औद्योगिकीकरणस्य जीविकावसराणां च संवर्धनार्थं मुख्यमन्त्री शुभेन्दु-अधिकारी नवीनायाः निवेशप्रोत्साहननीतेः अनावरणम् अकरोत्।
कोलकाता, 05 नवंबरमासः (हि. स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी राज्ये औद्योगिकीकरणस्य गतिं वर्धयितुं नूतनान् रोजगारावसरान् च सृजितुं गुरुवासरे नवीनायाः निवेशप्रोत्साहननीतेः विधिवत् अनावरणम् अकरोत्। उद्योगजगतः प्रमुखैः समये समये प्रस्तु
शुभेंदु अधिकारी


कोलकाता, 05 नवंबरमासः (हि. स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी राज्ये औद्योगिकीकरणस्य गतिं वर्धयितुं नूतनान् रोजगारावसरान् च सृजितुं गुरुवासरे नवीनायाः निवेशप्रोत्साहननीतेः विधिवत् अनावरणम् अकरोत्। उद्योगजगतः प्रमुखैः समये समये प्रस्तुतानां प्रमुखचिन्तानां समाधानं कुर्वती एषा बहुप्रतीक्षिता नीतिः मुख्यतया परियोजनानां शीघ्रानुमोदनम्, भूमेः पारदर्शकं आवण्टनम्, रोजगारसृजनेन सम्बद्धानां निवेशप्रोत्साहनानाम्, उत्तमाधारभूतसंरचनायाः विकासस्य च विषये विशेषं ध्यानं केन्द्रयिष्यतीति अपेक्ष्यते।

उल्लेखनीयं यत् उद्योगजगतः प्रमुखनेतारः राज्ये नवीननिवेशान् प्रोत्साहयितुं व्यापकान् रोजगारावसरान् च सृजितुं शीघ्रानुमोदनप्रक्रियायाः, सुदृढाधारभूतसंरचनायाः च सह अत्यन्तं पारदर्शकस्य निवेशकानुकूलस्य नीतिगतढाञ्चस्य आवश्यकतायां निरन्तरं बलं दत्तवन्तः।

आर्थिकविशेषज्ञाः मन्यन्ते यत् सर्वकारस्य एषा नवीना सुदृढा च नीतिः विविधोद्योगान् पश्चिमबङ्गस्य प्रति आकर्षयितुं, राज्ये समग्राणाम् आर्थिकक्रियाकलापानां व्यापकविस्तारं कर्तुं, स्थानीययुवभ्यः रोजगारस्य नवीनान् अवसरान् उद्घाटयितुं च सर्वकारस्य प्रयासेषु अत्यन्तं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

Hindusthan Samachar / Dheeraj Maithani