Enter your Email Address to subscribe to our newsletters

मुंबई, 04 नवंबरमासः (हि.स.)।
आस्था, अध्यात्म, सनातनसंस्कृतिः विज्ञानं च एतेषां परस्परसम्बन्धान् प्रदर्शयन्त्याः हिन्दीभाषायां निर्मितायाः ‘देवी विज्ञानम्’ इति चलचित्रस्य पूर्वावलोकनचित्रस्य विमोचनं जयपुरनगरे स्थिते राजस्थानस्य कॉन्स्टिट्यूशन क्लब् इत्यत्र कृतम्। अस्मिन् अवसरे चलचित्रस्य अभिनेतारः टीकू तलसानिया, पूजा जोशी, के. आर्यवर्धनः, चेतन धनानी च निर्देशकः कर्तव्य शाह तथा किङ्ग प्रोडक्शन हाउस इत्यस्य सदस्याश्च उपस्थिताः आसन्।
निर्देशकः कर्तव्य शाह अवदत् यत् अस्य चलचित्रस्य माध्यमेन आस्थायाः, सांस्कृतिकधरोहरायाः, वैज्ञानिकचिन्तनस्य च परस्परसम्बन्धं नवीनशैल्या प्रस्तुत्य प्रयासः कृतः अस्ति। तस्य उद्देश्यम् एतादृशीं कथां प्रस्तुतुं यया दर्शकाः चिन्तनाय स्वकीयाभिः सांस्कृतिकमूल्यपरम्पराभिः सह पुनः सम्बद्धतां स्थापयितुं च प्रेरिताः भवेयुः।
अपरतः टीकू तलसानियेन उक्तं यत् चलचित्रस्य विषयः तस्य कृते विशिष्टः चिन्तनोत्तेजकश्च आसीत्। पूजाजोश्यापि एतत् स्वजीवनस्य अविस्मरणीयम् अनुभवं कथयन्ती आशां प्रकटितवती यत् दर्शकाः चलचित्रस्य कथया भावनाभिश्च सह आत्मीयसम्बन्धं स्थापयिष्यन्ति।
किङ्ग प्रोडक्शन हाउस इत्यस्य निर्माणसंस्थायाः अधः निर्मितस्य अस्य चलचित्रस्य निर्देशनं कर्तव्य शाह कृतवान्। चलचित्रे टीकू तलसानिया, पूजा जोशी, के. आर्यवर्धनः, चेतन धनानी च प्रमुखभूमिकासु दृश्यन्ते। निर्मातॄणाम् अनुसारं ‘देवी विज्ञानम्’ इति चलचित्रं दिसम्बरमासस्य चतुर्थे दिनाङ्के देशस्य सर्वेषु चलचित्रगृहेषु अखिलभारतीयस्तरे प्रदर्शितं भविष्यति।
Hindusthan Samachar / Dheeraj Maithani