Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 03 नवंबरमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी मङ्गलवासरे नवदेहल्यां केन्द्रीयवनपर्यावरणजलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवेन सह मिलित्वा उत्तराखण्डोच्चन्यायालयस्य स्थायिपरिसरस्य निर्माणार्थं वनभूमेः हस्तान्तरणस्य उपयोगपरिवर्तनस्य च प्रस्तावम् उपस्थापितवान्। तेन हल्द्वानीनगरस्य लामाचौड़क्षेत्रे प्रस्तावितस्य न्यायालयपरिसरस्य कृते आरक्षितवनभूमिसम्बद्धायां प्रक्रियायां शीघ्रतां आनेतुं अनुरोधः कृतः।
मुख्यमन्त्री केन्द्रीयमन्त्रिणं सूचितवान् यत् नैनीताले वर्तमानम् उच्चन्यायालयस्य परिसरः चाइना पीक इति पर्वतस्य पादप्रदेशे स्थितः अस्ति। अत्र भू स्खलनस्य सम्भावना, वर्धमानः यातायातस्य दबावः, पर्यटकानाम् आवागमनं च इत्यादयः अनेकाः समस्याः सन्ति। नैनीतालं प्रमुखं पर्यटनस्थलम् अस्ति, अतः वर्षस्य सर्वेषु कालेषु पर्यटकानां न्यायालये कार्यार्थम् आगच्छतां पक्षकाराणां च आवागमनं भवति। एतेन न्यायालयपरिसरे आवागमनस्य वाहनस्थापनस्य च व्यवस्था अपि प्रभाविता भवति।
मुख्यमन्त्री उक्तवान् यत् न्यायव्यवस्थां आधुनिकां सुविधाजनकां च कर्तुं हल्द्वानीनगरस्य लामाचौड़क्षेत्रे स्थायिन्यायालयपरिसरस्य विकासः आवश्यकः अस्ति। प्रस्तावितं स्थलम् मार्गैः राष्ट्रियराजमार्गैः च उत्तमरीत्या सम्बद्धम् अस्ति। अत्र न्यायालयपरिसरस्य निर्माणेन न्यायाधीशेभ्यः, अधिवक्तृभ्यः, न्यायार्थिभ्यः सामान्यनागरिकेभ्यश्च उत्तमाः सुविधाः उपलब्धाः भविष्यन्ति।
मुख्यमन्त्री सर्वोच्चन्यायालयस्य आदेशस्य उल्लेखं कुर्वन् उक्तवान् यत् उच्चन्यायालयस्य नूतनभवनस्य निर्माणार्थं भूमेः उपलब्धता सुनिश्चितकर्तव्या तथा निर्धारितसमयसीमायां तस्याः अधिग्रहणं हस्तान्तरणं च सम्पादनीयम् अस्ति। राज्यसर्वकारः अस्मिन् दिशि आवश्यकाः प्रक्रियाः प्राथमिकतया अग्रे वर्धयति।
सः केन्द्रीयमन्त्रिणं वनभूमेः हस्तान्तरणस्य उपयोगपरिवर्तनस्य च प्रस्तावस्य विषये शीघ्रं कार्यवाही कर्तुं अनुरोधितवान्। केन्द्रीयमन्त्री भूपेन्द्रयादवः प्रस्तावस्य विषये सकारात्मकं दृष्टिकोणं प्रदर्श्य अग्रिमकार्यवाहीं कर्तुं आश्वासनं दत्तवान्।
Hindusthan Samachar / Dheeraj Maithani