राष्ट्रीयमानवाधिकारायोगस्य हस्तक्षेपेण हैदराबादस्य केन्द्रीयकारागारे निर्मितः ‘लैङ्गिकनिरपेक्षप्रकोष्ठः’
नवदिल्ली, ०५ नवम्बरमासः (हि.स.)। राष्ट्रीयमानवाधिकारायोगस्य हस्तक्षेपानन्तरं हैदराबादस्य केन्द्रीय-कारागारप्रशासनेन विभिन्न-लैङ्गिकपरिचययुक्तानां तथा लैङ्गिका-भिव्यक्तियुक्तानां व्यक्तिनां कृते पृथक् ‘लैङ्गिकनिरपेक्षप्रकोष्ठस्य’ निर्माणं कृतम्। एते
प्रतीकात्मक


नवदिल्ली, ०५ नवम्बरमासः (हि.स.)। राष्ट्रीयमानवाधिकारायोगस्य हस्तक्षेपानन्तरं हैदराबादस्य केन्द्रीय-कारागारप्रशासनेन विभिन्न-लैङ्गिकपरिचययुक्तानां तथा लैङ्गिका-भिव्यक्तियुक्तानां व्यक्तिनां कृते पृथक् ‘लैङ्गिकनिरपेक्षप्रकोष्ठस्य’ निर्माणं कृतम्। एतेन तेषां गरिमायाः मानवाधिकाराणां च रक्षणं सुनिश्चितं भविष्यति।

आयोगस्य अनुसारं कारागाराधिकारिभिः अस्मिन् विशेषप्रकोष्ठे निवासं कुर्वद्भ्यः व्यक्तिभ्यः स्वेच्छानुसारं लैङ्गिकपरिचया-नुरूपं वस्त्रं धर्तुम् अपि अनुमतिः प्रदत्ता अस्ति। अयं पदक्षेपः आयोगस्य विशेषनिरीक्षकेण अक्टोबरमासस्य अष्टमे दिनाङ्के कृते कारागारनिरीक्षणानन्तरं स्वीकृतः। विशेषनिरीक्षकाय ट्रान्सजेण्डर-एलजीबीटीक्यू-समुदाययोः अधिकार-सम्बद्धविषयाणां निरीक्षणस्य दायित्वं प्रदत्तम् आसीत्। निरीक्षणकाले तेन ट्रान्सजेण्डरव्यक्तीनां कल्याणार्थं राष्ट्रीयमानवाधिकारायोगेन गृहमन्त्रालयेन च निर्गतानां निर्देशानां परामर्शानां च कठोरतया कार्यान्वयनस्य आवश्यकता प्रतिपादिता।

हैदराबादस्य केन्द्रीयकारागारस्य अधीक्षकेण आयोगाय अनुपालनप्रतिवेदनं समर्प्य एषा सूचना प्रदत्ता। तेन उक्तं यत् राष्ट्रीयमानवाधिकारायोगस्य अनुशंसानां कार्यान्वयनं कुर्वता पृथक् प्रकोष्ठस्य निर्माणेन सह तेषां वस्त्रधारणसम्बद्धाः सकारात्मकपरिवर्तनाः अपि अनुमोदिताः सन्ति। आयोगेन एतत् प्रयासः सुधारगृहेषु सर्वेषां लैङ्गिकपहचानयुक्तानां व्यक्तिनां मौलिकमानवाधिकाराणां, आत्म-सम्मानस्य तथा सुरक्षायाः संवर्धनदिशि महत्त्वपूर्णः पदक्षेपः इति वर्णितः।

Hindusthan Samachar / Divya Ranjan