Enter your Email Address to subscribe to our newsletters

देवरिया, 05 नवम्बरमासः (हि.स.)। युवा कल्याण एवं प्रान्तीय रक्षक दल विभागस्य तत्त्वावधाने गुरुवासरे सन्तविनोबा स्नातकोत्तरमहाविद्यालये जनपदस्तरीयस्य युवमहोत्सवस्य (सांस्कृतिकविधायाः) आयोजनं कृतम्। अस्मिन् जनपदस्य विभिन्नक्षेत्रेभ्यः समागतैः युवभिः लोकगीतगायने, लोकनृत्ये, कवितापाठे, चित्रकलास्पर्धासु च स्वप्रतिभायाः प्रदर्शनं कृतम्। स्पर्धासु उत्कृष्टं प्रदर्शनं कृतवद्भ्यः प्रतिभागिभ्यः प्रथमं, द्वितीयं, तृतीयं च स्थानं प्रदाय सम्मानितम्।कार्यक्रमस्य मुख्यातिथिः जिलापञ्चायताध्यक्षः गिरीशचन्द्रतिवारी अवदत् यत् युवानः राष्ट्रस्य सर्वाधिकं महत्त्वपूर्णं बलम् सन्ति। तेषां प्रतिभायाः परिष्काराय समुचितं मञ्चम् अवसरं च प्रदातुम् आवश्यकम्। एतादृशाः आयोजनाः युवानां सृजनात्मकक्षमतां वर्धयन्ति, भारतीयसंस्कृतेः लोकपरम्पराणां च संरक्षणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।
Hindusthan Samachar / Dheeraj Maithani