Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 04 नवंबरमासः (हि.स.)।
केन्द्रीययुवकार्यक्रम-क्रीडाराज्यमन्त्री रक्षा निखिल खडसे ४७ तमस्य विश्वबाहुबलमल्लयुद्धप्रतियोगितायाः तथा २८ तमस्य विश्वदिव्याङ्गबाहुबलमल्लयुद्धप्रतियोगितायाः २०२६ इत्यनयोः आयोजनावसरे प्रतिष्ठितेन ‘मेडल् ऑफ् ऑनर्’ इति सम्मानेन सम्मानिता अभवत्। अयं सम्मानः विश्वबाहुबलमल्लयुद्धमहासङ्घस्य (डब्ल्यूएएफ) सर्वोच्चः सम्मानः अस्ति। महासङ्घस्य अध्यक्षेण असेन हाजिटोडोरोव् इत्यनेन नवदेहल्यां स्थिते एकस्मिन् होटले आयोजितायाः प्रतियोगितायाः समये तस्यै एषः सम्मानः प्रदत्तः।
केन्द्रीयक्रीडाराज्यमन्त्रिणा षष्ट्यधिकदेशेभ्यः आगतैः क्रीडकैः अधिकारिभिश्च सह संवादः कृतः। तया सर्वेभ्यः प्रतिभागिभ्यः शुभकामनाः प्रदत्ताः तथा च प्रथमवारं भारते विश्वस्तरीयप्रतियोगितायाः आयोजनम् एकः महान् अवसरः इति कथितम्। देशे सर्वत्र बाहुबलमल्लयुद्धस्य प्रोत्साहनाय तस्य विकासाय च निरन्तरं समर्थनं प्रदातुं तया प्रतिबद्धता अपि व्यक्ता।
अयं सम्मानः प्राप्तः इति विषये रक्षा खडसे उक्तवती यत् विश्वबाहुबलमल्लयुद्धमहासङ्घात् एतादृशं सम्मानं प्राप्तुं मम कृते गौरवस्य विषयः अस्ति। भारते बाहुबलमल्लयुद्धस्य प्रोत्साहनाय तस्य विकासस्य संवर्धनाय च अहं निरन्तरं स्वसमर्थनं प्रदास्यामि।
अस्यां प्रतियोगितायां षष्ट्यधिकदेशेभ्यः सप्तदशशताधिकाः क्रीडकाः, अधिकारिणः, समर्थकाश्च भागं गृह्णन्ति। अस्याः आयोजनं पीपल्स आर्मरेसलिङ्ग फेडरेशन ऑफ इण्डिया इत्यनेन क्रियते, यस्याः अध्यक्षता प्रीति झङ्गियानी करोति। सा एशियाईबाहुबलमल्लयुद्धमहासङ्घस्य उपाध्यक्षापि अस्ति। तया सह प्रो पञ्जा लीग् इत्यस्य सहसंस्थापकः परवीन डबासः अपि आयोजनस्य महत्त्वपूर्णां भूमिकां निर्वहति। एषा प्रतियोगिता विश्वबाहुबलमल्लयुद्धमहासङ्घस्य सम्बद्धतया मार्गदर्शनेन च आयोज्यते। प्रतियोगितायाः समापनं नवम्बरमासस्य षष्ठे दिनाङ्के भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani