Enter your Email Address to subscribe to our newsletters

जैसलमेरम्, ०३ नवम्बरमासः (हि.स.)। विश्वे युद्धस्य परिवर्तमानानां स्वरूपाणां वर्धमानानां च सुरक्षासम्बद्धानां चुनौतीनां मध्ये भारतः स्वस्य सैन्यशक्तिं नव्येन सामर्थ्येन सुसज्जीकर्तुं सज्जतां करोति। अधुना युद्धक्षेत्रे केवलं पारम्परिकायुधानामेव न, अपितु मानवविरहितविमानानां, क्षेपणास्त्राणां, आधुनिकवायुरक्षाप्रणालीनां लक्ष्यभेदिसटीकप्रहारप्रौद्योगिक्याश्च निर्णायिका भूमिका वर्तते। एतदेव दृष्ट्वा केन्द्रीयः रक्षामन्त्री राजनाथसिंहः मङ्गलवासरे जैसलमेरनगरे रक्षामन्त्रालयस्य संसदीयपरामर्शदातृसमितेः उपवेशनस्य अध्यक्षतां कुर्वन् सेनानाम् आधुनिकीकरणं रक्षाक्षेत्रे स्वावलम्बनं च सर्वकारस्य प्रमुखप्राथमिकते इति प्रतिपादितवान्।
रक्षामन्त्री अवदत् यत् वित्तवर्षे २०२६-२७ देशस्य रक्षाव्ययः वर्धित्वा ७.८५ लक्षकोटिरूप्यकाणि अभवत्। अस्मिन् सेनानाम् आधुनिकीकरणाय पूँजीगतक्रयणाय च २.१९ लक्षकोटिरूप्यकाणां प्रावधानं कृतम् अस्ति। आधुनिकसैन्यसंसाधनैः सुसज्जितानां सेनानां निर्माणेन सह स्वदेशीयं रक्षोद्योगमपि सुदृढं कर्तुं सर्वकारस्य लक्ष्यम् अस्ति, येन भविष्यत्कालीनानां चुनौतीनां सामना देशे विकसिताभिः प्रौद्योगिकीभिः उपकरणैश्च कर्तुं शक्येत।
राजनाथसिंहः अवदत् यत् रूसयूक्रेनयुद्धं इजराइलईरानयोः संघर्षश्च इत्यादिभिः घटनाक्रमैः युद्धस्य परिवर्तमानं स्वरूपं स्पष्टतया प्रदर्शितम् अस्ति। आधुनिकयुद्धे मानवविरहितविमानानां, क्षेपणास्त्राणां वायुरक्षाप्रणालीनां च भूमिका तीव्रगत्या वर्धमाना अस्ति। अतः भारतीयसेनाः वर्तमानकालीनानाम् आवश्यकतानां सह भविष्यत्कालीनानां चुनौतीनां सम्मुखीकरणाय अपि सज्जीकर्तव्याः इति आवश्यकम्।
तेन उक्तं यत् सेनानाम् आधुनिकीकरणाय सर्वकारः वित्तीयसंसाधनानाम् उपलब्धतायै, रक्षोत्पादने स्वावलम्बनाय, मानवीयसम्पदां सैन्यसंरचनानां च सुधारणाय निरन्तरं कार्यं करोति। अस्य उद्देश्यं केवलं नवीनायुधानां क्रयणं न, अपितु सैनिकानां सामर्थ्यं, युद्धसज्जता, प्राविधिकदक्षता च समग्ररूपेण सुदृढीकर्तुम् अस्ति।
तेन उक्तं यत् भारतीयसेनायां विकसिताः नवीनाः सैन्यसंरचनाः परिवर्तमानस्य युद्धतन्त्रस्य स्वरूपं प्रदर्शयन्ति। अश्नि मानवविरहितविमानगणस्य उद्देश्यं पदातिसेनायै मानवविरहितविमानाधारितां निरीक्षणं सूचनासङ्कलनक्षमतां च प्रदातुम् अस्ति। अनेन युद्धक्षेत्रे शत्रोः गतिविधीनां निरीक्षणे सेनानायकानां समीपम् आवश्यकसूचनानां शीघ्रप्रेषणे च सहायता भविष्यति।
