अन्नपूर्णायोजनायाः सूचीतः अपात्राणां बहूनि नामानि निष्कासयिष्यन्ते, सत्यापनानन्तरमेव लाभः प्रदास्यते
कोलकाता, ०५ नवम्बरमासः (हि.स.)। पश्चिमबङ्गालप्रदेशे अन्नपूर्णायोजनायाः लाभार्थिनां सूचीतः अधुना अयोग्यव्यक्तीनां बहूनि नामानि निष्कासयिष्यन्ते। राज्यसर्वकारेण योजनायाः अन्तर्गतं लाभं प्राप्नुवतां व्यक्तिनां सूच्याः विस्तृतसत्यापनं कृत्वा अपात्रव्यक
शुभेंदु अधिकारी


कोलकाता, ०५ नवम्बरमासः (हि.स.)। पश्चिमबङ्गालप्रदेशे अन्नपूर्णायोजनायाः लाभार्थिनां सूचीतः अधुना अयोग्यव्यक्तीनां बहूनि नामानि निष्कासयिष्यन्ते। राज्यसर्वकारेण योजनायाः अन्तर्गतं लाभं प्राप्नुवतां व्यक्तिनां सूच्याः विस्तृतसत्यापनं कृत्वा अपात्रव्यक्तीनां नामानि तत्कालं निष्कासयितुं कठोरनिर्देशः प्रदत्तः। महिलाबालविकास-सामाजिक-कल्याणविभागेन अस्मिन् सम्बन्धे आधिकारिकाधिसूचना निर्गता अस्ति। अस्याः अधिसूचनायाः माध्यमेन राज्यस्य सर्वेभ्यः जनपदाधिकारिभ्यः तथा कोलकातानगरनिगमस्य आयुक्ताय च चलितस्य सप्ताहस्य अन्तः एव सत्यापनकार्यं सम्पूर्णं कर्तुं कठोरादेशः प्रदत्तः। अस्याः महत्त्वाकाङ्क्षिण्याः योजनायाः अन्तर्गतं राज्यस्य पात्रमहिलाभ्यः प्रतिमासं त्रिसहस्र-रूप्यकाणां आर्थिकसहायता प्रदीयते। प्रशासनेन विशेषरूपेण तेषां लाभार्थिनां सूच्याः गहनपरीक्षणं कर्तुं निर्देशः प्रदत्तः, येभ्यः अक्टोबरमासे अस्याः योजनायाः धनराशिः प्राप्ता अस्ति।

एतादृशी प्रबलाशङ्का व्यक्ता क्रियते यत् अक्तूबरमासस्य लाभार्थिसूच्यां बहूनि कूटनामानि समाविष्टानि सन्ति। विभागेन निर्गतेषु निर्देशेषु स्पष्टम् उक्तम् अस्ति यत् यदि लाभार्थिसूच्यां कस्यापि सर्वकारीय-कर्मचारिणः, आयकरदातुः अथवा मृतव्यक्तेः नाम प्राप्यते, तर्हि तत्कालं परीक्षणं कृत्वा तस्य नाम चिह्नितं कुर्यात् तथा योजनायाः सूचीतः सदैव निष्कासयेत्। मुख्यमन्त्री शुभेन्दु-अधिकारी पूर्वमेव स्पष्टं कृतवान् आसीत् यत् कस्यापि अयोग्यव्यक्तेः अन्नपूर्णायोजनायाः लाभं प्राप्तुं अनुमतिः न भविष्यति। अतः अपात्रव्यक्तिनां चयनात्मकनिष्कासनस्य एषः सर्वकारीयादेशः अत्यन्तं महत्त्वपूर्णः मन्यते। करदातॄणां धनस्य दुरुपयोगः न भवेत् तथा योजनायाः लाभः केवलं वास्तविकाभ्यः आवश्यकताग्रस्ताभ्यः महिलाभ्यः एव प्राप्नुयात् इति सुनिश्चितं कर्तुम् इच्छति सर्वकारः। अपात्रव्यक्तिनां परिचयस्य निष्कासनस्य च अस्य अभियानस्य कारणात् अधुना यावत् लाभार्थिनां धनागारेषु योजनायाः धनराशिः न प्रेषिता अस्ति।

तथापि वास्तविकलाभार्थिनां चिन्ता कर्तुं आवश्यकता नास्ति, यतः बुधवासरस्य रात्रौ एव मुख्यमन्त्री शुभेन्दु-अधिकारी तान् आश्वासयन् महत्त्वपूर्णां घोषणां कृतवान्। मुख्यमन्त्री अवदत् यत् दीपावलीपर्वणः पूर्वं राज्यस्य एककोटिपञ्चषष्टिलक्षं पात्रलाभार्थिनां धनागारेषु अन्नपूर्णायोजनायाः धनराशिः साक्षात् प्रेषयिष्यते। एतदतिरिक्तं तेन सूचितं यत् दीपावलीपर्वणः पूर्वमेव राज्यस्य चतुरशीतिलक्षं जनानां वृद्धावस्थापेन्शनं दिव्याङ्गपेन्शनं च तथा त्रिलक्षं लोकप्रसारकलाकाराणां मानधनमपि तेषां खातेषु प्रेषयिष्यते। अपि च, राज्यसर्वकारः अग्रिमे त्रयोदशदिनाङ्के अन्यदेकं महत्त्वपूर्णं कार्यक्रमम् आयोजयितुं गच्छति। अस्मिन् कार्यक्रमे पश्चिम-बङ्गाल-आवासयोजनायाः सप्तलक्ष-विंशतिसहस्रं लाभार्थिभ्यः द्वितीयपर्याय-रूपेण प्रायः चतुर्सहस्रद्विशत-कोटिरूप्यकाणां विशालधनराशिः प्रदास्यते।

Hindusthan Samachar / Divya Ranjan