धनत्रयोदशी आरोग्यस्य, धनस्य, समृद्धेश्च पावन पर्व।
धनतेरसपर्व (6 नवंबर) प्रति विशेषः -योगेश कुमार गोयलः प्रतिवर्षं दीपावल्याः द्विदिनपूर्वं कार्तिकमासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ धनत्रयोदशीपर्व श्रद्धया, उल्लासेन, पारम्परिकोत्साहेन च आचर्यते। अस्मिन् वर्षे इदं पर्व नवम्बरमासस्य षष्ठे दिनाङ्क
योगेश कुमार गोयल


धनतेरसपर्व (6 नवंबर) प्रति विशेषः

-योगेश कुमार गोयलः

प्रतिवर्षं दीपावल्याः द्विदिनपूर्वं कार्तिकमासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ धनत्रयोदशीपर्व श्रद्धया, उल्लासेन, पारम्परिकोत्साहेन च आचर्यते। अस्मिन् वर्षे इदं पर्व नवम्बरमासस्य षष्ठे दिनाङ्के आचर्यते। भारतीयसंस्कृतौ धनत्रयोदश्याः विशेषं धार्मिकम्, आध्यात्मिकं, सांस्कृतिकं च महत्त्वम् अस्ति। अस्य पर्वणः केवलं धनवैभवप्राप्तेः पर्व इति मननं समुचितं न भवति, अपितु आरोग्यस्य, दीर्घायुषः, सुखसमृद्धेः, स्वस्थजीवनस्य च प्रति कृतज्ञतां प्रकटयितुम् अपि एषः अवसरः अस्ति। अस्मिन् दिने विशेषरूपेण भगवान् धन्वन्तरिः, माता लक्ष्मीः, धनस्य देवता कुबेरश्च पूज्यन्ते।

धनत्रयोदश्याः इतिहासः अत्यन्तं प्राचीनः मन्यते। पौराणिकमान्यतानुसारं समुद्रमन्थनसमये कार्तिकमासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ भगवान् धन्वन्तरिः अमृतकलशं गृहीत्वा समुद्रात् प्रादुरभवत्। सः भगवान् विष्णोः अंशावतारः तथा आयुर्वेदस्य प्रवर्तकः मन्यते। मान्यता अस्ति यत् तस्य हस्तयोः अमृतेन पूर्णः कलशः आसीत्, यः जीवनस्य, स्वास्थ्यस्य, अमरत्वस्य च प्रतीकः अस्ति। अत एव सः देवानां वैद्यः आरोग्यस्य देवता च कथ्यते। समुद्रमन्थनेन प्राप्तस्य अमृतस्य माध्यमेन देवाः अमरत्वं प्राप्तवन्तः। भगवान् धन्वन्तरेः अस्यैव दिव्यप्राकट्यस्य स्मृतौ धनत्रयोदशीपर्व आचरितुम् आरब्धम् इति परम्परा प्रचलिता अस्ति।

भगवतः धन्वन्तरेः सम्बन्धः केवलं धार्मिकश्रद्धायां न सीमितः, अपितु आयुर्वेदे भारतीयचिकित्सापरम्परायां च तस्य विशेषं स्थानम् अस्ति। आयुर्वेदः जीवनस्य विज्ञानं मन्यते, यस्य उद्देश्यम् केवलं रोगाणां चिकित्सां कर्तुं न, अपितु शरीरं मनश्च स्वस्थं स्थापयित्वा दीर्घं सन्तुलितं च जीवनं प्रदातुम् अस्ति। एतस्मात् कारणात् धनत्रयोदश्याः दिवसः चिकित्सकानां, वैद्यानां, चिकित्साजगता सम्बद्धानां जनानां च कृते अपि विशेषमहत्त्वपूर्णः अस्ति। अस्मिन् दिने भगवान् धन्वन्तरिं सम्पूज्य जनाः परिवारस्य आरोग्यस्य, निरामयशरीरस्य, दीर्घायुषश्च कामनां कुर्वन्ति। धनत्रयोदशी अस्मान् एतत् सन्देशम् अपि ददाति यत् वास्तविकं धनं केवलं सुवर्णं, रजतं, सम्पत्तिश्च न, अपितु उत्तमस्वास्थ्यं, मानसिकशान्तिः, सन्तोषपूर्णं जीवनं च अस्ति। अतः अस्य पर्वणः मूलभावः धनेन सह आरोग्यस्य समृद्धेश्च मङ्गलकामना करणम् अस्ति।

धनत्रयोदश्यां भगवान् धन्वन्तरिं मातरं लक्ष्मीं च सम्पूज्य मृत्योः देवस्य यमराजस्य पूजनस्य दीपदानस्य च विशेषविधानम् अस्ति। अस्मिन् दिने सायङ्काले गृहस्य मुख्यद्वारे दक्षिणदिशि यमराजस्य निमित्तम् एकः दीपः प्रज्वाल्यते, यः ‘यमदीपः’ अथवा ‘यमदीपदानम्’ इति कथ्यते। धार्मिकमान्यतानुसारम् एवं करणेन परिवारस्य सदस्याः अकालमृत्योः भयात् मुक्ताः भवन्ति तथा गृहे सुखसमृद्धिः मङ्गलं च तिष्ठति। अस्याः परम्परायाः पृष्ठतः एका अत्यन्तं रोचिका भावपूर्णा च पौराणिकी कथा प्रचलिता अस्ति।

कथानुसारम् एकदा यमराजः स्वदूतान् अपृच्छत् यत् प्राणिनां प्राणान् हरन्तः कदापि एतादृशः अवसरः आगतः वा, यदा कस्यचित् व्यक्तेः प्रति युष्माकं मनसि दया उत्पन्ना तथा युष्माकं हृदयं करुणया परिपूर्णम् अभवत्? यमराजस्य प्रश्नं श्रुत्वा यमदूताः उत्तरम् अददुः यत् ते तस्य आज्ञापालनं कुर्वन्तः सेवकाः एव सन्ति। तेषां कार्यं निर्धारितसमये जीवानां प्राणान् हर्तुम् अस्ति, अतः दयायाः मोहस्य च तेषां कार्ये किमपि स्थानं नास्ति।

किन्तु यमराजेण निर्भयतया सत्यं वक्तुम् आश्वासनं प्रदत्ते सति ते एकस्याः घटनायाः उल्लेखम् अकुर्वन्, यया ते अपि अन्तःकरणपर्यन्तं विचलिताः अभवन्।

यमदूताः अवदन् यत् एकदा हंसनामकः राजा आखेटाय वनम् अगच्छत्। आखेटं कुर्वन् सः स्वसहचरैः सह वियुक्तः सन् अन्यस्य राज्यस्य सीमायां प्राप्तवान्। तस्य राज्यस्य राजा हेमा अतिथिधर्मस्य पालनं कुर्वन् तस्य सम्यक् आदरसत्कारम् अकरोत्। संयोगेन तस्मिन्नेव दिने राजा हेमस्य पत्नी अत्यन्तं सुन्दरं पुत्रम् अजनयत्। राजपरिवारे आनन्दः व्याप्तः अभवत्, किन्तु ज्योतिषिभिः नवजातराजकुमारस्य जन्मकुण्डलीं दृष्ट्वा भविष्यवाणी कृता यत् विवाहस्य चतुर्थे दिने एव तस्य मृत्युः भविष्यति। एतत् श्रुत्वा राजा राज्ञी च शोकाकुलौ अभवताम्। स्वपुत्रम् अस्मात् अनिष्टात् रक्षितुं तौ तं यमुनानद्याः तीरे एकस्मिन् निर्जने गुहायां स्थापयामासतुः। तत्र तस्य पालनपोषणाय राजोचिता व्यवस्था कृता तथा विशेषसावधानता अपि स्वीकृता यत् कस्याश्चित् युवत्याः छायामपि तस्मिन् न पतेत्। किन्तु विधेः विधानम् अन्यदेव आसीत्।

एकदा संयोगेन राज्ञः हंसस्य पुत्री भ्रमन्ती यमुनातटम् आगतवती। तत्र तस्याः दृष्टिः राजकुमारे अपतत् तथा तौ परस्परं दृष्ट्वैव मोहितौ अभवताम्। तयोः मध्ये प्रेम उत्पन्नम् अभवत् तथा तौ तस्मिन्नेव समये गान्धर्वविवाहम् अकुरुताम्। दुर्भाग्येन ज्योतिषिणां भविष्यवाण्यनुसारं विवाहस्य चतुर्थे दिने एव राजकुमारस्य मृत्युः अभवत्। यमदूताः यमराजम् अवदन् यत् तैः स्वजीवने तादृशं सुन्दरं प्रेमपूर्णं च नवदम्पत्युगलं कदापि न दृष्टम् आसीत्। तौ कामदेवस्य रत्याश्च सदृशौ प्रतिभातः स्म। राजकुमारस्य प्राणान् हृत्वा यदा तस्य नवविवाहिता पत्नी विलापम् आरब्धवती, तदा तस्याः करुणाक्रन्दनं श्रुत्वा यमदूतानाम् अपि हृदयं द्रवीभूतम् अभवत्।

एतत् सम्पूर्णं वृत्तान्तं श्रुत्वा यमराजः अवदत् यत् कार्तिकमासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ भगवान् धन्वन्तरिं सम्पूज्य तस्य निमित्तं दीपदानं करणेन अकालमृत्योः भयात् रक्षा भवति। ततः प्रभृति धनत्रयोद्यां यमदीपदानस्य परम्परा प्रचलिता अभवत् इति मान्यता अस्ति। अस्याः श्रद्धायाः कारणात् जनाः सायङ्काले गृहस्य बहिः दक्षिणदिशि दीपं प्रज्वाल्य यमराजात् परिवारस्य सर्वेषां सदस्याणां दीर्घायुषः आरोग्यस्य च प्रार्थनां कुर्वन्ति।

धनत्रयोद्यां क्रयणस्य अपि विशेषा परम्परा अस्ति। अस्मिन् दिने जीर्णानां भग्नानां च पात्राणां स्थाने नवीनानि पात्राणि क्रेतुं शुभं मन्यते। विशेषरूपेण ताम्रस्य, पीतलस्य, रजतस्य च पात्राणि क्रेतुं परम्परा अस्ति। अनेके जनाः सुवर्णरजतनिर्मितानि आभूषणानि, मुद्राः, अन्यानि उपयोगिवस्तूनि च क्रीणन्ति। मान्यता अस्ति यत् अस्मिन् दिने क्रीतानि वस्तूनि गृहे सुखं, सौभाग्यं, समृद्धिं च आनयन्ति। केषुचित् परिवारेषु नूतनां मार्जनीं क्रीत्वा तस्याः पूजनस्यापि परम्परा अस्ति। मार्जनीं मातुः लक्ष्म्याः प्रतीकं मत्वा गृहात् दरिद्रतायाः नकारात्मकतायाश्च दूरीकरणस्य साधनं मन्यते।

तथापि धनत्रयोद्याः वास्तविकः सन्देशः केवलम् अधिकाधिकं क्रयणं न, अपितु धनस्य सदुपयोगस्य, स्वच्छतायाः, स्वास्थ्यस्य, सन्तुलितजीवनस्य च महत्त्वम् अवगन्तुम् अस्ति। एतत् पर्व अस्मान् स्मारयति यत् जीवनस्य सर्वश्रेष्ठं धनं निरामयशरीरम्, परिवारस्य सुखम्, मानसिकशान्तिः, परिश्रमेण अर्जिता समृद्धिश्च अस्ति। भगवान् धन्वन्तरेः आराधनया यमदीपदानेन च इदं पर्व जीवनरक्षणस्य, दीर्घायुषः, मङ्गलमयभविष्यस्य च कामनायाः अनुपमः अवसरः भवति।

(लेखकः, स्वतंत्रष्टिप्पणीकारः ।)

---------------

Hindusthan Samachar / Dheeraj Maithani