सौंगनद्याः स्वास्थ्यस्थितिं ज्ञास्यन्ति जैविकसूचकाः, षट्त्रिंशत्सु स्थानेषु भविष्यति अध्ययनम्।
देहरादूनम्, 04 नवंबरमासः (हि.स.)। सौङ्गनद्याः पारिस्थितिकस्वास्थ्यस्य परीक्षणं करिष्यन्ति जैविकसूचकाः, षट्त्रिंशत्सु स्थानेषु भविष्यति अध्ययनम्। उत्तराखण्डस्य पूर्वदूनघाट्याः प्रमुखनदी सौङ्गायाः पारिस्थितिकस्वास्थ्यस्य आकलनार्थं स्प्रिङ्ग एण्ड र
दून घाटी की प्रमुख नदी सोंग का चित्र।


देहरादूनम्, 04 नवंबरमासः (हि.स.)।

सौङ्गनद्याः पारिस्थितिकस्वास्थ्यस्य परीक्षणं करिष्यन्ति जैविकसूचकाः, षट्त्रिंशत्सु स्थानेषु भविष्यति अध्ययनम्।

उत्तराखण्डस्य पूर्वदूनघाट्याः प्रमुखनदी सौङ्गायाः पारिस्थितिकस्वास्थ्यस्य आकलनार्थं स्प्रिङ्ग एण्ड रिवर रिजुविनेशन अथॉरिटी (सारा) इत्यनया संस्थया जैविकसूचकपरियोजनायाः अन्तर्गतं शोधकार्यं प्रारब्धम्। अस्य माध्यमेन नद्याः जलगुणवत्तायाः, जलीयजीवानां, नदीतटस्थपर्यावासस्य तथा मानवीयगतिविधीनां प्रभावस्य च अध्ययनं क्रियते।

प्रदेशसर्वकारस्य एकेन प्रवक्त्रा बुधवासरे सूचितं यत् भारतीयवन्यजीवसंस्थानस्य (डब्ल्यूआईआई) पूर्ववरिष्ठप्राध्यापकेन वैज्ञानिकवर्गस्य च डॉ. वी.पी. उनियालमहोदयेन मार्गदर्शिते अस्मिन् अध्ययने पञ्च प्रमुखाः जीवसमूहाः जैविकसूचकरूपेण समाविष्टाः सन्ति। एतेषु जलीयमैक्रोइनवर्टिब्रेट्स्, तितलयः, वन्यभ्रमराः, ड्रैगनफ्लाई, डेम्सलफ्लाई तथा विविधाः पक्षिप्रजातयः अन्तर्भवन्ति।

अध्ययनस्य अन्तर्गतं कीटानां तेषां लार्वारूपाणां च उपस्थित्या जलप्रदूषणस्य स्थितेः आकलनं क्रियते। तितलीभिः वन्यभ्रमरैश्च नदीतटस्य वनस्पतीनां तथा परागणप्रक्रियायाः स्थितेः ज्ञानं भविष्यति। ड्रैगनफ्लाई तथा डेम्सलफ्लाई इत्येतासां प्रजातीनां माध्यमेन जलीयपर्यावरणस्य स्थितेः तथा पक्षिणां विविधतया नदीघाट्याः समग्रपारिस्थितिकस्वास्थ्यस्य च सङ्केताः प्राप्स्यन्ते।

परियोजनायाः अन्तर्गतं सौङ्गनद्याः उद्गमस्थलात् कद्दूखालतः (टिहरी) गङ्गायां सङ्गमस्थलपर्यन्तं टिहरीफार्मपर्यन्तं (देहरादून) प्रायः अशीतिकिलोमीटरमितस्य क्षेत्रस्य सर्वेक्षणं क्रियते। एतदर्थं नदीम् ऊर्ध्वमध्याधोभागरूपेण त्रिषु क्षेत्रेषु विभज्य प्रत्येकस्मिन् क्षेत्रे द्वादश स्थायिनः नमूनासङ्ग्रहकेन्द्राः स्थापिताः सन्ति। एवं समग्रतया षट्त्रिंशत्सु स्थानेषु अध्ययनं भविष्यति।

नवम्बरमासतः अप्रैलमासपर्यन्तं षण्मासान् यावत् प्रचलिते अस्मिन् अध्ययने वर्षाकालस्य अनन्तरं वर्षाकालात् पूर्वं च इति द्वयोः चरणयोः नमूनानि सङ्ग्रहीष्यन्ते। अनेन नद्याः जैविकस्वास्थ्यस्य आधारभूतदत्तांशः सज्जीभविष्यति।

अनेन अध्ययनेन प्रस्तावितायाः सौङ्गबान्धपरियोजनायाः, खननकार्याणां, नगरीकरणस्य च नद्याः पारिस्थितिकीतन्त्रे जायमानानां प्रभावानाम् आकलने सहायता भविष्यतीति अपेक्षा अस्ति। अध्ययनस्य निष्कर्षाणाम् आधारेण नद्याः संरक्षणाय पुनर्जीवनाय च विविधाः योजनाः नीतयश्च निर्मातुं शक्यन्ते।

Hindusthan Samachar / Dheeraj Maithani