Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 05 नवंबरमासः (हि.स.)। स्वातन्त्र्यप्राप्तेः अनन्तरं असमराज्यस्य पूर्वोत्तरप्रदेशस्य च जनमानसे एषा सामान्यधारणा आसीत् यत् देहली तेषां कृते अत्यन्तं दूरे वर्तते। एतस्मादेव कारणात् सम्पूर्णे पूर्वोत्तरप्रदेशे सामान्यजनान् प्रलोभ्य सहजतया उग्रवादस्य बीजानि वपितानि। दीर्घकालपर्यन्तं समग्रः पूर्वोत्तरप्रदेशः उग्रवादस्य ज्वालाभिः दह्यमानः आसीत्। प्रतिदिनं बमविस्फोटाः, गोलिकाप्रहाराः, गृहदहनानि तथा अन्याः हिंसात्मकघटनाः भवन्ति स्म। न केवलम् एतावत्, अपितु असमराज्यसहितेषु पूर्वोत्तरप्रदेशस्य सर्वेषु राज्येषु क्षुद्रेषु विषयेष्वपि विद्युदापूर्तेः विच्छेदः, बन्दस्य आह्वानम्, मार्गावरोधः, रेलमार्गावरोधः इत्यादयः घटनाः निरन्तरं भवन्ति स्म। उग्रवादेन पूर्वोत्तरप्रदेशस्य विकासगतिः पूर्णतया अवरुद्धा आसीत्।
उग्रवादस्य कालखण्डे एव यदा केन्द्रे अटलबिहारीवाजपेयीमहोदयस्य नेतृत्वे भाजपागठबन्धनस्य शासनं स्थापितम्, तदा पूर्वोत्तरप्रदेशं प्रति केन्द्रसर्वकारस्य दृष्टिकोणे परिवर्तनम् आरब्धम्। वाजपेयीसर्वकारेण पूर्वोत्तरप्रदेशस्य विकासाय पृथक् ‘पूर्वोत्तरक्षेत्रविकासमन्त्रालयः’ (डोनर) स्थापितः। अस्य माध्यमेन पूर्वोत्तरप्रदेशस्य विकासे विशेषं ध्यानं दातुम् आरब्धम्। अस्य परिणामः वर्तमानकाले दृश्यते। असमराज्ये यत्र विकासस्य नूतना छविः उद्भूता, तत्रैव तस्य प्रभावः समग्रे पूर्वोत्तरप्रदेशे अपि दृश्यते। उग्रवादस्य तीव्रता अपि शनैः शनैः न्यूनीभूता। अस्मिन् विषये असमः, त्रिपुरा, मिजोरम, मेघालयः, अरुणाचलप्रदेशः च उग्रवादमुक्ताः अभवन्। केषुचित् राज्येषु कदाचित् काश्चन घटनाः दृश्यन्ते। उग्रवादस्य पूर्णतया समापनाय केन्द्रसर्वकाराः राज्यसर्वकाराश्च दृढतया कार्यं कुर्वन्ति। मन्यते यत् आगामिकाले सम्पूर्णः पूर्वोत्तरप्रदेशः शान्तिमार्गे प्रत्यागमिष्यति।
परिवर्तनेषु सर्वाधिकं महत्त्वपूर्णं परिवर्तनं मार्गसम्पर्के, रेलसम्पर्के, वायुमार्गसम्पर्के च दृश्यते। सम्प्रति मणिपुरं मेघालयं च विहाय पूर्वोत्तरप्रदेशस्य अन्येषां सर्वेषां राज्यानां राजधानिभिः प्रमुखनगरैश्च सह रेलसम्पर्कः स्थापितः। अपरतः मार्गाणां जालं सम्पूर्णस्य पूर्वोत्तरप्रदेशस्य राज्येषु तीव्रगत्या विस्तरति। मार्गविकासे अत्रत्यौ द्वौ प्रमुखौ नद्यौ महतीं बाधाम् उत्पन्नवन्तौ। तयोः पारगमनं महती चुनौती आसीत्। किन्तु केन्द्रसर्वकारेण एतस्याः चुनौतीं सम्मुखीकर्तुं दृढनिश्चयः कृतः, यस्य परिणामः अद्य सर्वत्र दृश्यते।
असमराज्यस्य द्वयोः प्रमुखयोः नद्योः ब्रह्मपुत्रायाः बराकनद्याश्च उपरि निर्मितैः सेतुभिः अद्य यातायातव्यवस्था अत्यन्तं सुदृढा अभवत्। आवागमने पर्याप्तः सुधारः जातः। अस्मिन् क्षेत्रे अद्यापि बृहद्प्रमाणेन कार्यं प्रचलति। आगामिदिनेषु गुवाहाटीतः सिलचरनगरं यावत् गन्तुं लग्यमानः समयः अर्धं भविष्यति। एवमेव काजीरङ्गाराष्ट्रियविहारस्य मध्येन गच्छतः राष्ट्रियमार्गस्य उपरि उन्नतमार्गिकायाः निर्माणाय अनुमतिः प्राप्ता। अस्याः निर्माणेन गुवाहाटीतः जोरहाट्, तिनसुकिया, डिब्रूगढ़नगराणि च गन्तुं लग्यमानः समयः अपि बहुधा न्यूनीभविष्यति। फलतः विकासस्य गतिः अधिका तीव्रा भविष्यति।
एकस्मिन् काले ब्रह्मपुत्रनद्याम् अङ्गुलिगणनीयौ द्वावेव सेतू आस्ताम्। तयोः एकः गुवाहाटीनगरे, अपरः नगांवजनपदे आसीत्। किन्तु सम्प्रति सप्त सेतवः सञ्चालने सन्ति तथा च आगामिकाले पञ्चाधिकाः नवीनाः विशालसेतवः निर्मीयमाणाः सन्ति अथवा तेषां निर्माणकार्यं प्रचलति। अनेकासु परियोजनासु कार्यं अन्तिमचरणे वर्तते। अपरतः ब्रह्मपुत्रनद्याः अधस्तलस्य अधः चतुर्मार्गयुक्तस्य मार्गसहितस्य रेलयानानां कृते जलान्तर्गतमार्गस्य निर्माणकार्यं प्रारम्भिकचरणे आरब्धम्। एषः मार्गः स्वयमेव प्रौद्योगिक्याः उत्कृष्टम् उदाहरणं भविष्यति। एवमेव बराकनद्याम् अपि त्रयाणां प्रबलितकङ्क्रीटसेतूनां निर्माणं कृतम्। एते सेतवः असमराज्ये यातायातस्य विकासस्य च गतिवर्धने महत्त्वपूर्णां भूमिकां निर्वहन्ति।
असमराज्ये ब्रह्मपुत्रनद्याम् सम्प्रति सप्त प्रमुखसेतवः पूर्णतया सञ्चालने सन्ति। केन्द्रीयमार्गपरिवहनमन्त्रालयस्य अद्यतनवक्तव्यस्य अनुसारम् असमराज्यस्य जीवनरेखा इति कथ्यमानायाः अस्याः विशालायाः नद्याः उपरि सम्पर्कव्यवस्थां सुदृढीकर्तुं आगामिकाले पञ्चाधिकाः नवीनाः विशालसेतवः निर्मास्यन्ते। तेषु बहूनां परियोजनानां कार्यं अन्तिमचरणेषु प्रचलति।
सम्प्रति सञ्चालने विद्यमानेषु सप्तप्रमुखसेतुषु कुमारभास्करवर्मासेतुः (गुवाहाटी उत्तरगुवाहाटीसेतुः) अन्यतमः अस्ति। अयं गुवाहाटीनगरं उत्तरगुवाहाटीक्षेत्रेण सह संयोजयन् आधुनिकः षट्पङ्क्तियुक्तः बहिःस्थितताराधारितः सेतुः अस्ति। अस्य निर्माणं त्रिसहस्रकोटिरूप्यकाणां व्ययेन सम्पन्नम्।
राष्ट्रियमार्गस्य एकत्रिंशत्तमे मार्गे निर्मितः शराईघाटसेतुः गुवाहाटीनगरे स्थितः अस्ति। अयं ब्रह्मपुत्रनद्याम् निर्मितः प्रथमः रेलमार्गसहितः सडकसेतुः अस्ति। अयं सामान्यजनानां कृते १९६२ तमे अथवा १९६३ तमे वर्षे उद्घाटितः। प्राचीनसेतोः समीपे एव निर्मितः त्रिपङ्क्तियुक्तः नवीनशराईघाटसेतुः २०१७ तमे वर्षे सामान्यजनानां कृते उद्घाटितः।
तेजपुरस्य समीपे स्थितः कोलियाभोमोरा सेतुः (सडकसेतुः) असमस्य उत्तरभागं दक्षिणभागेन सह संयोजयति। अयं सामान्यजनानां कृते १९८७ तमे वर्षे उद्घाटितः।
एवमेव जोगीघोपानगरे स्थितः नरनारायणसेतुः द्वितीयः महत्त्वपूर्णः रेलमार्गसहितः सडकसेतुः अस्ति। अयं १९९८ तमे वर्षे सामान्यजनानां कृते उद्घाटितः।
तदनन्तरं भूपेनहजारिकासेतुः अथवा धोलासदियासेतुः अस्ति। अयं ९.१५ किलोमीटर् दीर्घः सेतुः ब्रह्मपुत्रायाः प्रमुखायाः सहायकनद्याः लोहितनद्याः उपरि निर्मितः अस्ति। सम्प्रति अयं भारतस्य दीर्घतमेषु नदीसेतुषु अन्यतमः अस्ति। अयं २०१७ तमे वर्षे सामान्यजनानां कृते उद्घाटितः।
डिब्रूगढ़स्य समीपे निर्मितः बोगीबीलसेतुः ४.९४ किलोमीटर् दीर्घः अस्ति। अयं भारतस्य दीर्घतमः रेलमार्गसहितः सडकसेतुः अस्ति। अयं २०१८ तमे वर्षे सामान्यजनानां कृते उद्घाटितः।
असमराज्यस्य दक्षिणभागस्य अर्थात् बराकघाट्याः जीवनरेखा इति मन्यमानायाः बराकनद्याः उपरि सम्प्रति अनेकाः प्रमुखाः कङ्क्रीटसेतवः सञ्चालने सन्ति। एते सिलचर, करीमगञ्ज, हैलाकाण्डीजनपदान् परस्परं संयोजयन्ति। एतेषाम् अतिरिक्तं यातायातं सुगमं कर्तुं यात्रासमयं च न्यूनीकर्तुं भविष्यस्य अनेकानां नवीनसेतुपरियोजनानां कार्यं प्रचलति।
बराकघाट्यां सम्पर्कव्यवस्थां सुदृढां कर्तुं सर्वकारेण विगतेषु कतिपयेषु वर्षेषु अनेकानां विशालानां प्रबलितकङ्क्रीटसेतूनां निर्माणं कारितम्। तेषु नवीनः सदरघाटसेतुः प्रमुखः अस्ति। अयं सिलचरनगरे स्थितः बराकनद्याः अत्यन्तं व्यस्तः प्रमुखश्च सेतुः अस्ति। अयं कछारजनपदस्य उत्तरभागं मुख्यनगरेण सह संयोजयति।
एककिलोमीटर् दीर्घः बद्रीघाटसेतुः आधुनिकः सेतुः अस्ति, यः बरेङ्गां काशीपुरं च परस्परं संयोजयति। अस्य निर्माणेन राष्ट्रियमार्गस्य सप्तत्रिंशत्तमस्य चतुःपञ्चाशत्तमस्य च मार्गयोः सम्पर्कव्यवस्था पर्याप्ततया सुदृढा अभवत्।
इटाखोलाघाटसेतुः सिलचरनगरं दुग्धपातिलक्षेत्रेण सह साक्षात् संयोजयति। अनेन स्थानीयजनानां नदीपारगमनाय दीर्घमार्गेण गन्तव्यता न भवति।
अन्नपूर्णाघाटसेतुः सिलचरनगरस्य अन्यतमः प्राचीनः महत्त्वपूर्णश्च सेतुः अस्ति। अयं बराकनद्याः उभयतीरयोः स्थानीयव्यापारस्य यातायातस्य च व्यवस्थां निर्वहति।
ब्रह्मपुत्रनद्याम् आगामिकाले निर्मीयमाणाः सेतवः
असमराज्यस्य धुबरीनगरं मेघालयराज्यस्य फुलबारीक्षेत्रेण सह संयोजयतः १९.२८ किलोमीटर् दीर्घस्य चतुर्मार्गयुक्तस्य धुबरीफुलबारीसेतोः निर्माणकार्यं प्रचलति। अस्य कार्यं प्रायः अष्टतिप्रतिशतं सम्पन्नम् अस्ति। २०२८ तमवर्षपर्यन्तं पूर्णतया निर्मिते सति अयं भारतस्य दीर्घतमः नदीसेतुः भविष्यति।
जोगीघोपानगरे प्राचीनस्य नरनारायणसेतोः समानान्तरं अन्यस्य सेतोः निर्माणकार्यं प्रचलति। अस्य निर्माणकार्यं २०२६ तमे अथवा २०२७ तमे वर्षे पूर्णं भविष्यति इति अपेक्षा अस्ति।
गुवाहाटीमहानगरक्षेत्रस्य पश्चिमसीमायां पलाशबाडीसुआलकुचीसेतोः निर्माणं प्रचलति। एषः १२.२ किलोमीटर् दीर्घः विशालः निर्माणप्रकल्पः अस्ति। असमस्य म्यान्चेस्टर् इति प्रसिद्धं रेशमवस्त्रनिर्माणकेन्द्रं सुआलकुची इत्येतत् पलाशबाडीनगरेण सह साक्षात् संयोजयिष्यति।
जोरहाटमाजुलीसेतुः विश्वस्य बृहत्तमं नदीद्वीपं ‘माजुली’ इत्येतत् मुख्यभूमौ स्थितेन जोरहाटेन सह साक्षात् संयोजयिष्यति। अनेन माजुलीवासिनां नौकासु निर्भरता समाप्ता भविष्यति।
नवीनः अमीनगांवकामाख्या रेलमार्गसहितः सडकसेतुः गुवाहाटीनगरस्य समीपे प्रायः द्विकिलोमीटर् दीर्घः नवीनः मिश्रितइस्पातस्तम्भयुक्तः रेलमार्गसहितः सडकसेतुः अपि स्वीकृतः अस्ति। अस्य प्रारम्भिकं कार्यं अर्थात् भूगर्भीयाध्ययनं प्रारब्धम्।
बराकनद्याम् आगामिकाले निर्मीयमाणाः सेतवः
बराकनद्याम् वर्धमानं यातायातं दृष्ट्वा नवीनसेतूनां निर्माणाय अनुमतिः प्रदत्ता अस्ति। तेषु केषाञ्चन निर्माणकार्यं प्रारब्धम्, अन्येषां योजना अन्तिमचरणे अस्ति।
तेषु मधुराघाटसेतुः (गान्धीघाटसेतुः) प्रमुखः अस्ति। अयं सेतुः मदुरामुखक्षेत्रं सिलचरनगरे गान्धीघाटस्य समीपे स्थितेन तण्डुलकुट्टेन सह साक्षात् संयोजयिष्यति। अस्य पूर्णतया सञ्चालने सति इटाखोलातः दुग्धपातिलक्षेत्रं यावत् दूरी प्रायः अष्टकिलोमीटर् न्यूनीभविष्यति।
बांसकाण्डीसिलघाटमार्गयोः संयोजकः नवीनः सेतुः अपि प्रस्तावितः अस्ति। केन्द्रीयमार्गाधारभूतसंरचनाकोषस्य (सीआरआईएफ) अन्तर्गतं बराकनद्याम् अन्यः नवीनः प्रबलितकङ्क्रीटसेतुः प्रस्तावितः अस्ति। अयं बांसकाण्डीसिलघाटमार्गं साक्षात् सिलचरनगरेण लखीपुरनगरक्षेत्रेण च संयोजयिष्यति।
सिलचरनगरस्य उन्नतमार्गिकायाः सहायकसेतुः
सिलचरनगरस्य प्रस्तावितस्य विशालस्य उन्नतमार्गिकाप्रकल्पस्य अन्तर्गतं बराकनद्याः उपरि तस्याः तीरयोश्च सम्पर्कव्यवस्थां अधिकं विस्तृतां कर्तुं योजना अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani