Enter your Email Address to subscribe to our newsletters

नव टिहरी, 05 नवंबरमासः (हि.स.)।
भाजपादलस्य सहप्रदेशप्रभारी तथा सांसद बांसुरीस्वराजः अवदत् यत् द्वयाभियानसर्वकारस्य शासनकाले उत्तराखण्डस्य सर्वतोमुखः विकासः भवति। प्रधानमन्त्री नरेन्द्रमोदी तथा मुख्यमन्त्री पुष्करसिंहधामी इत्येतयोः जनकल्याणकारिण्यः योजनाः, भाजपादलस्य स्पष्टं विकासदृष्टिकोणं च आधारीकृत्य उत्तराखण्डे भाजपादलं विजयस्य हैट्रिकं करिष्यतीति सा विश्वासं प्रकटितवती। तया काङ्ग्रेसदलेन प्रत्येकस्य विषयस्य बलात् विरोधः क्रियते तथा उत्तराखण्डस्य विकासाय तस्य समीपे किमपि कार्ययोजनापत्रं नास्तीति आरोपः कृतः।
गुरुवासरे प्रथमवारं टिहरीनगरम् आगतायाः सहप्रदेशप्रभारिण्याः बांसुरीस्वराजस्य जिलाध्यक्षस्य उदयरावतस्य नेतृत्वे कार्यकर्तृभिः भव्यं स्वागतं कृतम्। जिलाध्यक्षः उदयरावतः सङ्घटनात्मकगतिविधीनां, विधानसभानिर्वाचनस्य सज्जतानां च विषये अन्यासां सूचनानां सह विवरणं प्रस्तुतवान्। बांसुरीस्वराजः कार्यकर्तृभिः सह संवादं कुर्वती अवदत् यत् भाजपादलस्य सुदृढं सङ्घटनं समर्पिताः कार्यकर्तारश्च दलस्य सर्वाधिकं महत्त्वपूर्णं बलम् अस्ति।
आगामिनिर्वाचनं दृष्ट्वा प्रत्येकं कार्यकर्तारं स्वदायित्वस्य निर्वहणं पूर्णसक्रियतया समर्पणभावेन च कर्तव्यम्। सा अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः मार्गदर्शने मुख्यमन्त्रिणः धामिनः कुशलनेतृत्वे च उत्तराखण्डः विकासस्य नवीनानि आयामानि स्थापयति।
सर्वकारीययोजनानां लाभः समाजस्य प्रत्येकं वर्गं यावत् प्राप्नुयात्, एतदर्थं कार्यकर्तारः जनानां मध्ये स्थित्वा कार्यं कुर्युः इति तया बलं दत्तम्। उपवेशने भाजपापदाधिकारिभिः कार्यकर्तृभिश्च सङ्घटनं अधिकं सुदृढं कर्तुं जनपदस्य षट्सु अपि विधानसभाक्षेत्रेषु विजयः सुनिश्चितः भवेत् इत्यर्थम् एकतया कार्यं कर्तुं सङ्कल्पः स्वीकृतः।
जनपदस्य सहप्रभारी सत्येन्द्रसिंहराणः २०२७ तमवर्षस्य निर्वाचनात् आरभ्य मतदानकेन्द्राणां सुदृढीकरणपर्यन्तं दलस्य नेतृत्वेन प्रदत्तानां कार्यक्रमाणां शतप्रतिशतं कार्यान्वयनस्य च विषये बलं दत्तवान्। अस्मिन् अवसरे टिहरीविधायकः किशोरउपाध्यायः, घनसालीविधायकः शक्तिलालशाहः, देवप्रयागविधायकः विनोदकण्डारी इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani