रायपुरनगरे अद्य भारतीयजनतापक्षस्य ‘लोकतन्त्रं रक्षतु, अराजकतां दूरीकरोतु’ इति अभियानस्य अन्तर्गतं शोभायात्रा
रायपुरम्, ०५ नवम्बरमासः (हि.स.)। छत्तीसगढस्य राजधानीनगरे रायपुरे अद्य गुरुवासरे भारतीयजनतापक्षस्य ‘लोक-तन्त्रं रक्षतु, अराजकतां दूरीकरोतु’ इति अभियानस्य अन्तर्गतं शोभायात्रा आयोजयिष्यते। नेताजीसुभाषक्रीडाङ्गणे आयोज्यमाने अस्मिन् कार्यक्रमे मुख्यमन्
भाजपा की रैली फाइल फाेटाे


रायपुरम्, ०५ नवम्बरमासः (हि.स.)। छत्तीसगढस्य राजधानीनगरे रायपुरे अद्य गुरुवासरे भारतीयजनतापक्षस्य ‘लोक-तन्त्रं रक्षतु, अराजकतां दूरीकरोतु’ इति अभियानस्य अन्तर्गतं शोभायात्रा आयोजयिष्यते। नेताजीसुभाषक्रीडाङ्गणे आयोज्यमाने अस्मिन् कार्यक्रमे मुख्यमन्त्री विष्णुदेवसायः भागं ग्रहीष्यति।

भारतीयजनतापक्षेण देशव्यापिरूपेण ‘लोकतन्त्रं रक्षतु, अराजकतां दूरीकरोतु’ इति अभियानं प्रचाल्यते। अस्यैव अभि-यानस्य क्रमणे रायपुरनगरे अपि शोभायात्रा आयोज्यते। अस्य कार्यक्रमस्य माध्यमेन दलं स्वकीयम् अभियानम् अग्रे वर्धयिष्यति।

मुख्यमन्त्रिणः विष्णुदेवसायस्य उपस्थितौ आयोज्यमानायाम् अस्यां शोभायात्रायां भाजपायाः नेतारः कार्यकर्तारश्च भागं ग्रहीष्यन्ति। शोभायात्राम् उद्दिश्य दलस्य कार्यकर्तृषु उत्साहस्य वातावरणं वर्तते।

Hindusthan Samachar / Divya Ranjan