केन्द्रीयमन्त्री जे पी नड्डा अद्य भोपालनगरे, लोकतन्त्रं रक्षतु अराजकतां च दूरीकरोतु इति पदयात्रायां भागं ग्रहीष्यति।
भोपालम्, 04 नवंबरमासः (हि.स.)। केन्द्रीयस्वास्थ्यमन्त्री जगत्प्रकाशनड्डा अद्य भोपालनगरम् आगमिष्यति, लोकतन्त्ररक्षणम् अराजकतायाः च निराकरणम् इति सङ्कल्पेन आयोजितायां पदयात्रायां भागं ग्रहीष्यति। केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जगत्प्रकाशनड्
केन्द्रीय मंत्री जेपी नड्डा


भोपालम्, 04 नवंबरमासः (हि.स.)।

केन्द्रीयस्वास्थ्यमन्त्री जगत्प्रकाशनड्डा अद्य भोपालनगरम् आगमिष्यति, लोकतन्त्ररक्षणम् अराजकतायाः च निराकरणम् इति सङ्कल्पेन आयोजितायां पदयात्रायां भागं ग्रहीष्यति।

केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जगत्प्रकाशनड्डा अद्य बुधवासरे मध्यप्रदेशस्य एकदिवसीयप्रवासार्थं भोपालनगरम् आगमिष्यति। अत्र भारतीयजनतापक्षद्वारा लोकतन्त्ररक्षणम् अराजकतायाश्च निराकरणम् इति सङ्कल्पेन आयोज्यमानायां विशालपदयात्रायां सः सहभागितां करिष्यति।

भारतीयजनतापक्षस्य प्रदेशमाध्यमप्रभारी बृजगोपाल लोया इत्यनेन सूचितं यत् पक्षद्वारा अद्य भोपालनगरे लोकतन्त्ररक्षणम् अराजकतायाश्च निराकरणम् इति सङ्कल्पेन विशालपदयात्रायाः आयोजनं क्रियते। अस्यां पदयात्रायां केन्द्रीयमन्त्रिणा जे पी नड्डा सह मुख्यमन्त्री डॉ मोहन यादवः, भारतीयजनतापक्षस्य प्रदेशाध्यक्षः हेमन्तखण्डेलवालः, प्रदेशसर्वकारस्य मन्त्रिणः, पक्षस्य प्रदेशपदाधिकारिणः तथा जनप्रतिनिधयः च सहभागितां करिष्यन्ति।

तेन सूचितं यत् लोकतन्त्ररक्षणस्य अराजकतायाः विरोधस्य च सङ्कल्पेन आयोज्यमाना इयं विशालपदयात्रा प्रातः दशवादने अटलपथात् प्लेटिनमप्लाजा टीटी नगरात् प्रारभ्य रोशनपुरापर्यन्तं गमिष्यति। अस्यां पदयात्रायां प्रदेशसर्वकारस्य मन्त्रिणः, पक्षस्य प्रदेशपदाधिकारिणः, जनप्रतिनिधयः, विभिन्नसामाजिकसमूहानां प्रतिनिधयः, व्यापारिसङ्घटनानां पदाधिकारिणः, क्रीडासङ्घटनानां प्रमुखाः, नगरस्य गणमान्यनागरिकाः, महिलाश्च इत्येतेषां सहभागितया प्रायः एकलक्षं जनानां समागमः भविष्यति।

पदयात्रायां समाजस्य विभिन्नवर्गाणां प्रतिनिधयः पक्षकार्यकर्तारश्च लोकतन्त्रस्य रक्षणस्य अराजकतायाः विरोधस्य च सङ्कल्पं स्वीकृत्य सहभागिनः भविष्यन्ति। उल्लेखनीयं यत् अस्याः पदयात्रायाः आयोजनं पूर्वम् इन्दौरनगरे जबलपुरनगरे च कृतम् आसीत्।

---------------

Hindusthan Samachar / Dheeraj Maithani