Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०५ नवम्बरमासः (हि.स.)। भारतीयजनतापक्षेण पञ्जाबप्रदेशे पीसीएस-मुख्यपरीक्षायाः परिणामान् प्रति प्रश्नाः उत्थापिताः। राज्यस्य आम आदमी पार्टी सर्वकारस्य उपरि परीक्षायाम् अनियमिततायाः तथा प्रश्नपत्रप्रसारण-दस्यूभि: संरक्षणं प्रदानस्य च आरोपाः आरोपिताः।
भाजपायाः राष्ट्रियप्रवक्ता प्रदीपभण्डारी गुरुवासरे दलस्य मुख्यालये आयोजिते पत्रकारसम्मेलने आरोपितवान् यत् पञ्जाबपीसीएस-मुख्यपरीक्षायाः परिणामेषु एतादृशानाम् अभ्यर्थिनां चयनं जातम्, येषां अनुक्रमाङ्काः परीक्षायै पञ्जीकृताः एव न आसन्। तेन उक्तं यत् वर्ष २०२० तमस्य अनन्तरं दीर्घकालिकान्तराले आयोजितायाः अस्याः परीक्षायाः परिणामान् दृष्ट्वा युवसु छात्रेषु च अनेकाः आशङ्काः सन्ति।
भण्डारी आरोपितवान् यत् आप-सर्वकारस्य संरक्षणे पञ्जाबप्रदेशे प्रश्नपत्रलीकमाफियायाः प्रोत्साहनं दीयते। एषः विषयः केवलं परीक्षायाम् अनियमिततायाः नास्ति, अपितु पञ्जाबस्य युवानां भविष्येन सह सम्बद्धः अस्ति। भाजपादलेन परीक्षाकेन्द्रसम्बद्धेषु विवरणेषु अपि प्रश्नाः उत्थापिताः। दलस्य अनुसारं सफलेषु अभ्यर्थिषु प्रायः २४.२ प्रतिशताः अभ्यर्थिनः एकस्मादेव परीक्षाकेन्द्रात् सन्ति, यदा तु तस्य समीपस्थात् परीक्षाकेन्द्रात् केवलं २ प्रतिशताः अभ्यर्थिनः सफलाः अभवन्। भाजपादलेन उक्तं यत् एकस्मात् केन्द्रात् एतावता विशालसङ्ख्यायाम् अभ्यर्थिनां चयनं परीक्षायाः निष्पक्षतायाः विषये गम्भीरान् प्रश्नान् जनयति।
भाजपादलेन प्रश्नः उत्थापितः यत् किं सम्पूर्णे अस्मिन् प्रकरणे आप-दलस्य नेतॄणां काचित् भूमिका अस्ति? दलेन पञ्जाबसर्वकारात् परीक्षायाम् अनिय-मिततासम्बद्धानां आरोपाणां विषये उत्तरं दातुं चयनप्रक्रियायाः निष्पक्षतां च स्पष्टं कर्तुम् आग्रहः कृतः। भाजपादलस्य अनुसारं पञ्जाबस्य यूनां भविष्येन सम्बद्धे अस्मिन् विषये पारदर्शिता आवश्यकी अस्ति तथा परीक्षायाम् सम्मिलितेभ्यः सर्वेभ्यः अभ्यर्थिभ्यः निष्पक्षचयनप्रक्रियायाः आश्वा-सनं प्राप्तव्यम्।
Hindusthan Samachar / Divya Ranjan