Enter your Email Address to subscribe to our newsletters

बाराबंकी, 04 नवंबरमासः (हि.स.)।
ऐतिहासिकायाः देवामेलायाः प्रदर्शनी २०२६ इत्यस्य अन्तर्गतं मङ्गलवासरस्य रात्रौ आयोजिते विराट् कविसम्मेलने देशस्य विभिन्नप्रदेशेभ्यः समागतेषु कविषु स्वकीयाभिः काव्यरचनाभिः साहित्यस्य संवेदनानां च विविधाः वर्णच्छटाः विकीर्णाः। हास्यव्यङ्ग्यं, प्रेम, राष्ट्रप्रेम तथा वीररसप्रधानाः कविताः श्रोतॄन् कदाचित् हास्येन आनन्दितवन्तः, कदाचित् भावविभोरान् च अकुर्वन्। अर्धरात्रिपर्यन्तं सभागारः करतलध्वनिभिः प्रशंसावचनैश्च मुखरितः अभवत्।
कार्यक्रमस्य शुभारम्भः भूतपूर्वसांसदेन ए पी गौतमेन, सुन्दर लाल भारती इत्यनेन तथा मेलासमितेः सदस्यैः चौधरी मोहम्मद फैज महमूदेन, राय सुरेश्वर बलिना, कुंवर सानिध्य बलिना च सरस्वत्याः चित्रस्य पुरतः दीपप्रज्वलनं कृत्वा कृतः। कार्यक्रमस्य अध्यक्षता चौधरी मोहम्मद फैज महमूदेन कृता। वरिष्ठकविना अम्बरीश अम्बरेण कार्यक्रमस्य संयोजनं कृतम्, कोलकातानगरस्य प्रोफेसर राहुल अवस्थिना च मञ्चसञ्चालनं कृतम्।
कवयित्र्या अंशु प्रिया दुबे इत्यनया सरस्वतीवन्दनया काव्यपाठस्य शुभारम्भः कृतः। लखनऊनगरस्य गीतकारेण अखण्ड प्रताप सिंह इत्यनेन जीवनस्य उत्थानपतनानि गीतमाध्यमेन अभिव्यक्तानि। प्रयागराजस्य हास्यकविना अखिलेश द्विवेदिना हास्यस्य आनन्दस्य च वितरणस्य सन्देशं प्रदाय श्रोतारः बहुधा हास्येन आनन्दिताः। योगेन्द्र मधुपेन प्रेमविरहयोः भावनाः अभिव्यक्ताः। डॉ अनु सपनेन सङ्घर्षस्य आत्मनिर्भरतायाश्च सन्देशः प्रदत्तः। अंशु प्रिया दुबे इत्यनया सैनिकानां सम्मानार्थं भावपूर्णा रचना प्रस्तुता, राजस्थाने योगेन्द्र शर्मणा च वीररसप्रधानाभिः कविताभिः राष्ट्रभक्तेः भावनाः जागरिताः।
कवीनां श्रेष्ठाभिः काव्यप्रस्तुतिभिः प्रभाविताः श्रोतारः करतलध्वनिभिः तेषाम् उत्साहवर्धनम् अकुर्वन्। साहित्येन, हास्येन, राष्ट्रप्रेम्णा च समलङ्कृता इयं काव्यसन्ध्या अर्धरात्रिपर्यन्तं सर्वेषां स्मृतिपटले चिरस्मरणीया अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani