काशीतमिलसङ्गममे अधुना तिरुक्कुरलस्य ज्ञानेन सम्पूर्णं भारतं संयोजितं भविष्यति, पञ्चमसंस्करणस्य शङ्खनादः अभवत्
तमिलनाडुराज्यपालः आर्लेकरः काशी-तमिलनाडुयोः सहस्रवर्षप्राचीनान् सांस्कृ-तिकसम्बन्धान् राष्ट्रियैकतायाः आधारम् अवदत् चेन्नई, ०३ नवम्बरमास: (हि.स.)। काशीतमिलसङ्गममे अधुना तिरुक्कु-रलस्य ज्ञानेन सम्पूर्णं भारतं संयोजितं भविष्यति। काशी-तमिलनाडुयोः सम्
तमिलनाडु के राज्यपाल थिरु. राजेंद्र विश्वनाथ अर्लेकर, आईआईटी मद्रास में 'काशी तमिल संगमम 5.0' के कर्टन रेज़र कार्यक्रम में उपस्थित लोगों को संबोधित करते हुए।


आईआईटी मद्रास में 'काशी तमिल संगमम 5.0' के कर्टेन रेज़र कार्यक्रम के दौरान गणमान्य व्यक्ति


आईआईटी मद्रास के निदेशक प्रो. वी. कामाकोटी, 'काशी तमिल संगमम 5.0' के कर्टन रेज़र कार्यक्रम में उपस्थित लोगों को संबोधित करते हुए।


तमिलनाडुराज्यपालः आर्लेकरः काशी-तमिलनाडुयोः सहस्रवर्षप्राचीनान् सांस्कृ-तिकसम्बन्धान् राष्ट्रियैकतायाः आधारम् अवदत्

चेन्नई, ०३ नवम्बरमास: (हि.स.)। काशीतमिलसङ्गममे अधुना तिरुक्कु-रलस्य ज्ञानेन सम्पूर्णं भारतं संयोजितं भविष्यति। काशी-तमिलनाडुयोः सम्बन्धः भौगोलिकसीमाभ्यः बहुदूरं भारतस्य सहभाग-सभ्यतायां, संस्कृतौ, आध्या-त्मिकचेतनायां ज्ञानपरम्परायां च गभीरतया निहितः अस्ति। मङ्गलवासरे काशीतमिलसङ्गमस्य पञ्चमसंस्करणस्य शङ्खनादः अभवत्।

अस्मिन् वर्षे आयोजनस्य केन्द्रीयविषयः ‘तिरुक्कुरल् पयिलोवोम्’ अर्थात् ‘आगच्छन्तु, तिरुक्कुरलम् अधीमहे’ इति निर्धारितः अस्ति। २८ नवम्बरतः १२ डिसेम्बर २०२६ पर्यन्तम् आयोज्यमाने अस्मिन् संस्करणे तमिलभाषायाः महान् शास्त्रीयग्रन्थः तिरुक्कुरलः इत्यस्य अध्ययनस्य, अनुवादस्य प्रचारस्य च माध्यमेन देशस्य सर्वेषां विद्यार्थिनां युवजनानां च भारतीयजीवनदर्शनेन सह सम्बन्धं स्थापयितुं व्यापकः प्रयासः क्रियते।

रामेश्वरतः काशीपर्यन्तं प्रवहन्ती श्रद्धायाः धारा भवतु अथवा तमिलसाहित्ये अभिव्यक्तं भारतीयजीवनदर्शनम्—उभयोः क्षेत्रयोः मध्ये शताब्देभ्यः विद्यमाना सांस्कृतिकैकात्मता भारतस्य विविध-तायाम् एकतायाः सजीवं प्रमाणम् अस्ति। एतमेव ऐतिहासिकं सांस्कृतिकं च सम्बन्धं नववंशस्य समीपं नेतुम् तथा भारतीय-ज्ञानपरम्परां राष्ट्रव्यापिसंवादस्य विषयं कर्तुं काशीतमिलसङ्गमस्य पञ्चम-संस्करणम् एकः महत्त्वपूर्णः प्रयासः अभवत्।

