वञ्चितवर्गस्य उन्नत्यै आरक्षणं महत्त्वपूर्णम्, एषा व्यवस्था निरन्तरं प्रवर्तेत - होसबाले
इन्दौरनगरे संघस्य अखिलभारतीयकार्य-कारीमण्डलस्य त्रिदिवसीयसभा सम्पन्ना। देशे सर्वत्र ९४ सहस्राधिकाः हिन्दू-सम्मेलनानि आयोजितानि, युवानः मादकद्रव्येभ्यः दूरीकर्तुं बलम्। इन्दौरम्, ०४ नवम्बरमास: (हि.स.)। राष्ट्रियस्वयंसेवकसंघः बुधवासरे अवदत् यत् वञ्
राष्ट्रीय स्वयंसेवक संघ के सरकार्यवाह दत्तात्रेय होसबाले इंदौर में पत्रकारों से बातचीत करते हुए


राष्ट्रीय स्वयंसेवक संघ के सरकार्यवाह दत्तात्रेय होसबाले इंदौर में पत्रकारों से बातचीत करते हुए


राष्ट्रीय स्वयंसेवक संघ के सरकार्यवाह दत्तात्रेय होसबाले इंदौर में पत्रकारों से बातचीत करते हुए


इन्दौरनगरे संघस्य अखिलभारतीयकार्य-कारीमण्डलस्य त्रिदिवसीयसभा सम्पन्ना।

देशे सर्वत्र ९४ सहस्राधिकाः हिन्दू-सम्मेलनानि आयोजितानि, युवानः मादकद्रव्येभ्यः दूरीकर्तुं बलम्।

इन्दौरम्, ०४ नवम्बरमास: (हि.स.)। राष्ट्रियस्वयंसेवकसंघः बुधवासरे अवदत् यत् वञ्चितानां तथा पृष्ठवर्गाणाम् उन्नत्यै सामाजिकसमरसतायै च आरक्षणव्यवस्था महत्त्वपूर्णा अस्ति तथा च एषा व्यवस्था निरन्तरं प्रवर्तनीया।

मध्यप्रदेशस्य इन्दौरनगरे स्थिते डेली-कॉलेज-परिसरे नवम्बरमासस्य द्वितीय-दिनाङ्कात् प्रचलन्ती राष्ट्रियस्वयं-सेवकसंघस्य अखिलभारतीयकार्य-कारीमण्डलस्य त्रिदिवसीया सभा बुधवासरे सम्पन्ना। तदनन्तरं संघस्य सरकार्यवाहः दत्तात्रेयहोसबाले वार्ताहरसम्मेलने अवदत् यत् संघः समाजस्य सर्वेषां वर्गाणां विषयेषु चिन्तयति। सामाजिकसमरसतया सह वञ्चितानां तथा पृष्ठवर्गाणाम् उन्नतिरपि महत्त्वपूर्णा अस्ति। समाजस्य ये वर्गाः पृष्ठे गताः सन्ति, तेषां कृते आरक्षणव्यवस्था निरन्तरं प्रवर्तनीया।

सः अवदत्, “आरक्षणस्य विषये वयं पूर्वमेव स्पष्टं कृतवन्तः यत् समाजे येषां जनानां केनापि कारणेन भेदभावः अभवत् तथा च येन कारणेन ते सामाजिक-शैक्षणिकदृष्ट्या पृष्ठे गताः अभवन्, तेषां कृते आरक्षणव्यवस्था अस्ति। यावत् तेषां मध्ये समानता न स्थापितेति तेषां अनुभूतिः न भवति, तावत् भारतवर्षे आरक्षणव्यवस्था प्रवर्तनीया।”

सः अग्रे अवदत् यत् आरक्षणस्य लाभः तेषां सर्वेषां जनानां प्राप्तव्यः, ये वस्तुतः तस्य अधिकारिणः सन्ति। यदि केषाञ्चित् विशिष्टवर्गाणां जनाः एव लाभं प्राप्नुवन्ति तथा अन्ये वञ्चिताः भवन्ति, तर्हि आवश्यकसुधाराणां विषये विचारः करणीयः। तथापि एते सुधाराः तैः समुदायैः जनैश्च सह परामर्शं कृत्वैव करणीयाः, ये आरक्षणस्य लाभं प्राप्नुवन्ति।

सरकार्यवाहः संघस्य विस्तारः, शताब्दीवर्षस्य कार्यक्रमाः, सामाजिक-समरसता, आपदासहायताकार्याणि तथा संघस्य भाविदिशा इत्यादिभिः सम्बद्धानां विषयाणां चर्चायाः निष्कर्षाणां च विषये विस्तरेण सूचितवान्। अस्यां सभायां देशस्य विभिन्नभागेभ्यः प्रायः ४०० प्रतिनिधयः भागं गृहीतवन्तः।

होसबाले अवदत् यत् संघेन शताब्दीवर्षस्यावसरे देशव्यापी संगठनविस्ताराभियानं सञ्चालितम्। अस्य परिणामस्वरूपम् एकस्मिन् वर्षे १०,२४१ नवीनस्थानेषु संघस्य विस्तारः अभवत्। सम्प्रति देशस्य ६३,२०८ स्थानेषु ९९,४२३ शाखाः सञ्चाल्यन्ते। एतदतिरिक्तं ३४,९८२ साप्ताहिकमेलनानि १४,०९६ मासिकमण्डलानि च प्रचलन्ति। शाखानां मेलनानां च माध्यमेन संघस्य सम्पर्कः समग्रतया १,०३,३९७ स्थानेषु अभवत्। एवं २०२५ तमवर्षात् अद्यावधि एकस्मिन् वर्षे संघस्य कार्यक्षेत्रे १०,२४१ स्थानानां वृद्धिः अभवत्।

सामाजिकैकतायाः समरसतायाश्च प्रयासानां उल्लेखं कुर्वन् सरकार्यवाहः अवदत् यत् शताब्दीवर्षे देशस्य विभिन्नभागेषु ९४,२१८ हिन्दूसम्मेलनानि आयोजितानि। संघस्य अनुसारम् एतेषु सम्मेलनेषु प्रायः पञ्चकोटिजनाः भागं गृहीतवन्तः। एतेषाम् आयोजनानां माध्यमेन समाजस्य विभिन्नवर्गाणां मध्ये संवादः, सामाजिकैकता परस्परसम्पर्कश्च वर्धयितुं प्रयासः कृतः। सभायां शताब्दीवर्षस्य कार्यक्रमाणां विजयादशमी २०२५ तः विजयादशमी २०२६ पर्यन्तं समीक्षां कृत्वा एतदपि विचारितं यत् एताः गतिविधयः अग्रे कथं समाजस्य दैनिकव्यवहारेण संगठनात्मककार्यैश्च सह सम्बद्धाः भवेयुः।

आपदासहायताकार्याणां विवरणं ददन् होसबाले अवदत् यत् देशस्य विभिन्नभागेषु जलौघेन, अतिवृष्ट्या चक्रवातेन च प्रभावितानां परिवाराणां सहायतार्थं स्वयंसेवकैः स्थानीयसंस्थानां समाजस्य च सहयोगेन अभियानानि सञ्चालितानि। अस्मिन् वर्षे असमराज्यस्य शिवसागर-जोरहाटजनपदयोः प्रथमवारं बाढ्याः गम्भीरा स्थितिः उत्पन्ना। नागालैण्डस्य पर्वतीयक्षेत्रेषु अत्यधिकवृष्ट्या उत्पन्नया जलौघेन ८०५ ग्रामाणां ६७,७०० परिवाराः प्रभाविताः अभवन्। अस्यां विपत्तौ १,५०० तः अधिकानि गृहाणि पूर्णतया क्षतिग्रस्तानि अभवन्। राहतकार्येषु १,६०० तः अधिकाः स्वयंसेवकाः भागं गृहीतवन्तः तथा च प्रायः ४२,२०० परिवाराणां कृते भोजनं, जलं औषधानि च प्रापितवन्तः। प्रायः १५० परिवाराणां गृहपुनर्निर्माणार्थम् आवश्यकसामग्री अपि प्रदत्ता। संघस्य अनुसारम् अस्य सेवाकार्यस्य कृते पञ्चकोटिरूप्यकेभ्यः अधिका राशिः सङ्गृहीता।

चित्रकूटे मन्दाकिनीनद्यां समुत्पन्नया भीषणजलौघेन नगरस्य प्रायः २,००० परिवाराः तथा २८ ग्रामाणां ग्रामीणपरिवाराः प्रभाविताः अभवन्। अत्र ३५० कार्यकर्तारः गृहे गृहे गत्वा राहतसामग्रीपुटिकाः वितरितवन्तः। षट्सहस्राधिकजनानां कृते भोजनस्य स्थायीव्यवस्था कृता, यदा तु ५,६०० जनानां चिकित्सासहायता प्रदत्ता। प्रभावितक्षेत्रेषु पशूनां टीकाकरणस्य प्रयासः अपि कृतः। तथैव लखनऊक्षेत्रे अत्यधिकवृष्ट्या जलौघस्य स्थितिः उत्पन्ना, येन ४० सहस्राधिकाः परिवाराः प्रभाविताः अभवन्। एतेषु प्रायः २५ सहस्रपरिवाराः सुरक्षितस्थानेषु गन्तुं बाध्याः अभवन्। त्रिशताधिकैः कार्यकर्तृभिः प्रभावितजनानां कृते भोजनं, जलम्, औषधानि अन्यावश्यकसामग्रीश्च प्रापितानि।

सः अवदत् यत् ओडिशा-आन्ध्रप्रदेशयोः समुद्रतटीयक्षेत्रेषु चक्रवातेन गृहाणां, सस्यानां, पशुधनस्य, नारिकेलवृक्षाणां विद्युत्स्तम्भानां च व्यापकं क्षतिः अभवत्। कन्धमाल, गञ्जाम, श्रीकाकुलम्, विजयवाडा इत्यादिषु प्रभावितक्षेत्रेषु स्वयंसेवकाः स्थानीयसमाजेन सह मिलित्वा राहतसहायताकार्येषु संलग्नाः सन्ति। अनेकस्थानेषु सहस्रशः नारिकेलवृक्षाः उन्मूलिताः तथा च चतुर्भ्यः पञ्चभ्यः दिनपर्यन्तं विद्युत्प्रदायः बाधितः अभवत्। मत्स्यजीविनः कृषकाः च अपि हानिम् अनुभूतवन्तः। स्वयंसेवकैः प्रभावितपरिवाराणां तात्कालिका-वश्यकतानां पूर्तये आजीविका-सम्बद्धसमस्यानां समाधानाय च साहाय्यं कर्तुं प्रयासः कृतः।

पश्चिमबङ्गाले संघस्य शाखानां विस्तारसम्बद्धे प्रश्नोत्तरे होसबाले अवदत् यत् तत्र पूर्वापेक्षया शाखानां संख्या सार्धशतगुणिता वर्धिता अस्ति। पूर्वं शाखानां स्थापनसमये विरोधस्य विविधकठिन-तायाश्च सामना कर्तव्यः भवति स्म, किन्तु अधुना परिस्थितयः परिवर्तिताः सन्ति तथा च शाखासञ्चालने पूर्ववत् कठिनता नास्ति। सः एतदपि अवदत् यत् संघः तेषु क्षेत्रेष्वपि शाखाः प्रारभते, यत्र जनसंख्या हिन्दूनां संख्या च तुलनात्मकरूपेण न्यूना अस्ति। संगठनस्य प्रयासः देशस्य विभिन्नक्षेत्रेषु स्वस्य कार्यविस्तारं कर्तुम् अस्ति।

युवानां नववंशस्य श्च सम्बद्धप्रश्नानां विषये सरकार्यवाहः अवदत् यत् समाजस्य सर्वे वर्गाः संघस्य विचारविमर्शस्य भागिनः सन्ति। तेषु महिलाः युवानश्च अपि अन्तर्भवन्ति। युवासु वर्धमानां मादकद्रव्यसेवनप्रवृत्तिं गम्भीरविषयमिति वर्णयन् सः अवदत् यत् अस्याः पीढ्याः सकारात्मककार्यक्रमैः रचनात्मकगतिविधिभिश्च सह सम्बन्धः स्थापनीयः। सभायां जेन-जी इत्यस्य परिवर्तमानप्रवृत्तयः, शिक्षाक्षेत्रे संघस्य भूमिका विदेशेषु संघकार्यस्य विस्तारः इत्यादयः विषयाः अपि चर्चिताः। शताब्दीवर्षस्य कार्यक्रमानाम् अग्रे सञ्चालनस्य समाजस्य विभिन्नवर्गाणां मध्ये सम्पर्कं सुदृढं कर्तुं च उपायानाम् विषये प्रतिनिधिभिः विचारः कृतः।

संघस्य पञ्जीकरणसम्बद्धे प्रश्नस्य उत्तरे होसबाले अवदत् यत् राष्ट्रियस्वयं-सेवकसंघः समाजस्य अभिन्नः भागः अस्ति। एतादृशाः अनेकाः संस्थाः सन्ति, यासां पञ्जीकरणं नास्ति। संघः समाजकल्याणाय देशस्य विधिनिय-मानुसारं च कार्यं करोति। सः अवदत् यत् देशे लोकतान्त्रिकव्यवस्था अस्ति तथा च सर्वेषां स्वविचारान् प्रकटयितुं गतिविधीः सञ्चालयितुं च अधिकारः अस्ति, किन्तु समाजे अराजकतां प्रसारयितुं प्रवृत्तेः परिहारः करणीयः।

अस्यां सभायां राष्ट्रियचेतनायाः पितामहस्य श्रीराजनारायणबोसस्य द्विशततमजयन्त्यवसरे तस्य जीवनस्य योगदानस्य च विषये, शुद्धीकरणा-न्दोलनस्य पुरोधसः स्वामीश्रद्धानन्दस्य बलिदानस्य शततमवर्षपूर्त्यवसरे तस्य जीवनस्य कार्यस्य योगदानस्य च विषये तथा ओडिशायाः कन्धमालजनजातीयक्षेत्रे स्वाभिमानस्य स्वावलम्बनस्य स्वधर्मस्य च जागरणार्थं स्वजीवनं समर्पितवतः स्वामिलक्ष्मणानन्दसरस्वत्याः जन्मशताब्दीवर्षस्यावसरे अपि संघस्य सरकार्यवाहः होसबाले स्ववक्तव्यं प्रस्तुतवान्।

त्रिदिवसीयसभायां संघस्य शतवर्षीय-यात्रायाः अनन्तरं संगठनस्य भाविदिशायाः विषये व्यापकं मन्थनम् अभवत्। शताब्दीवर्षे आयोजितकार्य-क्रमाणां समीक्षया सह पञ्चपरिवर्तनम्, सामाजिकसमरसता, संगठनविस्तारः, यूनां सहभागिता, शिक्षा तथा अन्तरराष्ट्रीयसम्पर्कः इत्यादयः विषयाः चर्चायाः केन्द्रे आसन्। सभायाः एकः महत्त्वपूर्णः पक्षः अयम् अपि आसीत् यत् शताब्दीवर्षे समाजेन सह स्थापितः सम्पर्कः आयोजिताश्च कार्यक्रमाः अग्रे कथं निरन्तराणि सामाजिककार्याणि भवितुम् अर्हन्ति। होसबालेन प्रस्तुतवक्तव्येन स्पष्टं जातं यत् संघः आगामिसमये संगठनविस्तारेण सह सामाजिकप्रश्नेषु, आपदासहायताकार्येषु यूनां च रचनात्मकगतिविधिभिः सह संयोजने विशेषं ध्यानं दातुम् इच्छति।

Hindusthan Samachar / Divya Ranjan