तथैव भैरववाहिन्यः शीघ्रकार्याचरणक्षमाः विशेषप्रशिक्षिताः सैन्यसमूहाः इव विकसिताः क्रियन्ते। एतासाम् उद्देश्यं परिवर्तमानासु परिचालनपरिस्थितिषु शीघ्रं अग्रे गन्तुं आवश्यकतानुसारं सीमितक्षेत्रे कार्याचरणं च कर्तुम् अस्ति।
शक्तिबाणपृतनायाः संकल्पना तोपखानस्य क्षमतां आधुनिकप्रौद्योगिक्या सह संयोजयितुं सम्बद्धा अस्ति। अस्मिन् मानवविरहितविमानानां, समूहमानवविरहितविमानानां लक्ष्येषु सम्यक्प्रहारं कर्तुं समर्थानां मानवरहितप्रणालीनां च महत्त्वपूर्णा भूमिका भवितुम् अर्हति। एताभिः प्रौद्योगिकीभिः शत्रोः सैन्यस्थानानां परिचये सटीकप्रहारक्षमतायाश्च सुदृढीकरणे सहायता भविष्यति।
रक्षामन्त्री स्वदेशीयस्य रक्षोत्पादनस्य वृद्धिं स्वावलम्बीभारतस्य दिशि महत्त्वपूर्णां उपलब्धिं प्रतिपादितवान्। तस्य कथनानुसारं वर्षे २०१४-१५ देशस्य रक्षोत्पादनं प्रायः ४६,४२९ कोटिरूप्यकाणि आसीत्, यत् वित्तवर्षे २०२५-२६ वर्धित्वा प्रायः १.७८ लक्षकोटिरूप्यकाणि अभवत्।
तेन उक्तं यत् रक्षाक्षेत्रे अधुना सूक्ष्मलघुमध्यमोद्यमेभ्यः आरभ्य बृहदुद्यमपर्यन्तं सर्वे योगदानं कुर्वन्ति। सर्वकारीयसंस्थानैः सह निजीक्षेत्रस्य उद्योगानाम् सहभागिता अपि वर्धमाना अस्ति। अनेन देशे रक्षोपकरणानां निर्माणाय, प्राविधिकक्षमतानां विकासाय, स्वदेशीयोत्पादनाय च प्रोत्साहनं प्राप्यते।
राजनाथसिंहः अवदत् यत् राष्ट्रियसुरक्षायै रणनीतिकस्वायत्तता स्वदेशीयप्रौद्योगिकक्षमता च अत्यन्तम् आवश्यकी अस्ति। सर्वकारः एतादृशीं रक्षाव्यवस्थां विकसितुम् इच्छति, यस्यां भारतीयसेनानाम् आवश्यकतानुसारम् उपकरणानि देशे एव निर्मातुं शक्येरन् तथा विदेशेषु निर्भरता न्यूनीकर्तुं शक्येत। रक्षाक्षेत्रे स्वदेशीयकम्पनीनां वर्धमाना सहभागिता अस्मिन् दिशि महत्त्वपूर्णा मन्यते।
उपवेशने रक्षाराज्यमन्त्री सञ्जयसेठः, रक्षासचिवः राजेशकुमारसिंहः तथा संसदीयपरामर्शदातृसमितेः सदस्याः उपस्थिताः आसन्।
रक्षामन्त्री समितेः सदस्येभ्यः आधुनिकीकरणसम्बद्धानां प्रस्तुतानां गम्भीरतया अध्ययनं कृत्वा स्वकीयान्परामर्शान् प्रदातुम् आग्रहं कृतवान्। उपयोगिनां परामर्शाणां यथासम्भवं क्रियान्वयनं करिष्यते इति च आश्वासनं दत्तवान्।
भ्रमणावसरे सोमवासरे राजनाथसिंहः जैसलमेरस्थितायां सैन्यछावन्यां स्थिते युद्धसङ्ग्रहालये प्रकाशध्वनिप्रदर्शनम् अवलोकितवान्। अस्मिन् अवसरे तेन सह रक्षाराज्यमन्त्री सञ्जयसेठः, अन्ये अधिकारिणः तथा समितेः सदस्याश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani