Enter your Email Address to subscribe to our newsletters

बाराबङ्की, ०५ नवम्बरमासः (हि.स.)। देवा-मेला-प्रदर्शिनी-२०२६ इत्यस्य भव्यः सङ्गीतकार्यक्रमः बुधवासरस्य रात्रौ चलचित्रगायकस्य जावेद-अलीमहोदयस्य नाम्ना समर्पितः आसीत्। स्वस्य मधुरस्वरेण उत्कृष्टगायनशैल्या च तेन एतादृशं सङ्गीतमयं वातावरणं निर्मितं यत् सम्पूर्णः कार्यक्रममण्डपः करतलध्वनिभिः गुञ्जितः अभवत्। तस्य लोकप्रियगीतानां श्रवणेन दर्शकाः रात्रेः विलम्बपर्यन्तम् आनन्देन नृत्यन्तः आसन्।
मञ्चम् आगत्य एव जावेद-अलीमहोदयस्य दर्शकैः भव्यं स्वागतं कृतम्। तेन ‘जश्न-ए-बहार’, ‘तू जो मिला तो हो गया सब हासिल’, ‘कुन फाया कुन’, ‘अर्जियाँ’, ‘तू ही हकीकत’, ‘श्रीवल्ली’, ‘तुम तक’, ‘तेरा दीदार हुआ’ तथा ‘नगाड़ा’ इत्यादीनां प्रसिद्धगीतानां मनोहराः प्रस्तुतयः प्रदत्ताः। तथैव ‘अभी न जाओ छोड़कर’ इति गीतं श्रोतॄन् विशेषरूपेण रोमाञ्चितम् अकरोत्। प्रेमपूर्णगीतानां सूफीगीतानां च प्रस्तुतिसमये दर्शकाः करतलध्वनिं कुर्वन्तः तस्य मधुरस्वरेण सह गीतानि गुञ्जयन्तः दृश्यन्ते स्म।
जावेद-अलीमहोदयस्य उच्चस्वरेण भावपूर्णगायनेन च सांस्कृतिकसन्ध्या स्मरणीया अभवत्।
कार्यक्रमे तस्य सङ्गीतदलस्य कलाकारैः अपि वाद्ययन्त्राणां माध्यमेन उत्कृष्टा सङ्गतिः कृता। मनीष कुलकर्णी इत्यनेन बेस-गिटारवादनं, मान्टू गोसावी इत्यनेन ऑक्टोपैडवादनं, लतेश परब इत्यनेन तबलावादनं तथा तालवाद्येषु वादनं, सचिनतायडे इत्यनेन वंशीवादनं, अमनदेसाई तथा अश्विनरोकडे इत्याभ्यां की-बोर्डवादनं, रोहननाडकर्णी इत्यनेन मृदङ्गवादनं तथा रौनीसातमकरः इत्यनेन मुख्यगिटारवादनं कृत्वा प्रस्तुतिं प्रभावशालिनीं कृतवन्तः।
तथैव धनञ्जयः ववाले, रूजवेल्ट डिसूजा, चन्दन शर्मा तथा निखिलः जवारे इत्येतेषां कलाकाराणां तकनीकीव्यवस्थासु महत्त्वपूर्णं योगदानम् आसीत्।
रात्रेः विलम्बपर्यन्तं सङ्गीतस्य मधुरध्वनिभिः दर्शकाणां करतलध्वनिभिश्च मेलाप्राङ्गणं गुञ्जितम् अभवत्।
Hindusthan Samachar / Divya Ranjan