Enter your Email Address to subscribe to our newsletters

जयपुरम्, 03 नवंबरमासः (हि.स.)।
आस्थायाः शक्तेः, सनातनसंस्कृतेः परम्परायाः विज्ञानजगतश्च अद्वितीयसमन्वये आधारितायाः हिन्दीचलचित्रस्य ‘देवीविज्ञानम्’ इत्यस्य आधिकारिकस्य पूर्वावलोकनदृश्यस्य (ट्रेलरस्य) लोकार्पणं जयपुरनगरे राजस्थानस्य संविधानसभासदने आयोजिते समारोहे अभवत्। अस्मिन् अवसरे राजनीतिक्षेत्रस्य, आध्यात्मिकजगतः, समाजसेवाक्षेत्रस्य च अनेकाः प्रसिद्धाः व्यक्तयः उपस्थिताः आसन्।
कार्यक्रमे मुख्यातिथिरूपेण विधानसभाध्यक्षः वासुदेवदेवनानी तथा शिवविधानसभाक्षेत्रस्य विधायकः रविन्द्रसिंहभाटी च उपस्थितौ आस्ताम्। विशिष्टातिथिरूपेण विधायकः बालमुकुन्दाचार्यः, आध्यात्मिकगुरुः स्वामी अवधेशानन्दगिरिः, आध्यात्मिकगुरुः चिकित्सकश्च कर्णीप्रतापसिंहः तथा समाजसेवी मनीषरिनवा च समागताः। अतिथयः चलचित्रस्य निर्माणदलेभ्यः शुभकामनाः प्रदाय आस्था, सनातनसंस्कृतिः, वैज्ञानिकचिन्तनम् इत्यादीनां विषयाणां चलचित्रमाध्यमेन प्रस्तुतीकरणस्य प्रयासस्य प्रशंसाम् अकुर्वन्।
अस्मिन्नवसरे चलचित्रस्य अभिनेतारः टिकूतलसानिया, पूजाजोशी, के. आर्यवर्धनः, चेतनधनानी च निर्देशकः कर्तव्यशाहः तथा किङ्गप्रोडक्शनहाउस इत्यस्य निर्माणदलस्य सदस्यैः सह उपस्थिताः आसन्।
वासुदेवदेवनानी उक्तवान् यत् एतत् चलचित्रम् अध्यात्मस्य विज्ञानस्य च परस्परसम्बन्धं ज्ञातुं अवसरं प्रदास्यति। अपरतः रविन्द्रसिंहभाटी चलचित्रनिर्माणे निर्माणदलस्य प्रायः एकवर्षस्य परिश्रमस्य प्रशंसां कुर्वन् उक्तवान् यत् एतत् चलचित्रं सनातनसंस्कृतेः आस्थायाश्च संवर्धनदिशि प्रशंसनीयः प्रयासः अस्ति।
अभिनेतारः स्वानुभवान् प्रकटितवन्तः
चलचित्रे कार्यकरणस्य अनुभवान् प्रकटयन् टिकूतलसानिया उक्तवान् यत् ‘देवीविज्ञानम्’ इति चलचित्रे तस्मै भिन्नविषयेन सह सम्बद्धस्य अवसरः प्राप्तः, यः चिन्तनाय प्रेरयति। तस्य आशा अस्ति यत् दर्शकाः चलचित्रस्य कथां रोचयिष्यन्ति।
पूजाजोशी उक्तवती यत् अस्य चलचित्रस्य अङ्गत्वं तस्यै स्मरणीयः अनुभवः अभवत्। अस्य कथा भारतीयसंस्कृत्या मान्यताभिश्च सम्बद्धान् विषयान् प्रस्तुतं करोति। अपरतः के. आर्यवर्धनः एतत् स्वस्य कृते विशिष्टं शिक्षाप्रदं च अनुभवं वर्णितवान्। तेन उक्तं यत् चलचित्रे दर्शकानां चिन्तनाय कथया सह सम्बद्धतायै च अनेकाः रोचकाः पक्षाः सन्ति।
‘देवीविज्ञानम्’ इति चलचित्रे आस्था, अध्यात्म, प्राचीनपरम्पराः, वैज्ञानिकचिन्तनं च एतेषां परस्परसम्बन्धानां नवीनचलचित्रशैल्या प्रस्तुतीकरणस्य प्रयासः कृतः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani