सङ्कटानां निवारकः देवः हनुमान् : रामचन्द्रमिश्रः
मीरजापुरम्, 04 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदस्य जमालपुरक्षेत्रे गौरीग्रामस्य परायनपुरस्थे दक्षिणमुखीहनुमान्मन्दिरपरिसरे प्रचलितायां श्रीरामकथायां मङ्गलवासरे सायंकाले कथाव्यासः रामचन्द्रमिश्रः हनुमतः महिमानं वर्णितवान्। सः अवदत्
गौरी गांव के परायनपुर स्थित दक्षिणामुखी हनुमान परिसर में श्रीराम कथा सुनाते पं.रामचन्द्र मिश्र


मीरजापुरम्, 04 नवंबरमासः (हि.स.)।

उत्तरप्रदेशस्य मीरजापुरजनपदस्य जमालपुरक्षेत्रे गौरीग्रामस्य परायनपुरस्थे दक्षिणमुखीहनुमान्मन्दिरपरिसरे प्रचलितायां श्रीरामकथायां मङ्गलवासरे सायंकाले कथाव्यासः रामचन्द्रमिश्रः हनुमतः महिमानं वर्णितवान्। सः अवदत् यत् हनुमान् सङ्कटानां निवारकः देवः अस्ति, अतः सः सङ्कटमोचनः इति नाम्ना प्रसिद्धः अस्ति।

कथाव्यासः अवदत् यत् हनुमान् हिन्दुधर्मस्य प्रमुखेषु चिरञ्जीविषु देवेषु अन्यतमः अस्ति। सः बजरङ्गबली, पवनपुत्रः, मारुतिनन्दनः, अञ्जनीसुतः, सङ्कटमोचनः इत्यादिभिः अनेकैः नामभिः प्रसिद्धः अस्ति। हनुमान् भगवान् श्रीरामस्य अनन्यभक्तः आसीत्। स्वभक्तिबलेन सः प्रभोः श्रीरामस्य स्नेहं विश्वासं च प्राप्तवान्। सः अद्भुतशक्तेः, बुद्धेः, साहसस्य, विनम्रतायाः, भक्तेश्च प्रतीकः अस्ति।

सः अवदत् यत् हनुमता विशालः समुद्रः लङ्घितः, मातुः सीतायाः अन्वेषणं कृतम् तथा लङ्कायाः दहनमपि कृतम्। अपरतः सः सञ्जीवनीबूटीम् आनेतुं द्रोणाचलपर्वतम् उत्थाप्य आनीतवान् तथा लक्ष्मणस्य प्राणान् रक्षितवान्।

अस्मिन्नवसरे झाकीदासः, श्यामसुन्दरचौबे, बबलूचौबे, केशरीनन्दनचतुर्वेदी, सोनूचौबे, मनोजसिंहः, मुन्नाचौबे, अवधेशचौबे, रामशरणः इत्यादयः अन्ये च बहवः जनाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani