Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 04 नवंबरमासः (हि.स.)।
युवकार्यक्रम-क्रीडामन्त्रालयस्य क्रीडाविभागेन बुधवासरे माई भारत-पटलमाध्यमेन ‘खेलो भारत : निर्माणात् पदकविजयपर्यन्तं यात्रा’ इति विषयाधारितायाः प्रश्नोत्तर्याः शुभारम्भः कृतः। अस्याः प्रश्नोत्तर्याः उद्देश्यम् अस्ति यत् देशस्य क्रीडापरितन्त्रं सुदृढं भवेत्, स्वदेशीयक्रीडासामग्रीणां निर्माणं प्रोत्साहितं भवेत्, एशियाईक्रीडासु २०२६ तथा एशियाईपैरा-क्रीडासु २०२६ भारतेन प्राप्तानाम् उपलब्धीनां विषये तथा च सर्वकारस्य विभिन्नानाम् उपक्रमाणां विषये जनजागरूकता वर्धेत।
क्रीडामन्त्रालयस्य अनुसारम् एषा प्रश्नोत्तरी नवम्बरमासस्य २० दिनाङ्कपर्यन्तं प्रचलिष्यति। अस्यां सामान्यजनाः, विद्यार्थिनः, युवानः, व्यावसायिकाः, क्रीडाप्रेमिणश्च भागं ग्रहीतुं शक्नुवन्ति। क्रीडासामग्रीनिर्माणात् नवाचारपर्यन्तं तथा अन्तरराष्ट्रीयक्रीडासु उत्कृष्टप्रदर्शनपर्यन्तं भारतस्य वर्धमानस्य क्रीडापरितन्त्रस्य विषये ज्ञानं प्राप्तुं सहभागितां च वर्धयितुं प्रतिभागिनः प्रोत्साहयिष्यन्ते।
प्रश्नोत्तर्यां ‘खेलो इण्डिया क्रीडासामग्रीनिर्माणयोजना’ प्रमुखतया समावेशिता अस्ति। अस्याः योजनायाः कृते १,८५६.६७ कोटिरूप्यकाणां वित्तीयव्ययः निर्धारितः अस्ति। योजनायाः उद्देश्यम् भारते स्वदेशीयक्रीडासामग्रीनिर्माणस्य पारितन्त्रं सुदृढं कर्तुम् अस्ति। अस्याः योजनायाः द्वौ घटकौ स्तः, प्रोत्साहनम् हस्तक्षेपश्च। एतयोः अन्तर्गतं निवेशसहायता, निर्माणक्षेत्रम्, विद्यमानाः समूहाः, उत्पादनप्रोत्साहनम्, प्रमाणीकरणं परीक्षणं च, अनुसन्धानम्, कौशलविकासः, नवोद्यमाः, ब्राण्डनिर्माणं प्रचारप्रसारश्च समाविष्टाः सन्ति। एतेषां उपायानां प्रयोजनं स्वदेशीयनिर्माणस्य प्रोत्साहनम्, रोजगारावसराणां सृजनम्, निर्यातस्य वर्धनम् तथा भारतीयक्रीडासामग्रीनिर्मातॄणां वैश्विकप्रतिस्पर्धात्मकक्षमतायाः सुदृढीकरणम् अस्ति। प्रश्नोत्तर्यां जापानदेशे आयोज्यमानयोः एशियाईक्रीडयोः एशियाईपैरा-क्रीडयोश्च भारतस्य सहभागितासम्बद्धाः विषयाः अपि समाविष्टाः सन्ति।
अस्यां प्रश्नोत्तर्यां कापि आयुःसीमा नास्ति तथा च सर्वे भारतीयनागरिकाः भागं ग्रहीतुं शक्नुवन्ति। लिङ्गस्य, शैक्षणिकयोग्यतायाः, राज्यस्य च आधारेण किमपि विशेषपात्रताबन्धनं नास्ति। प्रतिभागिभ्यः विंशतिप्रश्नानाम् उत्तराणि दातुं पञ्चदश निमेषाणां समयः प्रदास्यते। प्रश्नोत्तर्यां भागग्रहणात् पूर्वं तेभ्यः माई भारत-पोर्टले उपलब्धायाः सन्दर्भसामग्र्याः अध्ययनं करणीयम्।
प्रश्नोत्तर्याः परिणामानाम् आधारेण शीर्षस्थानं प्राप्तेभ्यः शतप्रतिभागिभ्यः फिट् इण्डिया इत्यस्य पक्षतः उपहारसामग्री प्रदास्यते। समानाङ्कप्राप्तेः स्थितौ सङ्गणकाधारितया चिट्ठिकाप्रणाल्या विजेतॄणां चयनं भविष्यति। प्रश्नोत्तर्याः अनन्तरं प्रतिभागिनः समुचितानि उत्तराणि अपि द्रष्टुं शक्नुवन्ति।
मन्त्रालयेन देशस्य सर्वेभ्यः नागरिकेभ्यः, विद्यार्थिभ्यः, युवभ्यः, क्रीडाप्रेमिभ्यश्च अस्यां प्रश्नोत्तर्यां भागं ग्रहीतुं तथा क्रीडानिर्माणं सुदृढं कर्तुं, क्रीडाप्रतिभानां विकासं कर्तुं, देशस्य क्रीडासम्बद्धान् आकाङ्क्षान् च अग्रे नेतुं केन्द्रसर्वकारस्य उपक्रमाणां विषये स्वकीयम् अवबोधं वर्धयितुं च आह्वानं कृतम्।
प्रश्नोत्तर्याः विवरणम्
* प्रश्नोत्तर्याः शीर्षकम् : खेलो भारत : निर्माणात् पदकविजयपर्यन्तं यात्रा।
* प्रश्नोत्तर्याः अवधिः : नवम्बरमासस्य ४ दिनाङ्कात् २० दिनाङ्कपर्यन्तम्।
* समयावधिः : १५ निमेषाः।
* प्रश्नानां संख्या : २०।
* पात्रता : कापि आयुःसीमा नास्ति, सर्वे भारतीयनागरिकाः भागं ग्रहीतुं शक्नुवन्ति।
* पुरस्कारः : शीर्षस्थानं प्राप्तेभ्यः शतप्रतिभागिभ्यः फिट् इण्डिया इत्यस्य पक्षतः उपहारसामग्री प्रदास्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani