चलचित्रसमीक्षा : भव्यदृश्यैः प्रभावशालिनः अभिनयैश्च समलङ्कृता नितेशतिवारीमहोदयस्य ‘रामायणम्’ इति चलचित्रकृतिः।
मुंबई, 05 नवंबरमासः (हि.स.)। केचन कथाः तादृश्यः भवन्ति, याः पुनः पुनः दृष्ट्वा श्रुत्वा च अपि स्वकीयम् आकर्षणं न त्यजन्ति। ‘रामायणम्’ अपि तादृशी एव कथा अस्ति, या प्रत्येकस्य भारतीयस्य हृदयेन भावनाभिश्च सम्बद्धा अस्ति। इमां कथां बृहच्चलचित्रपटले प
रामायण - फोटो सोर्स एक्स


मुंबई, 05 नवंबरमासः (हि.स.)।

केचन कथाः तादृश्यः भवन्ति, याः पुनः पुनः दृष्ट्वा श्रुत्वा च अपि स्वकीयम् आकर्षणं न त्यजन्ति। ‘रामायणम्’ अपि तादृशी एव कथा अस्ति, या प्रत्येकस्य भारतीयस्य हृदयेन भावनाभिश्च सम्बद्धा अस्ति। इमां कथां बृहच्चलचित्रपटले प्रस्तुतं कर्तुं न सरलम्, यतः दर्शकाः अस्याः प्रत्येकं पात्रं प्रत्येकं च प्रसङ्गं पूर्वमेव जानन्ति। अतः निर्देशकः नितेशतिवारी ‘रामायणम्’ इति चलचित्रस्य माध्यमेन पुनः एकवारम् एतां महागाथां नवीनशैल्या भव्यतया च प्रस्तुतुं प्रयत्नं कृतवान्। रणबीरकपूरः, यशः, साईपल्लवी च इत्यादिभिः कलाकारैः समलङ्कृतम् इदं चलचित्रं केवलं पौराणिकी कथा नास्ति, अपितु प्रेम, त्याग, मर्यादा, अहङ्कार, धर्मयोः सङ्घर्षं च भव्यचलच्चित्रशैल्या प्रदर्शयति। चलचित्रस्य सर्वश्रेष्ठा विशेषता एषा अस्ति यत् कथायाः मूलभावनाम् अक्षुण्णां रक्षन् आधुनिकप्रौद्योगिक्याः उत्कृष्टदृश्यानां च उपयोगः कृतः अस्ति।

कथा

चलचित्रस्य कथा वाल्मीकिरामायणम् आधारीकृत्य निर्मिता अस्ति। कथायाः आरम्भः देवतानाम् असुराणां च सङ्घर्षेण भवति, ततः लङ्कायां रावणस्य अभ्युदयस्य कथा प्रदर्श्यते। यशः रावणस्य भूमिकायां तादृशं शासकं प्रस्तुतवान्, यस्मिन् अपारं बलम्, बुद्धिमत्ता, त्रिषु लोकेषु आधिपत्यस्थापनस्य महत्त्वाकाङ्क्षा च विद्यते। तपस्या, ब्रह्मणः वरप्राप्तिः, इन्द्रस्य पराजयः, कुबेरात् लङ्कायाः अधिकारग्रहणम् इत्यादयः प्रसङ्गाः रावणस्य व्यक्तित्वं विस्तरेण प्रकाशयन्ति। ततः कथा अयोध्यां प्राप्नोति, यत्र राजा दशरथस्य गृहे भगवान् विष्णुः रामरूपेण जन्म गृह्णाति। रामस्य बाल्यकालः, शिक्षा, शस्त्रविद्याभ्यासः, विश्वामित्रेण सह यात्रा च प्रदर्श्यते। ताटकावधः, अहल्यायाः उद्धारः, मिथिलायां सीतायाः स्वयंवरः इत्यादयः प्रसङ्गाः कथां अग्रे नयन्ति।

रामसीतयोः विवाहः चलचित्रस्य सुन्दरतमेषु भागेषु अन्यतमः अस्ति। ततः कैकेय्याः द्वयोः वरयोः याचनया कथायां महत्त्वपूर्णं परिवर्तनं भवति। सा भरताय राजसिंहासनं रामाय च चतुर्दशवर्षाणां वनवासं याचते। रामः पितुः वचनस्य सम्मानं कुर्वन् विना विरोधं वनगमनस्य निर्णयं करोति। सीता लक्ष्मणश्च अपि तेन सह वनवासाय प्रस्थानं कुरुतः। अपरतः लङ्कायां रावणस्य महत्त्वाकाङ्क्षा शूर्पणखया सम्बद्धाः घटनाश्च कथां अग्रे नयन्ति। अन्ततः रावणः सीतायाः हरणं कृत्वा तां लङ्कां नयति। चलचित्रस्य प्रथमः भागः एतावतीं कथां प्रदर्शयति तथा च अग्रे भविष्यतः रामरावणयोः युद्धस्य भूमिका निर्माति।

निर्देशनम्

नितेशतिवारीमहोदयेन एतां महागाथां चलच्चित्रपटले प्रस्तुतुं पर्याप्तः परिश्रमः कृतः। ‘रामायणम्’ इत्यस्य कथां दर्शकाः पूर्वमेव जानन्ति, अतः अस्मिन् अत्यावश्यकम् आसीत् यत् कथायाः मूलभावनायाः परिवर्तनं विना तस्याः नवीनं चलच्चित्ररूपं प्रदीयेत। निर्देशकः अस्मिन् कार्ये सफलः दृश्यते। तेन चलचित्रं केवलं दृश्यप्रभावैः विशालैः चलचित्रनिर्माणस्थलैश्च सीमितं न कृतम्, अपितु पात्राणां परस्परसम्बन्धानां भावनानां च समुचितं स्थानं प्रदत्तम्। रामलक्ष्मणयोः भ्रातृभावः, रामसीतयोः प्रेम, कैकेय्या सह रामस्य संवादः, रावणस्य महत्त्वाकाङ्क्षा इत्यादयः प्रसङ्गाः चलचित्रं भावनात्मकदृष्ट्या सुदृढं कुर्वन्ति।

चलचित्रे अनेकानि तादृशानि दृश्यानि सन्ति, यानि दर्शकान् कथया सह संयोजयन्ति। जनानां कृते रामायणं केवलं चलचित्रं वा कथा वा नास्ति, अपितु श्रद्धायाः भावनानां च विषयः अस्ति। अतः अस्य पात्राणां संवादानां च प्रस्तुतौ विशेषा सावधानता आवश्यकी आसीत्। चलचित्रे अनावश्यकपरिवर्तनानि कर्तुं स्थाने मूलप्रसङ्गानां भव्यप्रस्तुतौ ध्यानं दत्तम्। एषा एव विशेषता अस्य चलचित्रस्य महत्त्वं वर्धयति। तथापि केषुचित् स्थलेषु कथा किञ्चित् मन्दगतिः भवति, परन्तु निर्देशकः कथां शीघ्रतया समापयितुं स्थाने प्रत्येकस्मै पात्राय पर्याप्तं समयं दत्तवान्।

प्रौद्योगिकपक्षः

चलचित्रस्य सर्वाधिकं सुदृढं पक्षं तस्य प्रौद्योगिकस्तरः अस्ति। अयोध्यायाः भव्यता, मिथिलायाः सौन्दर्यम्, लङ्कायाः प्रासादाः, वनानि, युद्धसम्बद्धानि दृश्यानि च अत्यन्तं मनोहराणि सन्ति। चलचित्रस्य निर्माणविन्यासः दृश्याङ्कनकला च तस्य भव्यतां अधिकां वर्धयतः। डीएनईजी संस्थायाः दृश्यप्रभावाः चलचित्रं विशालस्तरे प्रस्तुतुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। विशेषतः रावणसम्बद्धानि दृश्यानि जटायुरावणयोः सङ्घर्षश्च द्रष्टुं योग्यौ स्तः। केषुचित् स्थलेषु सङ्गणकनिर्मितानि चित्राणि किञ्चित् कृत्रिमाणि अवश्यं दृश्यन्ते, तथापि अधिकांशानि दृश्यानि बृहच्चलचित्रपटले उत्कृष्टं प्रभावं जनयन्ति। पङ्कजकुमारस्य महेशलिमये च दृश्याङ्कनकला प्रशंसनीया अस्ति। प्रत्येकं दृश्यस्थानं प्रत्येकं च दृश्यम् अत्यन्तं सुन्दररीत्या चित्रितम्।

ए.आर. रहमानस्य हान्सजिमरस्य च सङ्गीतम् चलचित्रस्य अन्यः सुदृढः पक्षः अस्ति। उभयोः सङ्गीतं कथायाः भावनात्मकं पौराणिकं च वातावरणं अधिकं प्रभावशालि करोति। अनेकदृश्येषु पृष्ठभूमिसङ्गीतं दर्शकान् कथया सह भावनात्मकरूपेण संयोजयति। त्रिहोराधिककालपर्यन्तं चलच्चित्रं भवति चेत् अपि तस्य उत्कृष्टानि दृश्यानि दर्शकानां रुचिं निरन्तरं धारयन्ति। विशेषतः नवपीढ्याः दर्शकानां कृते एतत् चलचित्रं रामायणस्य प्राचीनां कथां नवीनया आधुनिकया च शैल्या द्रष्टुं अवसरं प्रददाति।

अभिनयः

रणबीरकपूरेण भगवान् रामस्य भूमिकायाः निर्वहणम् अत्यन्तं शालीनतया संयमेन च कृतम्। तस्य मुखे शान्तिः, व्यवहारे मर्यादा, संवादेषु गाम्भीर्यं च दृश्यते। विशेषतः वनवासस्य स्वीकारे तथा कैकेय्या सह भावनात्मकदृश्येषु तस्य अभिनयः प्रशंसनीयः अस्ति। तेन रामस्य पात्रं आवश्यकतायाः अधिकं नाटकीयं कर्तुं प्रयत्नः न कृतः।

यशः रावणस्य भूमिकायां अत्यन्तं प्रभावशाली दृश्यते। तस्य प्रभावशालिनी अभिनयप्रस्तुतिः संवादानां च सशक्ता अभिव्यक्तिः पात्राय विशिष्टां परिचितिं ददाति। सः रावणस्य अहङ्कारं, शक्तिं, महत्त्वाकाङ्क्षां च सम्यक् चलच्चित्रपटले प्रस्तुतवान्। यदा यदा सः दृश्यपटले आगच्छति, तदा दर्शकाणाम् अवधानं स्वस्मिन् आकर्षति।

साईपल्लवी सीतायाः भूमिकायाम् अत्यन्तं सहजतया सुन्दरतया च दृश्यते। तस्याः अभिनये सरलता गौरवं च दृश्यते। रविदुबे लक्ष्मणस्य भूमिकायां प्रशंसनीयं कार्यं कृतवान्। रामं प्रति तस्य समर्पणं भ्रात्रा सह तस्य सम्बन्धश्च द्रष्टुं योग्यः अस्ति। रकुलप्रीतसिंहः शूर्पणखायाः भूमिकायां प्रभावं जनयति। लारादत्ता कैकेय्याः भूमिकायां शोभते, अरुणगोविलश्च राजा दशरथस्य भूमिकायां भावनात्मकं प्रभावं जनयति। अनुपमखेरस्य स्वरेण प्रस्तुतं जटायोः पात्रं विशिष्टम् अस्ति। जटायुसम्बद्धं दृश्यम् दर्शकान् भावुकान् कर्तुं शक्नोति। आदिनाथकोठारे भरतस्य, विवेकओबेरॉय विद्युत्जिह्वायाः, सौरभसचदेवः मारीचस्य च भूमिकासु स्वकीयाम् उपस्थितिं प्रभावपूर्णतया अङ्कयन्ति।

किं विशेषम्

चलचित्रस्य सर्वप्रमुखा विशेषता तस्य भव्यता कथायाः प्रस्तुतिशैली च अस्ति। रामायणस्य कथा पूर्वमपि अनेकवारं चलच्चित्रपटले प्रदर्शिता, किन्तु अस्मिन् समये प्रौद्योगिक्याः दृश्यानां च कारणेन तस्य अनुभवः सर्वथा भिन्नः अस्ति। रामलक्ष्मणयोः सम्बन्धः, रामसीतयोः भावनाः, रावणस्य व्यक्तित्वं, लङ्कायाः भव्यता च चलचित्रं विशिष्टं कुर्वन्ति।

न्यूनताविषये विचार्यमाणे चलचित्रस्य अवधि किञ्चिद् अधिका अस्ति। केचन दृश्याः लघूकर्तुं शक्यन्ते स्म। तथैव केषुचित् स्थलेषु सङ्गणकनिर्मितचित्राणां गुणवत्ता अधिकं सुधारयितुं आवश्यकता अनुभूयते। तथापि एताः न्यूनताः चलचित्रस्य समग्रानुभवं बहुधा प्रभावितं न कुर्वन्ति।

समग्रतया नितेशतिवारीमहोदयस्य ‘रामायणम्’ उत्कृष्टः चलच्चित्रानुभवः अस्ति। रणबीरकपूरेण रामस्य भूमिकायां स्वकीयः विशिष्टः प्रभावः स्थापितः, यशः रावणरूपेण प्रभावशाली दृश्यते तथा साईपल्लवी सीतायाः भूमिकां सुन्दरतया निर्वहति। चलचित्रस्य भव्यता, उत्कृष्टानि दृश्यानि, श्रेष्ठा दृश्याङ्कनकला, ए.आर. रहमानस्य हान्सजिमरस्य च सङ्गीतम् एतत् चलचित्रं बृहच्चलचित्रपटले द्रष्टुं योग्यं कुर्वन्ति। केषुचित् स्थलेषु चलचित्रस्य दीर्घतायां दृश्यप्रभावेषु च सुधारस्य सम्भावना अवश्यं विद्यते, तथापि अस्य गुणाः एताः न्यूनताः अतिक्रामन्ति। बाल्यकालात् रामायणस्य कथां जानन्तः दर्शकाः अपि अस्मिन् चलचित्रे किञ्चित् नवीनं द्रष्टुं प्राप्स्यन्ति। विशेषतः नवपीढ्याः कृते इदं चलचित्रं भारतीयमहाकाव्येन सह सम्बद्धतां स्थापयितुं श्रेष्ठं माध्यमं भवितुम् अर्हति।

यदि भवान् रामायणस्य कथायाः, भव्यचलच्चित्रस्य उत्कृष्टदृश्यानां च प्रेमी अस्ति, तर्हि एतत् चलचित्रं चित्रमन्दिरे अवश्यं द्रष्टव्यम्। आइमैक्स् तथा त्रिविमप्रारूपे अस्य अनुभवः अधिकं मनोहरः भवितुम् अर्हति। चलचित्रं प्रति यावती अपेक्षा आसीत्, सा बहुधा सार्थका सिद्धा भवति।

चलचित्रम् : रामायणम् (प्रथमः भागः) निर्देशकः : नितेशतिवारी कलाकाराः : रणबीरकपूरः, यशः, साईपल्लवी, रविदुबे, रकुलप्रीतसिंहः, लारादत्ता, अरुणगोविलः, अनुपमखेरः, आदिनाथकोठारे, विवेकओबेरॉय,

सौरभसचदेवः मूल्याङ्कनम् : ★★★½ (३.५/५)

Hindusthan Samachar / Dheeraj Maithani