Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्रिणा विजयेन वितरितानि स्वीकृतिपत्राणि
ईरोड्, ०३ नवम्बरमास: (हि.स.)। तमिलनाडोः मुख्यमन्त्री विजयः मङ्गलवासरे ईरोड्-जनपदस्य पेरुन्दुरै-नगरे आयोजिते सर्वकारीयकार्यक्रमे २६ सहस्रं महिलास्वसहायतासमूहा: सम्बद्धा-भ्यः महिला-उद्यमिनीभ्यः ३,००० कोटि-रूप्यकाणां धनागार-ऋणसहायतां प्रदत्तवान्। अस्याः वित्तीयसहायतायाः उद्देश्यं महिलाभ्यः स्वयम्-रोजगारस्य अवसरान् प्रदातुं, तासां वर्तमानव्यापाराणां विस्ताराय च सहाय्यं करणम् अस्ति।
तमिलगा वेत्रि कझगम् इति दलस्य सत्तायाम् आगमनानन्तरं मुख्यमन्त्री विजयः राज्यस्य विभिन्नान् जनपदान् परिभ्रम्य सर्वकारीययोजनानाम् उद्घाटनं करोति तथा विकासपरियोजनानां शिलान्यासं च करोति। अस्यैव क्रमे १६ अक्टोबर-दिनाङ्के कोयम्बत्तूरनगरे आयोजिते सर्वकारीयकार्यक्रमे तेन पेरियार् अरिवुलगम् इत्यस्य उद्घाटनं कृतम् आसीत्। ततः नवम्बरमासस्य २ दिनाङ्के पुदुकोट्टैम् आगत्य मुख्यमन्त्रिणा २३.२५ कोटिरूप्यकाणां व्ययेन निर्मितस्य नूतनस्य बसस्थानकस्य उद्घाटनं कृत्वा निरीक्षणम् अपि कृतम्। मङ्गलवासरे ईरोड्-जनपदे तेन विभिन्नकल्याणकारी-योजनानां अन्तर्गतं लाभार्थिभ्यः सहायता प्रदत्ता।
पेरुन्दुरै-काञ्चिकोविलमार्गे स्थिते श्रीलक्ष्मीनारायणमहले आयोजिते कार्यक्रमे मुख्यमन्त्रिणा महिलास्व-सहायतासमूहानां कृते धनागारमाध्यमेन ३,००० कोटिरूप्यकाणां ऋणसहायता प्रदत्ता। सूचितं यत् अस्याः योजनायाः अन्तर्गतं प्रत्येकं समूहः औसतनं प्रायः ११.५ लक्षरूप्यकाणां ऋणं प्राप्तुं शक्नोति। अनेन धनेन महिलाः लघु-मध्यमस्तरीयान् व्यवसायान् आरब्धुं तथा स्वकीयानां वर्तमानोद्यमानां विस्तारं कर्तुं च शक्नुवन्ति।
कार्यक्रमात् पूर्वं मुख्यमन्त्री विजयः महिलास्वसहायतासमूहैः आयोजितायाः उत्पादप्रदर्शन्याः निरीक्षणम् अकरोत्। सः विभिन्नेषु विक्रयकक्षेषु गत्वा महिलाभिः निर्मितानि उत्पादानि अपश्यत् तथा तासां परिश्रमस्य प्रशंसाम् अकरोत्। अस्मिन् क्रमे सः अनेकानि उत्पादानि मूल्यं दत्त्वा क्रीतवान्। विशेषतः स्वस्य चित्रमुद्रितां हस्ततन्तुनिर्मितां शय्याच्छदिकां दृष्ट्वा सः तत्र स्थितवान् तथा ताम् अपि क्रीतवान्।
प्रदर्शन्यां उपस्थिताः महिलाः मुख्यमन्त्रिणा सह सम्भाषणम् अकुर्वन् तथा तं प्रति उत्साहं प्रकटितवत्यः। वित्तीयसहायतां प्राप्तवत्यः स्वसहायतासमूहानां महिलाः तं हस्ताभ्यां हृदयाकारस्य सङ्केतं कर्तुम् अनुरोधितवत्यः। मुख्यमन्त्री तासां अनुरोधम् अङ्गीकृत्य हृदयाकारस्य सङ्केतम् अकरोत्। अनेन महिलाः अत्यन्तं प्रसन्नाः अभवन्। अनेकाभिः महिलाभिः तेन सह छायाचित्राणि स्वीकृतानि तथा तस्य हस्ताक्षराणि अपि प्राप्तानि।
कार्यक्रमे मुख्यमन्त्रिणे विजयाय एमजीआर-महोदयेन राजदण्डः प्रदीयमानः इति आकृतियुक्तं स्मृतिचिह्नं समर्पितम्। कार्यक्रमे मन्त्रिणः एन. आनन्दः, सेङ्गोट्टैयन्, अरुणराजः, विजयबालाजी इत्येतै: च सह अनेके जनप्रतिनिधयः अधिकारिणश्च उपस्थिताः आसन्।
अस्मात् पूर्वं मुख्यमन्त्री विजयः विजय-मङ्गलम् सिप्कोट्-क्षेत्रात् मार्गप्रदर्शनम् अकरोत्। मार्गप्रदर्शनस्य समये मार्गस्य उभयतः बहुसङ्ख्याकाः जनाः तथा टीवीके-दलस्य कार्यकर्तारः उपस्थिताः आसन्। ते मुख्यमन्त्रिणः उत्साहपूर्वकं स्वागतम् अकुर्वन्। अस्मिन् समये जनानां मध्ये तेन सह छायाचित्राणि ग्रहीतुं तथा अभिवादनं कर्तुं च विशेषः उत्साहः दृश्यते स्म।
Hindusthan Samachar / Divya Ranjan