Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, ०५ नवम्बरमासः (हि.स.)। नेशनलकॉन्फ्रेन्सदलस्य नेतृत्वेन सह शुक्रवासरे आयोज्यमानायाः सभायाः पूर्वं मन्त्रिमण्डले नवीनपरिवर्तनस्य विस्तारस्य च कारणेन असन्तुष्टाः दलस्य विधायकाः गुरुवासरे सायंकाले पुनः एकां सभां कर्तुं शक्नुवन्ति।
सूत्राणाम् अनुसारं ते अस्यां वार्तायां स्वकीयां रणनीतिं अन्तिमरूपं दास्यन्ति। सूत्रैः सूचितं यत् विधायकाः स्वकीयां भाविकार्ययोजनां चर्चयितुं शक्नुवन्ति तथा दलनेतृत्वेन सह सभायाः पूर्वं सामूहिकं मतं निर्मातुं शक्नुवन्ति। एषा सभा अद्य एनसी-दलस्य विधायकस्य मुबारकगुलस्य निवासस्थाने आयोजयितुं सम्भावना अस्ति। अस्य समूहस्य एषा चतुर्थी सभा भविष्यति।
अक्टूबरमासस्य ३० दिनाङ्कात् प्रचलिताभिः एताभिः चर्चाभिः सर्वकारस्य स्थिरतां प्रति प्रश्नाः उत्पन्नाः सन्ति। एनसी-नेतृत्वाय समर्पिते स्वकीय-ज्ञापनपत्रे अस्मिन् समूहेन मन्त्रीमण्डलस्य पुनर्गठनस्य आग्रहः कृतः अस्ति। अस्मिन् तेषां मन्त्रिणां कार्यप्रणाल्याः मूल्याङ्क-नस्य आग्रहः अपि अन्तर्भवति, ये पदे स्थित्वा द्विवर्षाणि पूर्णानि कृतवन्तः। ये मन्त्रिणः सम्यक् प्रदर्शनं न कुर्वन्ति, तान् पदात् अपसारयितुम् अपि आग्रहः कृतः अस्ति।
विधायकैः सुरेन्द्रचौधरीतः ‘मार्गनिर्माण-विभागस्य’ दायित्वम् अपि प्रत्यानेतुं याचना कृता अस्ति। जूनमासस्य तृतीयदिनाङ्के दाचीगामे आयोजिता सभायां विंशत्यधिकैः विधायकैः सुरेन्द्रचौधरी आलोचितः आसीत्, तथापि अद्यापि तस्य समीपे एषः विभागः अस्ति।
अनेन समूहेन मुख्यमन्त्रिणः परामर्शदातारं नासिर-असलमवानीम् अपि पदात् अपसारयितुं याचना कृता अस्ति।
Hindusthan Samachar / Divya Ranjan