केन्द्रीय-गृह-मन्त्री अमितशाहः छत्तीसगढं सम्प्राप्तः, ‘शान्ति-चिकित्सालयस्य’ कृतम् उद्घाटनम्
रायपुरम्, ०३ नवम्बरमासः (हि.स.)। केन्द्रीय-गृह-तथा-सहकारिता-मन्त्री अमितशाहः मङ्गलवासरे छत्तीसगढ-राज्योत्सवस्य समापन-समारोहे भागं ग्रहीतुम् एकदिवसीय-प्रवासे रायपुरं प्राप्तवान्। केन्द्रीय-गृह-मन्त्रिणा अत्र देवेन्द्रनगरे त्रिशत-शय्या-युतस्य ‘आर्टेम
केंद्रीय गृह मंत्री अमित शाह का स्वागत करते हुए मुख्यमंत्री विष्णुदेव साय


केंद्रीय गृह मंत्री बड़ी संख्या में मौजूद लोगों का अभिवादन करते हुए


रायपुरम्, ०३ नवम्बरमासः (हि.स.)। केन्द्रीय-गृह-तथा-सहकारिता-मन्त्री अमितशाहः मङ्गलवासरे छत्तीसगढ-राज्योत्सवस्य समापन-समारोहे भागं ग्रहीतुम् एकदिवसीय-प्रवासे रायपुरं प्राप्तवान्। केन्द्रीय-गृह-मन्त्रिणा अत्र देवेन्द्रनगरे त्रिशत-शय्या-युतस्य ‘आर्टेमिस् शान्ति-चिकित्सालयस्य’ उद्घाटनं कृतम्।

अस्मात् पूर्वं केन्द्रीय-गृह-मन्त्रिणः शाहस्य रायपुर-प्राप्तौ स्वामी-विवेकानन्द-विमानपत्तने मुख्यमन्त्री विष्णुदेवसायः सहिताः प्रदेशसर्वकारस्य मन्त्रिणः तस्य आत्मीयं स्वागतम् अकुर्वन्। मुख्यमन्त्रिणा प्रदेशवासिनां पक्षतः केन्द्रीय-गृह-मन्त्रिणः अभिनन्दनं विहितम्।

विमानपत्तने स्वागतात् परं केन्द्रीय-गृह-मन्त्री देवेन्द्रनगरं प्राप्तवान्, यत्र सः ३०० शय्या-युतस्य ‘आर्टेमिस् शान्ति-चिकित्सालयस्य’ उद्घाटनम् अकरोत्। अस्मिन् काले महत्यां सङ्ख्यायाम् उपस्थितानां जनानाम् अभिवादनं स्वीकर्तुं सः सुरक्षा-वलयं दूरीकृत्य जनानाम् अभिनन्दनं स्वीकृतवान्।

अस्मिन् अवसरे मुख्यमन्त्री विष्णुदेवसायः अवदत् यत् छत्तीसगढं प्रति केन्द्रीय-गृह-मन्त्रिणः अमितशाहस्य आत्मीयः स्नेहः प्रदेशवासिनां कृते शक्तेः विश्वासस्य च सम्बलः अस्ति। प्रदेशस्य शान्तेः, सुरक्षायाः, विकासस्य च प्रति तस्य प्रतिबद्धतया निरन्तर-सहयोगेन च ‘विकसित-छत्तीसगढस्य’ सङ्कल्पाय नूतना ऊर्जा लभ्यमाना अस्ति। मुख्यमन्त्री सायः अकथयत् यत् केन्द्रसर्वकारस्य सहयोगेन मार्गदर्शनेन च छत्तीसगढ-राज्यं शान्तेः, सुरक्षायाः, विकासस्य च विविधेषु क्षेत्रेषु अग्रे सरति।

उल्लेखनीयम् अस्ति यत् त्रिदिवसीयस्य ‘छत्तीसगढ-राज्योत्सवः-२०२६’ इत्यस्य समापनम् अद्य ‘नवा रायपुर अटलनगर’ स्थिते राज्योत्सव-प्राङ्गणे भविष्यति। समापन-समारोहे केन्द्रीय-गृह-तथा-सहकारिता-मन्त्री अमितशाहः मुख्यातिथिः भविष्यति, यदा तु मुख्यमन्त्री विष्णुदेवसायः कार्यक्रमस्य अध्यक्षतां विधास्यति। अस्मिन् अवसरे आयोजिष्यमाणे राज्य-अलङ्करण-समारोहे विविधेषु क्षेत्रेषु उत्कृष्टं योगदानं दत्तवत्यः प्रदेशस्य विभूतयः सम्मानयिष्यन्ते।

–––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––

Hindusthan Samachar / अंशु गुप्ता