Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 04 नवंबरमासः (हि.स.)। महिला टी-२० क्रिकेट में विश्व कीर्तिमान स्थापित करने वाली प्रेमा रावत की महिम वर्मा ने की प्रशंसा
भारतीय क्रिकेट नियन्त्रणमण्डलस्य (बीसीसीआई) पूर्वोपाध्यक्षः तथा क्रिकेट एसोसिएशन ऑफ उत्तराखण्डस्य (सीएयू) सचिवः महिम वर्मा महिला टी-२० क्रिकेटे सर्वाधिक शीघ्रं अर्धशतकं निर्मात्री भारतीयक्रीडिका प्रेमा रावतस्य भूरिशः प्रशंसाम् अकरोत्। तेन उक्तं यत् प्रेमारावतया प्राप्ता उपलब्धिः न केवलम् उत्तराखण्डस्य अपितु सम्पूर्णस्य राष्ट्रस्य गौरवस्य विषयः अस्ति।
उत्तराखण्डस्य चतुर्विंशतिवर्षीया प्रेमा रावत वरिष्ठमहिला टी-२० प्रतियोगितायां स्वकीयेन आक्रामकेण फलन्दाजीकौशलेन सर्वेषाम् आकर्षणस्य केन्द्रम् अभवत्। नवम्बरमासस्य द्वितीये दिने हैदराबाददलेन सह सम्पन्ने स्पर्धायां प्रेमया केवलासु चतुर्दशसु क्रीडनावसरेषु अर्धशतकं पूर्णीकृत्य महिला टी-२० क्रिकेटस्य इतिहासे सर्वाधिकशीघ्रं अर्धशतकं निर्माय विश्वकीर्तिमानं स्थापितम्। तया पाकिस्तानस्य फातिमा सनायाः पञ्चदशसु क्रीडनावसरेषु अर्धशतकनिर्माणस्य पूर्वकीर्तिमानम् अतिक्रान्तम्। स्वकीयायाम् अस्यां ऐतिहासिकायां क्रीडायां तया षट् चतुःकाः चत्वारि षट्कानि च प्रहारितानि। न केवलं फलन्दाजीकौशले, अपितु कन्दुकक्षेपणे अपि तया उत्कृष्टं प्रदर्शनं कृतम्। सा चतुर्षु क्रीडनचक्रेषु केवलं द्वादश धावनाङ्कान् दत्त्वा द्वौ महत्त्वपूर्णौ कन्दुकविक्षेपेण क्रीडकौ निष्कासितवती।
महिम वर्मा प्रेमायै शुभकामनाः प्रदाय उक्तवान् यत् चतुर्दशसु क्रीडनावसरेषु कीर्तिमानात्मकम् अर्धशतकं निर्मातुं कन्दुकेन फलकेन च उत्कृष्टं प्रदर्शनं कर्तुं च तस्याः अद्भुतक्षमतायाः कठिनपरिश्रमस्य च परिणामः अस्ति। प्रेमा अत्यन्तं प्रतिभाशालिनी क्रीडिका अस्ति, या दूरस्थात् प्रदेशात् आगत्य अद्य विश्वस्तरे स्वकीयां विशिष्टां परिचयमुद्रां स्थापयति। क्रिकेट एसोसिएशन ऑफ उत्तराखण्डः सदैव एतादृशानां युवा क्रीडकानां प्रतिभापरिष्काराय कार्यं कुर्वन् अस्ति। अद्यतनस्य उत्तराखण्ड प्रीमियर लीग (यूपीएल) इति प्रतियोगितायां तस्याः उत्कृष्टप्रदर्शनेन स्पष्टम् अभवत् यत् सा बृहत्तरस्य क्रीडामञ्चस्य कृते पूर्णतया सज्जा अस्ति। मम पूर्णः विश्वासः अस्ति यत् प्रेमा भविष्ये अपि एवं नूतनानि कीर्तिमानानि स्थापयिष्यति तथा भारतीयदलेन सह दीर्घकालपर्यन्तम् उत्कृष्टं प्रदर्शनं करिष्यति।
उत्तराखण्डस्य अत्यन्तं दूरस्थात् ग्रामीणप्रदेशात् आगतायाः प्रेमायाः प्रतिभायाः परिष्करणे क्रिकेट एसोसिएशन ऑफ उत्तराखण्डस्य महत्त्वपूर्णं योगदानम् अस्ति। सीएयू संस्थया प्रारम्भिककाले एव प्रेमायाः योग्यतायाः परिचयः प्राप्तः तथा च तस्यै सर्वविधाः सुविधाः, आधुनिकं प्रशिक्षणं समुचितं मार्गदर्शनं च प्रदत्तम्।
अद्यतने आयोजितया उत्तराखण्ड प्रीमियर लीग प्रतियोगितया अपि तस्याः क्रीडाजीवने महत्त्वपूर्णा भूमिका निर्व्यूढा। यूपीएल माध्यमेन प्राप्तेन उत्कृष्टानुभवेन तथा च स्पर्धात्मकक्रीडायाः पर्याप्तेन अवसरप्रदर्शनेन एव सा अद्य उत्तराखण्डदलस्य कृते एतादृशं विजयप्रदं प्रदर्शनं कर्तुं समर्था जाता अस्ति।
प्रेमा अद्यावधि भारतस्य कृते सप्त टी-२० अन्तरराष्ट्रीयस्पर्धाः क्रीडितवती अस्ति, यासु तया सप्त कन्दुकविक्षेपकविकेटानि अपि प्राप्तानि। एतदतिरिक्तं महिला प्रीमियर लीग प्रतियोगितायां सा रॉयल चैलेंजर्स बेङ्गलुरुदलस्य पक्षतः क्रीडति।
स्पर्धायाः विवरणानुसारं प्रेमारावतस्य पञ्चाशत् धावनाङ्कानां नाबादक्रीडनस्य आधारेण उत्तराखण्डदलेन विंशतिक्रीडनचक्रेषु केवलयोः द्वयोः क्रीडकयोः निष्कासनेन एकशतसप्ताशीतिः धावनाङ्काः निर्मिताः। प्रत्युत्तरे हैदराबाददलं सम्पूर्णानि क्रीडनचक्राणि क्रीडित्वा अष्टक्रीडकानां निष्कासनेन केवलं अष्टनवतिः धावनाङ्कानेव प्राप्तुं समर्थम् अभवत्। एवं उत्तराखण्डदलेन एषा स्पर्धा नवाशीतिधावनाङ्कानां विशालान्तरेण विजिता।
------------
Hindusthan Samachar / Dheeraj Maithani