Enter your Email Address to subscribe to our newsletters

चेन्नई, 04 नवंबरमासः (हि.स.)। तमिलनाडुविधानसभायाः पञ्चसु रिक्तासनेषु निर्वाचनकार्यक्रमस्य घोषणा दीपावल्याः अनन्तरं सम्भाविता।
तमिलनाडुराज्यस्य विधानसभायाः पञ्च आसनानि उपनिर्वाचनार्थं रिक्तानि सन्ति। एतानि आसनानि अखिलभारतीय अन्नाद्रविडमुन्नेत्रकषगमदलेन निर्वाचितानां विधानसभासदस्यानां त्यागपत्रप्रदानेन रिक्तानि अभवन्। राज्ये अप्रैलमासे सम्पन्ने विधानसभानिर्वाचने तमिलग वेत्रि कषगमदलेन १०८ आसनेषु विजयः प्राप्तः। ततः भारतीय राष्ट्रियकाङ्ग्रेसदलस्य, विदुथलै चिरुतैगल कषगमस्य, इण्डियन यूनियन मुस्लिम लीगदलस्य, भारतीय कम्युनिस्टपार्टीदलस्य तथा मार्क्सवादी कम्युनिस्टपार्टीदलस्य समर्थनेन गठबन्धनसर्वकारस्य गठनं कृतम्।
सर्वकारस्य समीपे पर्याप्तसङ्ख्यायां विधानसभासदस्यानां समर्थनाभावात् अखिलभारतीय अन्नाद्रविडमुन्नेत्रकषगमदलेन निर्वाचिताः पञ्चविंशतिः विधायकाः दलनेतृत्वस्य निर्देशान् अवज्ञाय तमिलग वेत्रि कषगमसर्वकाराय समर्थनं प्रदत्तवन्तः। एतेन अन्नाद्रविडमुन्नेत्रकषगमदले आन्तरिकः असमञ्जसः उत्पन्नः। दलस्य केचन विधायकाः त्यागपत्रं दत्त्वा तमिलग वेत्रि कषगमदले समाविष्टाः। एतस्य परिणामस्वरूपं विधानसभायाः सप्त आसनानि रिक्तानि अभवन्।
एतेषु मदुरान्तकम् तथा धारापुरम् इत्यनयोः द्वयोः आसनयोः अद्यतनकाले एव उपनिर्वाचनं सम्पन्नम्। अखिलभारतीय अन्नाद्रविडमुन्नेत्रकषगमदलेन निर्वाचिते मरगदम् कुमारवेल तथा सत्यबामा इत्येते स्वपूर्वनिर्वाचनक्षेत्रयोः अर्थात् मदुरान्तकम् तथा धारापुरम् इत्यनयोः तमिलग वेत्रि कषगमदलस्य प्रत्याशिरूपेण निर्वाचनं कृत्वा विजयम् अवाप्तवत्यौ।
वर्तमानकाले पुदुकोट्टैजनपदस्य विरालीमलै, करूर, तिरुनेलवेलीजनपदस्य अम्बासमुद्रम्, इरोडजनपदस्य पेरुन्दुरै तथा मुख्यमन्त्रिणः विजयस्य त्यागपत्रप्रदानेन रिक्तं तिरुचिरापल्लिपूर्वविधानसभाक्षेत्रम् इत्येतेषां पञ्चानां निर्वाचनक्षेत्राणां सम्बन्धे मद्रास उच्चन्यायालयेन निर्णयः सुरक्षितः स्थापितः अस्ति। अस्मिन् प्रकरणे शीघ्रमेव निर्णयः आगमिष्यतीति सम्भावनायां निर्वाचनायोगः एतेषु पञ्चसु आसनेषु उपनिर्वाचनस्य आयोजनाय सज्जतां करोति।
सम्प्रति मतदातृणां नामावलिकायाः विशेषसंक्षिप्तपुनरीक्षणकार्यं प्रचलति। एषा प्रक्रिया दिसम्बरमासे पूर्णा भविष्यति तथा जनवरीमासस्य प्रथमसप्ताहे अन्तिमा मतदातृनामावली प्रकाशयिष्यते। उपनिर्वाचनस्य घोषणा भवति चेत् अस्यां प्रक्रियायां कतिपयाः परिवर्तनाः सम्भाव्यन्ते इति कथ्यते। सम्प्रति निर्वाचनायोगेन मतदानकेन्द्राणां नवीननामावली प्रकाशिता। अस्यां षट्पञ्चाशत् नवीनानि मतदानकेन्द्राणि समावेशितानि सन्ति। निर्वाचनायोगः सम्बन्धितजनपदानां निर्वाचनाधिकारिभिः सह विचारविमर्शं करोति।
मुख्यमन्त्रिणः त्यागपत्रप्रदानेन रिक्तं तिरुचिरापल्लिपूर्वविधानसभाक्षेत्रं विहाय अन्येषु चतुर्षु आसनेषु अखिलभारतीय अन्नाद्रविडमुन्नेत्रकषगमदलं परित्यज्य तमिलग वेत्रि कषगमदले समागतान् सी. विजयभास्करम् (विरालीमलै), एम. आर. विजयभास्करम् (करूर), इसाक्की सुब्बैयाम् (अम्बासमुद्रम्) तथा जयकुमारम् (पेरुन्दुरै) इत्येतान् पुनः प्रत्याशिनः कर्तुं शक्यते इति कथ्यते। निर्वाचनायोगस्य प्रयासः अस्ति यत् आगामी दिसम्बरमासस्य विंशतितमदिनाङ्कपर्यन्तं पञ्चसु अपि विधानसभाक्षेत्रेषु उपनिर्वाचनस्य सम्पूर्णा प्रक्रिया समाप्येत।
Hindusthan Samachar / Dheeraj Maithani