Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 04 नवंबरमासः (हि.स.)।अक्टूबरमासे भारतीयरेलविभागेन १४५.०७ मिलियनटनमितस्य मालपरिवहनस्य ऐतिहासिकं कीर्तिमानं स्थापितम्, गतवर्षापेक्षया ८.३२ प्रतिशतं वृद्धिः।
भारतीयरेलविभागेन अक्टूबरमासे अद्यावधि सर्वाधिकं १४५.०७ मिलियनटनमितस्य मालस्य परिवहनं कृतम्। एतत् २०२५ तमवर्षस्य अक्टूबरमासे अभिलिखितस्य १३३.९३ मिलियनटनमितस्य मालपरिवहनस्य तुलनायां ८.३२ प्रतिशतं अधिकम् अस्ति। रेलविभागेन चालूवित्तवर्षस्य २०२६-२७ तमस्य प्रथमेषु सप्तमासेषु अर्थात् अप्रैलतः अक्टूबरमासपर्यन्तं ९७८.७८ मिलियनटनमितस्य मालस्य परिवहनमपि कृतम्। गतवित्तवर्षस्य समानावधौ ९३५.१० मिलियनटनमितस्य मालस्य परिवहनं जातम् आसीत्। अस्यां तुलनायां ४.६७ प्रतिशतस्य वृद्धिः अभिलिखिता।
रेलमन्त्रालयस्य अनुसारम् अस्मिन् वर्षे अक्टूबरमासे अनेकासु प्रमुखवस्तुषु मालपरिवहने उल्लेखनीया वृद्धिः अभिलिखिता। अस्मिन् काले खाद्यान्नस्य परिवहने २६.३ प्रतिशतं, घरेलुकोयलस्य परिवहने १६ प्रतिशतं, अन्यवस्तूनां परिवहने ११ प्रतिशतं, क्लिङ्करस्य परिवहने १०.४ प्रतिशतं, घरेलुकण्टेनरस्य परिवहने ६.३ प्रतिशतं, लौहअयस्कस्य परिवहने पञ्च प्रतिशतं, खनिजतैलस्य परिवहने १.९ प्रतिशतं तथा निर्मितलौहस्य परिवहने ०.५ प्रतिशतं वृद्धिः अभवत्।
विद्युत्संयन्त्राणां वर्धमानां आवश्यकतां पूरयितुं रेलविभागेन घरेलुकोयलस्य आपूर्तिरपि वर्धिता। अक्टूबरमासे २०२६ प्रतिदिनं सरासरी ४६९.८ कोयलभारयुक्ताः रेलयानशकटश्रेण्यः प्रेषिताः, यदा तु गतवर्षस्य अस्मिन्नेव मासे प्रतिदिनं ३९३.२ कोयलभारयुक्ताः रेलयानशकटश्रेण्यः प्रेषिताः आसन्। एवं कोयलापूर्तौ १९.५ प्रतिशतस्य वृद्धिः अभिलिखिता।
मालपरिवहनस्य सह यात्रिकपरिवहनेऽपि वृद्धिः अभिलिखिता। अक्टूबरमासे रेलविभागेन ६४.७२ कोटिसङ्ख्याकाः यात्रिणः स्वगन्तव्यस्थानं प्रापिताः। गतवर्षस्य अस्मिन्नेव मासे ६३.५२ कोटिसङ्ख्याकाः यात्रिणः रेलयानेन यात्राम् अकुर्वन्।
चालूवित्तवर्षस्य अप्रैलतः अक्टूबरमासपर्यन्तं रेलविभागेन समग्रतया ४४३.८ कोटिसङ्ख्याकानां यात्रिणां परिवहनं कृतम्। गतवित्तवर्षस्य समानावधौ एषा सङ्ख्या ४३१.४ कोटिः आसीत्। अस्मिन् काले उपनगरीयेतरयात्रिकपरिवहने ४.२ प्रतिशतं तथा उपनगरीययात्रिकपरिवहने १.७ प्रतिशतं वृद्धिः अभिलिखिता।
रेलमन्त्रालयस्य अनुसारं मालपरिवहने एषा वृद्धिः देशस्य आर्थिकगतिविधीनां तथा रसदव्यवस्थायाः सुदृढीकरणाय रेलविभागस्य प्रयत्नान् प्रतिबिम्बयति। क्षमताविस्तारेण तथा सञ्चालनदक्षतायाः सुधारणेन रेलविभागः स्वस्य परिवहनजालं निरन्तरं सुदृढं करोति।
------------
Hindusthan Samachar / Dheeraj Maithani