Enter your Email Address to subscribe to our newsletters




‘मुख्यमन्त्रिसामूहिकविवाहयोजनायाः’ अन्तर्गतं योगीसर्वकारेण ३,४७१ कोटि-रूप्यकेभ्यः अधिकं व्ययितम्
अक्टोबरमासस्य २७ दिनाङ्कपर्यन्तं ५,८८,६९३ युगलानां विवाहाः सम्पन्नाः, चालुवित्तवर्षे ७२,५४० विवाहानां लक्ष्यं निर्धारितम्
योजनाधिकारी आर.पी. सिंहः अवदत्—आवश्यकताग्रस्तपरिवाराणां कृते योजना आर्थिकाधाररूपेण सिद्धा
लखनऊ, ०३ नवम्बरमास: (हि.स.)। निर्धनपरिवाराणां कन्यानां विवाहः आर्थिकविवशतायाः कारणेन स्थगितः न भवेत्, इत्युद्देश्येन उत्तरप्रदेशसर्वकारेण सञ्चालिता ‘मुख्यमन्त्रिसामूहिक-विवाहयोजना’ निरन्तरं विस्तारितक्रियते। विगतेषु नववर्षेषु अस्याः योजनायाः माध्यमेन प्रदेशे ५,८८,६९३ युगलानां विवाहाः कारिताः। समाजकल्याण-विभागस्य प्रतिवेदनानुसारम्, २०१७ तमस्य वर्षस्य अक्टोबरमासात् २०२६ तमस्य वर्षस्य अक्टोबरमासस्य २७ दिनाङ्क-पर्यन्तं राज्यसर्वकारेण एतेषु आयोजनेषु ३,४७१.२२ कोटिरूप्यकेभ्यः अधिकं धनं व्ययितम्। एतानि विवरणानि दर्शयन्ति यत् येषां परिवाराणां कृते कन्यानां विवाहः आर्थिकदृष्ट्या महती समस्या भवति, तेषां बहूनां परिवाराणां कृते अनेन उपक्रमेण सहायता प्रदत्ता।
मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे प्रारब्धायाम् अस्यां योजनायां पात्र-परिवाराणां कृते विवाहावसरे आर्थिक-सहायतया सह आवश्यकानि उपहार-वस्तूनि अपि प्रदीयन्ते। सामूहिकसमारोहेषु विभिन्नसमुदायानां युगलानां विवाहाः निकाहाश्च सम्पन्नाः कारयन्ति। सर्वकारस्य अस्याः व्यवस्थायाः उद्देश्यं केवलम् आर्थिकसहायतां प्रदानम् एव न, अपितु आवश्यकताग्रस्तपरिवाराणां कृते सामाजिकसम्मानेन स्वकन्यानां विवाहं कर्तुम् अवसरं प्रदानम् अपि अस्ति।
समाजकल्याणविभागस्य संयुक्तनिदेशकः योजनाधिकारी च आर.पी. सिंहः अवदत् यत् एषा योजना निर्धनपरिवाराणां कृते महती सहायता सिद्धा भवति। तेन उक्तं यत् आर्थिकदृष्ट्या दुर्बलाः मातापितरः कन्यानां विवाहाय अतिरिक्तम् ऋणं ग्रहीतुं वा स्वसञ्चितधनं व्ययितुं वा इत्यादिभ्यः चिन्ताभ्यः बहुधा मुक्ताः भवन्ति। अस्मिन् चालुवित्तवर्षे प्रदेशस्य विभिन्नजनपदेभ्यः १,१५,६५८ आवेदनानि प्राप्तानि। एतेषु ३४,६५४ आवेदनानि परीक्षणानन्तरं स्वीकृतानि, ११,५४० आवेदनानि च अपात्राणि इति घोषितानि। अन्येषाम् आवेदनानां पात्रतायाः आधारेण परीक्षणं क्रियते।
एकस्मिन् वर्षे एकलक्षाधिकयुगलानां विवाहस्य अभिलेखः
योजनायाः प्रारम्भिकवर्षेभ्यः अद्यावधि प्राप्तेषु विवरणेषु अस्याः योजनायाः विस्तारः दृश्यते। २०१७-१८ वित्तवर्षे १४,५८० युगलानां विवाहाः कारिताः आसन्। अग्रिमयोः वित्तवर्षयोः एषा सङ्ख्या क्रमेण ४२,३१७ तथा ४७,०९७ अभवत्। २०२०-२१ वित्तवर्षे कोरोना-महामार्याः काले २२,७८० विवाहाः अभवन्। ततः २०२१-२२ वित्तवर्षे ४९,६४४ युगलानि योजनायाः लाभं प्राप्तवन्ति।
२०२२-२३ वित्तवर्षे प्रथमवारं एकलक्षात् अधिकानां, अर्थात् १,००,८७४ युगलानां विवाहाः कारिताः। २०२३-२४ वित्तवर्षे एषा सङ्ख्या १,०४,९४० यावत् प्राप्ता। ततः २०२४-२५ वित्तवर्षे ९५,४४८ तथा २०२५-२६ वित्तवर्षे ७६,५२२ युगलानां विवाहाः सम्पन्नाः। अस्मिन् चलितवित्तवर्षे अक्टोबरमासस्य २७ दिनाङ्कपर्यन्तं ३४,४९१ युगलानां विवाहाः कारिताः। सर्वकारेण सम्पूर्णवर्षाय ७२,५४० विवाहानां लक्ष्यं निर्धारितम्।
नवदम्पतीभ्यः एकलक्षरूप्यकाणां सहायता प्रदीयते
योजनायाः अन्तर्गतं प्रत्येकस्य पात्रयुगलस्य विवाहाय समग्रतया एकलक्षरूप्यकाणां सहायता निर्धारितास्ति। एतेषु ६४,००० रूप्यकाणि गृहस्थजीवनस्य आरम्भाय कन्यायाः धनागारे प्रेष्यन्ते। २१,००० रूप्यकाणि वैवाहिकोपहार-सामग्रीणां क्रयणे व्यय्यन्ते, १५,००० रूप्यकाणि च विवाहसमारोहस्य व्यवस्थाभ्यः निर्धारितानि सन्ति। एवं सहायताराशिः प्रत्यक्षतया लाभार्थिनः यावत् प्राप्यते, नवदम्पतीभ्यः आवश्यकगृहस्थोपयोगिवस्तूनि अपि प्रदीयन्ते।
आवेदनात् धनराशिप्रेषणपर्यन्तं सर्वं कार्यम् अन्तर्जालमाध्यमेन निरीक्षणे भवति
लाभार्थिनां चयनप्रक्रियायां पारदर्शितां स्थापयितुं विभागेन सत्यापनप्रक्रिया प्रौद्योगिक्या सह सम्बद्धा कृता अस्ति। आवेदकानां ई-केवाईसी क्रियते तथा ई-डिस्ट्रिक्ट्-पटल-माध्यमेन आयप्रमाण-पत्राणां जातिप्रमाणपत्राणां च सत्यापनं भवति। ततः आधाराधारित-प्रदानप्रणाल्या निर्धारितधनराशिः लाभार्थिनां धनागारेषु प्रेष्यते। आवेदनानां परीक्षणस्य अङ्कीय-सत्यापनस्य च उद्देश्यं यत् सर्वकारीय-सहायतायाः लाभः केवलं निर्धारितपात्रताम् पूरयतां परिवाराणामेव प्राप्नुयात्।
हरदोई-सीतापुरजनपदयोः सर्वाधिकाः विवाहसमारोहाः
जनपदानुसारं प्राप्तेषु विवरणेषु हरदोई-जनपदे सर्वाधिकाः विवाहाः अभिलेखिताः सन्ति। अत्र चालुवित्तवर्षे अद्यावधि १,३८५ युगलानां विवाहाः सम्पन्नाः। १,३३५ युगलैः सह सीतापुरः द्वितीयस्थाने अस्ति। पीलीभीत-जनपदे १,२७१ तथा आजमगढ-जनपदे १,२४२ युगलानां विवाहाः कारिताः।
प्रायः षड्लक्षयुगलानां विवाहैः तथा ३,४७१ कोटिरूप्यकेभ्यः अधिकेन सर्वकारीय-व्ययेन ‘मुख्यमन्त्रिसामूहिक-विवाह-योजना’ प्रदेशस्य प्रमुखासु सामाजिक-सहायतायोजनासु अन्यतमा अभवत्। चलितवित्तवर्षे निर्धारितं लक्ष्यं प्राप्तुं अद्यापि अधिकाः विवाहसमारोहाः आयोजनीयाः सन्ति। सर्वकारस्य अस्य उपक्रमस्य मुख्योद्देश्यं आर्थिकदृष्ट्या दुर्बलपरिवाराणां कन्याविवाहस्य दायित्वनिर्वहणे सहाय्यं करणं तथा अनावश्यकस्य आर्थिकभारस्य विना तेषां नूतनपारिवारिकजीवनस्य आरम्भाय अवसरं प्रदानम् अस्ति।
लाभार्थिनां वचनेषु योजनायाः अनुभवाः
उत्तरप्रदेशस्य देवरिया-जनपदे निवसतः दुर्गेशचौरसियस्य पुत्र्याः नेहायाः विवाहः अपि ‘मुख्यमन्त्रिसामूहिकविवाह-योजनायाः’ अन्तर्गतं सम्पन्नः आसीत्। सः अवदत् यत् पुत्र्याः विवाहं कर्तुं सः अत्यन्तं चिन्तितः आसीत्। तस्य मनसि सर्वदा एषा चिन्ता भवति स्म यत् पुत्र्याः विवाहः कथं भविष्यति। किन्तु योगीसर्वकारेण सञ्चालितायाः ‘मुख्यमन्त्रिसामूहिक-विवाहयोजनायाः’ माध्यमेन तस्य पुत्र्याः विवाहस्य स्वप्नः पूर्णः अभवत् तथा तस्योपरि आर्थिकभारः न अभवत्, ऋणग्रहणस्य आवश्यकता अपि न जाता। योगीसर्वकारस्य अस्याः योजनायाः लाभेन तस्य पुत्री विवाहानन्तरं स्वश्वशुरगृहं गतवती।
सामूहिकविवाहसमारोहे भागं गृहीतवती पात्रमहिला शाहनाजखातून् अवदत् यत् योगीसर्वकारेण सञ्चालिता एषा योजना प्रशंसनीया अस्ति। सर्वकारः कस्यापि एकस्य धर्मस्य पक्षपातं न करोति, अपितु सर्वान् धर्मान् समानदृष्ट्या पश्यति तथा सर्वेभ्यः योजनायाः लाभः प्रदीयते। निर्धनपरिवाराः अस्याः योजनायाः लाभं प्राप्नुवन्ति। सर्वकारेण विवाहस्य व्ययः वह्यते, तया सह सम्बद्धा सामग्री अपि प्रदीयते। शाहनाजः योजनायाः सञ्चालनार्थं सर्वकारं प्रति कृतज्ञतां प्रकटितवती। एवमेव राम-अवधचौहानः अपि स्वपुत्र्याः रेशमायाः विवाहम् अकारयत्।
Hindusthan Samachar / Divya Ranjan