राहुलगान्धी मार्गेषु कोलाहलं अव्यवस्थां च प्रसारयितुम् इच्छन्ति - सम्बितपात्रा
बेङ्गलूरुनगरम्, ०५ नवम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रिय-प्रवक्ता तथा सांसदः डॉ. सम्बितपात्रा इत्यनेन कांग्रेसनेता राहुलगान्धी लक्ष्यीकृत्य उक्तं यत् तस्य समीपे न तु किमपि तथ्यं विद्यते, न च कश्चन सांख्यिकीयः प्रमाणम्। संसदः शिष्टायाः सार
बीजेपी के राष्ट्रीय प्रवक्ता और सांसद डॉ. संबित पात्रा प्रेस कॉन्फ्रेंस में बोलते हुए


बेङ्गलूरुनगरम्, ०५ नवम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रिय-प्रवक्ता तथा सांसदः डॉ. सम्बितपात्रा इत्यनेन कांग्रेसनेता राहुलगान्धी लक्ष्यीकृत्य उक्तं यत् तस्य समीपे न तु किमपि तथ्यं विद्यते, न च कश्चन सांख्यिकीयः प्रमाणम्। संसदः शिष्टायाः सार्थकायाश्च चर्चायाः स्थाने कोलाहलं अव्यवस्थां च प्रसारयितुमेव तस्य उद्देश्यम् अस्ति।

‘लोकतन्त्रं रक्षतु, अराजकतां नाशयतु’ इत्यभियानस्य अन्तर्गतं गुरुवासरे बेङ्गलूरुनगरे भाजपायाः प्रदेशकार्यालये जगन्नाथभवने आयोजिते पत्रकार-सम्मेलने सः एतदुक्तवान्।

सम्बितपात्रा आरोपितवान् यत् राहुल-गान्धी यदा-यदा भाषणं कुर्वन्ति, तदा-तदा कांग्रेसदलं पराजयम् अनुभवति। संसदः विषयाधारितायाः चर्चायाः स्थाने ते मार्गेषु कोलाहलं अव्यवस्थां च प्रसारयितुम् इच्छन्ति।

ते अवदन् यत् राहुलगान्धी सर्वप्रथमं स्वकीयैः इण्डी-महागठबन्धनस्य सहयोगिभिः अरविन्दकेजरीवालः ममता-बनर्जी च सह चर्चा कुर्युः। पञ्जाबप्रदेशे अरविन्दकेजरीवालः तेषां पक्षे सन्ति वा न इति राहुलगान्धिना स्पष्टं कर्तव्यम्। पश्चिमबङ्गालस्य निर्वाचनकाले यस्याः तृणमूलकांग्रेसपक्षस्य राहुलगान्धी सर्वाधिकभ्रष्टः इति वर्णनं कृतवन्तः, तस्याः ममताबनर्ज्याः तस्याश्च दलस्य विषये अद्य तेषां किं मतम् अस्ति, अस्य अपि उत्तरं दातव्यम्।

सम्बितपात्रा राहुलगान्धिनं कर्नाटकस्य स्वकीयायाः कांग्रेससर्वकारस्य मन्त्री सतीशजारकीहोली इत्यनेन सह चर्चां कर्तुं चुनौतीं दत्तवान्। ते अवदन् यत् यदा कर्नाटकसर्वकारस्य मन्त्री सतीशजार-कीहोली इत्यस्य मतम् अस्ति यत् राज्ये मतदातृसूच्याः विशेषगहनपुनरीक्षणस्य प्रक्रिया सम्यक् सम्पन्ना, तर्हि राहुलगान्धिना सर्वप्रथमं स्वकीयमन्त्रिणं पृष्टव्यम् यत् एसआईआर-प्रक्रिया सम्यक् अस्ति अथवा नास्ति।

Hindusthan Samachar / Divya Ranjan