भारतं गुयानादेशाय ५० कोटि-अमेरिकीडॉलरमितां ऋणसुविधां प्रदास्यति
नवदिल्ली, ०५ नवम्बरमासः (हि.स.)। विदेशमन्त्री डॉ. एस. जयशङ्करः अद्य एन्टिग्वा-बार्बुडादेशे राष्ट्रमण्डलशासना-ध्यक्षानां सम्मेलने गुयानादेशस्य राष्ट्रपतिना डॉ. मोहम्मद इरफान अली इत्यनेन सह मिलितवान्। अस्मिन्नवसरे विदेशमन्त्री गुयानादेशस्य विकास-प्रा
विदेश मंत्री डॉ जयशंकर कई देशों के नेताओं से मुलाकात करते हुए।


नवदिल्ली, ०५ नवम्बरमासः (हि.स.)। विदेशमन्त्री डॉ. एस. जयशङ्करः अद्य एन्टिग्वा-बार्बुडादेशे राष्ट्रमण्डलशासना-ध्यक्षानां सम्मेलने गुयानादेशस्य राष्ट्रपतिना डॉ. मोहम्मद इरफान अली इत्यनेन सह मिलितवान्। अस्मिन्नवसरे विदेशमन्त्री गुयानादेशस्य विकास-प्राथमिकतानां आधारभूतसंरचना-परियोजनानां च समर्थनार्थं भारतपक्षतः ५० कोटि-अमेरिकीडॉलरमितायाः नवी-नायाः ऋणरेखायाः विस्तारस्य घोषणाम् अपि कृतवान्।

सम्मेलनावसरे उभयोः देशयोः मध्ये त्रयः सम्झौताः हस्ताक्षरिताः। एतेषु सूक्ष्मलघू-द्यमानां निर्माणपरियोजनानां आपूर्तिः स्थापना च, त्वरितप्रभाव-परियोजनानां कार्यान्वयनार्थम् अनुदान-सहायता, अङ्कीयलोकाधारसंरचनायाः क्षेत्रे सहयोगः तथा गुयानादेशे एकीकृतधन-प्रदान-अन्तरापृष्ठस्य सदृशायाः व्यवस्थायाः सञ्चालनम् इत्यादयः विषयाः समाविष्टाः सन्ति।

वर्षे २०२४ तमे प्रधानमन्त्री नरेन्द्रमोदिनः गुयानादेशयात्रायाः अनन्तरं द्वयोः देशयोः मध्ये द्विपक्षीयसम्बन्धेषु अभिवृद्धेः समीक्षां कृतम्। भारतपक्षतः गुयानादेशाय अनेकसहयोगानां घोषणाः कृताः। एतेषु ५० कोटि-अमेरिकीडॉलरमितायाः ऋणरेखा, सूक्ष्मलघूद्यमानां सहयोगः, त्वरितप्रभाव-परियोजनानां कार्यान्वयनार्थं विशेष-सहायता, अङ्कीयलोकाधारसंरचना तथा गुयानादेशे यूपीआई-सदृश-व्यवस्थायाः सञ्चालनार्थं सहयोगसम्बद्धाः सन्धय: अन्तर्भवन्ति।

अपि च, राष्ट्रमण्डलशासनाध्यक्षानां सम्मेलनस्य अवसरे भारतं वैश्विकमञ्चे स्वकीयां आर्थिकां प्रौद्योगिकीयां च आपदाप्रबन्धनसम्बद्धां सहभागितां सुदृढां कर्तुं महत्त्वपूर्णानि पदानि उत्थापितवान्। विदेशमन्त्री डॉ. एस. जयशङ्करः सम्मेलनावसरे ब्रिटेनस्य ऑस्ट्रेलिया-देशस्य च नेतृभिः सह द्विपक्षीयवार्ताः कृतवान् तथा राष्ट्रमण्डलदेशानां वाणिज्यिकनेतॄन् सम्बोधितवान्।

विदेशमन्त्रालयस्य अनुसारं डॉ. जयशङ्करः ब्रिटेनस्य प्रधानमन्त्रिणा एण्डी बर्नहैम इत्यनेन सह मिलित्वा तस्मै प्रधानमन्त्रिण: नरेन्द्रमोदिनः शुभकामनाः प्रेषितवान्। अस्मिन्नवसरे सीईटीए-अन्तर्गतं भारत-ब्रिटेनयोः आर्थिक-सहभागितां सुदृढां कर्तुं तथा वैश्विकविषयान् अधिकव्यापकतया चर्चितुं वार्ता अभवत्। अपि च, तेन ऑस्ट्रेलियादेशस्य प्रधानमन्त्रिणा एन्थनी अल्बनीज इत्यनेन, गुयानादेशस्य राष्ट्रपतिना डॉ. इरफान अली इत्यनेन तथा एन्टिग्वा-बार्बुडादेशस्य गवर्नर-जनरल सर रॉडनी विलियम्स इत्यनेन सह अपि साक्षात्कारवार्ता कृता।

राष्ट्रमण्डलराष्ट्राध्यक्षाणां वाणिज्यिक-नेतॄणां च प्रातराशसभायां विदेशमन्त्री आर्थिकसुरक्षायाः, आपूर्ति-शृङ्खलायाः तथा अङ्कीयविकासस्य महत्त्वे बलं दत्तवान्। अस्मिन् अवसरे प्रमुखतया आपूर्ति-शृङ्खलायाः सुरक्षायां ध्यानं दातव्यम् इति प्रतिपादितम्। सम्पर्कमार्गाः व्यापाराय लाभप्रदाः भवन्ति। राष्ट्रमण्डलस्य अन्तर्गतं कौशल-युक्तजनानां गतिशीलता प्रमुखं प्राथमिकताक्षेत्रं भवितुम् अर्हति। विश्वस्य विभिन्नेषु भागेषु विस्तृतः भारतीय-व्यापारसमुदायः राष्ट्रमण्डलस्य वैश्विक-प्रगतेः कृते महत्त्वपूर्णा सम्पत्तिः अस्ति। अङ्कीयलोकाधारसंरचना कार्यदक्षतायाः, सुशासनस्य तथा समावेशिविकासस्य गतिवर्धने क्रान्तिकारिणीं भूमिकां निर्वहति।

Hindusthan Samachar / Divya Ranjan