहतमाङः मङ्गलवासरे केन्द्रीयमत्स्यपालन, पशुपालन-डेयरी तथा पञ्चायतीराजमन्त्री राजीवरञ्जनसिंहेन सह साक्षात्कारं कृतवान्। मुख्यमन्त्री तमाङः मङ्गलवासरे प्रातः सामाजिकमाध्यमेन अस्याः साक्
केन्द्रिय ललन सिंहसँग मुख्यमन्त्री तामाङको भेटवार्ता


गंगटोकम्, ०३ नवम्बरमास: (हि.स.)। सिक्किमस्य मुख्यमन्त्री प्रेमसिंहतमाङः मङ्गलवासरे केन्द्रीयमत्स्यपालन, पशुपालन-डेयरी तथा पञ्चायतीराजमन्त्री राजीवरञ्जनसिंहेन सह साक्षात्कारं कृतवान्।

मुख्यमन्त्री तमाङः मङ्गलवासरे प्रातः सामाजिकमाध्यमेन अस्याः साक्षात्कार-वार्तायाः सूचनां प्रदत्तवान्। तेन उक्तं यत् सम्बन्धितविभागानां वरिष्ठाधिकारिणाम् उपस्थितौ सिक्किमस्य विकाससम्बद्धानां विभिन्नविषयाणां, प्राथमिकतानां परस्पर-हितसम्बद्धक्षेत्राणां च विषये सार्थकचर्चा अभवत्। विशेषतः मत्स्यपालनस्य, पशुपालनस्य, दुग्धविकासस्य ग्रामीण-विकासस्य च क्षेत्रेषु सिक्किमस्य सम्भावनानां, आवश्यकतानां विकास-प्राथमिकतानां च विषये विचारविनिमयः कृतः।

मुख्यमन्त्री अवदत् यत् सभायाः समये सिक्किमस्य जनानां हितं ध्याने निधाय केन्द्र-राज्यसर्वकारयोः मध्ये सहयोगं अधिकं सुदृढं कर्तुं तथा विकासस्य नवीनावसराणाम् अन्वेषणं कर्तुं च चर्चा अभवत्।

केन्द्रीयमन्त्री राजीवरञ्जनसिंहः नवम्बर-मासस्य १ दिनाङ्कात् ३ दिनाङ्कपर्यन्तं सिक्किमस्य प्रवासे अस्ति। प्रवासकाले तेन गान्तोक-मङ्गनजनपदयोः विभिन्न-विकासकार्यक्रमाणां समीक्षां कृतवता सह कृषकैः, मत्स्यपालकैः, सहकारीसंस्थाभिः सम्बन्धितपक्षैः च सह संवादः कृतः।

Hindusthan Samachar / Divya Ranjan