Enter your Email Address to subscribe to our newsletters

रायपुरम् 04 नवंबरमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः अद्य जशपुरमण्डलस्य प्रवासे, विविधेषु सामाजिकेषु सार्वजनिकेषु च कार्यक्रमेषु सहभागितां करिष्यति।
मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे जशपुरमण्डलस्य प्रवासे भविष्यति। अस्मिन् प्रवासे सः विविधेषु सामाजिकेषु सार्वजनिकेषु च कार्यक्रमेषु सहभागितां करिष्यति।
निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री मध्याह्ने १२ वादने ३५ निमेषे जशपुरस्य आरक्षिपङ्क्तिस्थितं हेलिपैडस्थलम् आगमिष्यति। ततः मध्याह्ने १२ वादने ५० निमेषे आयोज्यमानायां लोकतन्त्ररक्षणम् अराजकतानिवारणं च इति सभायां पदयात्रायां च सहभागितां करिष्यति।
मुख्यमन्त्री मध्याह्ने २ वादने ३० निमेषे पण्डितरामचन्द्रपौराणिकसामुदायिकभवनस्य लोकार्पणकार्यक्रमे सहभागितां करिष्यति। तदनन्तरं मध्याह्ने ३ वादने हेल्मेट् बैंक इत्यस्य उद्घाटनं करिष्यति।
मुख्यमन्त्री सायः मध्याह्ने ३ वादने ३० निमेषे बनग्रामे आयोज्यमाने आञ्चलिककर्मापूजामहोत्सवे अपि सहभागितां करिष्यति।
सर्वेषु निर्धारितकार्यक्रमेषु सहभागितां कृत्वा मुख्यमन्त्री स्वगृहनगरे बगियाग्रामे आगमिष्यति, यत्र सः रात्रिविश्रामं करिष्यति।
Hindusthan Samachar / Dheeraj Maithani