अस्य कार्यक्रमस्य उद्घाटनसमारोहस्य अध्यक्षतां कुर्वन् तमिलनाडोः राज्यपालः थिरु राजेन्द्रविश्वनाथ आर्लेकरः काशी-तमिलनाडुयोः सहस्रवर्षप्राचीनान् सां-स्कृतिकान्, ऐतिहासिकान्, आध्यात्मि-कान् च सम्बन्धान् भारतस्य राष्ट्रियैकतायाः आधारम् अवदत्। सः उक्तवान् यत् काशी-तमिलनाडू प्रदेशौ सांस्कृतिकदृष्ट्या, परम्परया, ऐतिहासिक-रूपेण च सर्वदा परस्परं सम्बद्धौ स्तः। अस्माकं पूर्वजानां स्वदेवीदेवतासु प्रगाढा श्रद्धा आसीत्, ते विज्ञानस्य प्रौद्योगिक्याः च ज्ञानम् अपि धारयन्ति स्म। काशी-विश्वनाथ-रामेश्वरयोः सम्बन्धः भारते सहस्रवर्षेभ्यः विद्यमानां सांस्कृतिकैकतां राष्ट्रियैकात्मतां च प्रदर्शयति।

राज्यपालः आर्लेकरः अवदत् यत् काशीतमिलसङ्गमः पुनः पुनः अस्मान् स्मारयति यत् भारतं सर्वदा एकया संस्कृत्या, एकया सभ्यतागतचेतनया च युक्तं राष्ट्रम् अस्ति। रामेश्वरं प्रति गङ्गाजलस्य नयनात् आरभ्य रामेश्वरस्य पवित्रजलस्य गङ्गायां प्रवाहपर्यन्तम् अस्माकं परम्पराः तं गभीरं भावनात्मकं आध्यात्मिकं च सम्बन्धं प्रकटयन्ति, यः देशस्य विभिन्नक्षेत्राणि एकसूत्रेण बध्नाति। एतादृशाः कार्यक्रमाः भारतस्य सांस्कृति-कीम् वैचारिकीं च एकतां ज्ञातुं महत्त्वपूर्णाः सन्ति।

अस्मिन्नवसरे आईआईटी मद्रास-संस्थानस्य निदेशकः प्रोफेसरः वी. कामकोटिः अवदत् यत् अस्य आयोजनस्य प्रमुखम् उद्देश्यम् भारतस्य विश्वाय प्रदत्तेषु अमूल्येषु साहित्यिकदार्शनिकयोगदानेषु अन्यतमं तिरुक्कुरलम् इति ग्रन्थं वैश्विकस्तरे प्रापयितुम् अस्ति। सः उक्तवान् यत् ‘तिरुक्कुरल् पयिलोवोम्’ इत्यस्य संकल्पनायाः माध्यमेन काश्याः विद्यार्थिनः युवजनाश्च अस्य महान् ग्रन्थस्य अध्ययनाय तथा शोधपत्राणां माध्यमेन तस्य विचाराणां जीवनमूल्यानां च अन्वेषणाय प्रोत्साहिताः भविष्यन्ति। एषः प्रयासः तिरुक्कुरले निहितान् शाश्वतान् मानवीयमूल्यान् विश्वेन सह संविभक्तुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

सः अवदत् यत् अस्मिन् वर्षे काशीतमिलसङ्गमस्य विशेषं केन्द्रं युवजनानां विद्यार्थिनां च सहभागिता भविष्यति। अस्य आयोजनस्य माध्यमेन उच्चशिक्षणसंस्थानेषु पठन्तः विद्यार्थिनः स्वमातृभाषाभिः तिरुक्कुरलेन सह सम्बद्धुं अवसरं प्राप्स्यन्ति। एतदर्थं राष्ट्रव्यापी छात्रसहभागिताभियानस्य योजना कृता अस्ति। अस्य अन्तर्गतं विद्यार्थिनः अस्य ग्रन्थस्य अध्ययनं करिष्यन्ति, तत्र निहितान् नैतिकतायाः, जीवनदर्शनस्य, सामाजिकव्यवहारस्य, शासनव्यवस्थायाः मानवीयसम्बन्धानां च विचारान् अवगमिष्यन्ति तथा स्वशैक्षणिकसंस्थानेषु एतेषां मूल्यनां प्रसाराय प्रेरिताः भविष्यन्ति। शैक्षणिकगतिविधीनां, बहुभाषीया-ध्ययनसामग्रीणां तथा अङ्कीयमाध्यमानां च द्वारा तिरुक्कुरलम् तमिलभाषायाः साहित्यिकपरम्परायाः परिधिम् अतिक्रम्य राष्ट्रव्यापिविमर्शस्य भागं कर्तुं प्रयासः क्रियते।

उल्लेखनीयम् अस्ति यत् कविना दार्शनिकेन च तिरुवल्लुवरेण रचितं तिरुक्कुरलम् तमिलसाहित्यस्य सर्वा-धिकमहत्त्वपूर्णासु शास्त्रीयकृतिषु अन्य-तमम् अस्ति। अस्मिन् १३३० द्विपद्यः सन्ति, याः अरम्, पोरुल्, इन्बम् इति त्रिषु प्रमुखेषु भागेषु विभक्ताः सन्ति। अरम्-भागे सद्गुणानां, नैतिकतायाः आदर्शाचरणस्य च चर्चा अस्ति। पोरुल्-भागे धनस्य, शासनस्य, सामाजिकव्यवस्थायाः सार्वजनिकजीवनस्य च सम्बद्धाः विचाराः सन्ति। इन्बम्-भागे प्रेम्णः मानवीय-सम्बन्धानां च दार्शनिकः पक्षः प्रस्तुतः अस्ति। अस्य ग्रन्थस्य विशेषता एषा अस्ति यत् अत्र प्रतिपादितानि जीवनमूल्यानि कस्यचित् एकस्य क्षेत्रस्य, समुदायस्य अथवा कालखण्डस्य सीमासु न बद्धानि। मानवीयाचरणं, सामाजिक-दायित्वम्, सुशासनं नैतिकजीवनं च सम्बद्धाः अस्य विचाराः व्यापकान् मानवीयानुभवान् सम्बोधयन्ति। अत एव काशीतमिल-सङ्गमस्य पञ्चमसंस्करणे अयं ग्रन्थः सांस्कृतिकशैक्षणिकसंवादस्य केन्द्रं कृतः अस्ति।

अस्मिन् आयोजने तमिलनाडुतः प्रायः १४०० प्रतिनिधयः भागं ग्रहीष्यन्ति इति अपेक्षा अस्ति। एते प्रायः २०० प्रतिभागिनां सप्तसु समूहेषु विभक्ताः भविष्यन्ति। प्रत्येकः समूहः अष्टदिवसीयां यात्रां करिष्यति। अस्यां यात्रायां प्रतिभागिनः काशी, प्रयागराजः अयोध्या च इत्येतेषां प्रमुखानां ऐतिहासिकानां, सांस्कृतिकानां, आध्यात्मिकानां च स्थलानां दर्शनं करिष्यन्ति। शैक्षणिकचर्चाः, सांस्कृतिक-प्रस्तुतयः तथा धरोहरसम्बद्धाः कार्यक्रमाः अपि अस्याः यात्रायाः भागाः भविष्यन्ति। अस्य माध्यमेन तमिलनाडु-उत्तरप्रदेशयोः विद्यार्थिनां, शिक्षकाणां, विदुषाम्, कलाकाराणां, व्यावसायिकानां तथा विभिन्नसामाजिकवर्गाणां जनानां मध्ये प्रत्यक्षसंवादः अनुभवविनिमयश्च भविष्यति।

प्राप्तसूचनानुसारं प्रतिनिधीनां सहभागितां समाजस्य व्यापकस्वरूपेण सह संयोजयितुं सप्त श्रेण्यः निर्धारिताः सन्ति। एतासु विद्यार्थिनः, शिक्षकाः, लेखकाः, सञ्चार-माध्यमव्यावसायिकाः, कृषिक्षेत्रस्य तत्स-म्बद्धक्षेत्राणां च प्रतिनिधयः, व्यावसायिकाः, पारम्परिकशिल्पिनः, महिलाः तथा आध्यात्मिकपारम्परिक-ज्ञानपद्धतीभिः सम्बद्धाः जनाः अन्तर्भवन्ति। विद्यार्थिश्रेण्यां विश्व-विद्यालयानां, महाविद्यालयानां, प्रौद्यो-गिकीसंस्थानां कौशलविकास-संस्थानां च छात्राः समाविष्टाः भविष्यन्ति। शिक्षकश्रेण्यां विद्यालय-महाविद्यालयानां अध्यापकाः, शिक्षकप्रशिक्षणार्थिनः शिक्षा-विदश्च स्थानं प्राप्स्यन्ति। लेखकाः, पत्रकाराः, प्रकाशकाः, सम्पादकाः तथा अङ्कीयसञ्चारमाध्यमैः सम्बद्धाः व्यावसायिकाः अपि अस्य सांस्कृतिक-संवादस्य भागिनः भविष्यन्ति।

तथैव कृषिक्षेत्रात् कृषकाः, कृषिविज्ञानस्य विद्यार्थिनः, पशुपालनमत्स्यपालनयोः सम्बद्धाः प्रतिनिधयश्च अवसरं प्राप्स्यन्ति। उद्यमिनः, नवोद्यमैः सम्बद्धाः जनाः, कुशलश्रमिकाः, पारम्परिकशिल्पिनः, स्व-सहायतासमूहानां महिलाः तथा स्वावलम्बनकार्येषु संलग्नाः महिलाः अपि भागं ग्रहीष्यन्ति। आध्यात्मिकश्रेण्यां वैदिकाध्ययनस्य, शास्त्रीयसङ्गीतस्य, पारम्परिकज्ञानपद्धतीनां, धार्मिक-परम्पराणां तथा मन्दिरैः सम्बद्धाः जनाः समावेशिताः भविष्यन्ति।

काशीतमिलसङ्गमस्य पञ्चमसंस्करणं पूर्वेषां चतुर्णाम् आयोजनानां अनुभवात् प्रेरणां प्राप्य तमिलशास्त्रीयसाहित्यं सांस्कृतिकसंवादस्य प्रमुखाधारं करोति। अस्य प्रयत्नस्य आरम्भः वर्षे २०२२ तमे स्वातन्त्र्यस्य अमृतमहोत्सवस्य अवसरे अभवत्। तदारभ्य अधुना यावत् अस्य चत्वारः संस्करणाः आयोजिताः सन्ति। एतेषाम् आयोजनानां माध्यमेन तमिलनाडु-काश्योः मध्ये शैक्षणिकसंवादः, सांस्कृतिककार्यक्रमाः, ऐतिहासिक-स्थलानां भ्रमणं तथा जनसम्पर्कः प्रवर्धितः अस्ति। पञ्चमसंस्करणे तिरुक्कुरलस्य अध्ययनस्य बहुभाषीयप्रसारस्य च माध्यमेन अस्मिन् संवादे नूतनां दिशां दातुं सज्जता क्रियते।

अस्याः पहलायाः पृष्ठतः भारतसर्वकारस्य ‘एकभारतं श्रेष्ठभारतं’ इत्यस्य भावनां सुदृढां कर्तुम् अपि व्यापकः उद्देशः निहितः अस्ति। भारतस्य सांस्कृतिकवैविध्यस्य अवगमनाय विभिन्नभाषाणां क्षेत्राणां च ज्ञानपरम्पराणां मध्ये संवादस्थापनम् एव सर्वाधिकं प्रभावशाली माध्यमम् अस्ति।

तमिलसाहित्यस्य महान् ग्रन्थः तिरुक्कुरलम् देशस्य सर्वेषां विद्यार्थिनां समीपं प्रापयितुं क्रियमाणः प्रयासः अस्मिन् दिशि महत्त्वपूर्णः अस्ति। अनेन एकस्य क्षेत्रस्य साहित्यिकपरम्परा अन्यस्य क्षेत्रस्य विद्यार्थिनां समाजस्य च कृते अध्ययनस्य चिन्तनस्य च विषयः भविष्यति। काशी-तमिलनाडुयोः मध्ये ऐतिहासिकसम्बन्धान् नववंशस्य अनुभवैः सह संयोजयन् अयं कार्यक्रमः भारतीयसभ्यतायाः तां निरन्तरतां रेखाङ्कयति, यस्यां भाषाः भिन्नाः सन्ति, तथापि जीवनस्य मूल्यानि सांस्कृतिकचेतना च परस्परं गभीरतया सम्बद्धानि सन्ति। काशीतमिलसङ्गमस्य ५.० संस्करणस्य कार्यक्रमाणां, सह-भागितायाः पञ्जीकरणस्य च विस्तृतविवरणम् आधिकारिकजालपुटे https://kashitamil.iitm.ac.in/ उपलब्धम् अस्ति।

Hindusthan Samachar / Divya Ranjan