Enter your Email Address to subscribe to our newsletters

उज्जयिनी, ०५ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे गुरुवासरे प्रातःकाले चतुर्वादने भगवतः महाकालस्य भस्मारार्तिकी विधिविधानपूर्वकं मन्त्रपाठेन च सम्पन्ना अभवत्। अस्मिन् अवसरे बाबामहाकालस्य आकर्षकं राजस्वरूपेण शृङ्गारम् अकारि। भगवतः शेषनागस्य रजतमुकुटं, रजतमुण्डमालां रुद्राक्षमालां च धृत्वा भक्तेभ्यः दर्शनं दत्तवान्।
भङ्गेन, शुष्कफलैः सुगन्धितैः पाटलपुष्पैश्च कृतः दिव्यशृङ्गारः श्रद्धालूनां मनः आकर्षितवान्।
गुरुवासरे प्रातःकाले मन्दिरस्य द्वाराणि उद्घाटितानि। ततः पुरोहितैः सर्वप्रथमं गर्भगृहे प्रतिष्ठितानां देवीदेवतानां पूजनं कृतम्। अनन्तरं भगवतः महाकालस्य जलाभिषेकः कृतः। दुग्धेन, दध्ना, घृतेन, मधुना, शर्करया, फलरसैश्च निर्मितेन पञ्चामृतेन अभिषेकं कृत्वा विधिवत् पूजनं सम्पन्नम्। प्रथमघण्टानादेन सह भगवते हरिओमजलं समर्पितम्।
तदनन्तरं कर्पूरारार्तिकी अभवत्। जटाधारी भगवतः महाकालस्य मस्तके रजतचन्द्रः स्थापितः।
भगवते भङ्गः, चन्दनं, पाटलपुष्पाणि च समर्पितानि। रजताभरणैः त्रिपुण्ड्रेण च शृङ्गारं कृत्वा ज्योतिर्लिङ्गं वस्त्रेण आच्छादितम्। ततः महानिर्वाणी-अखाडापक्षतः भस्म समर्पितम्। भस्मारार्तिक्याः अस्याः परम्परायाः अनन्तरं भगवतः राजस्वरूपेण विशेषालङ्करणं कृतम्। बाबामहाकालः शेषनागस्य रजतमुकुटं, रजतमुण्डमालां, रुद्राक्षमालां च अधारयत्। तदतिरिक्तं भङ्गेन, शुष्कफलैः, सुगन्धितपुष्पैश्च भगवतः मनोहरः शृङ्गारः कृतः।
अन्ते फलानि मिष्टान्नानि च भगवते निवेदितानि।
नन्दिनः कर्णे श्रद्धालवः स्वमनोकामनाः न्यवेदयन्
भस्मारार्तिक्यां बहुसङ्ख्यकाः श्रद्धालवः सहभागिनः अभवन्। भक्ताः नन्दिमण्डपे उपविश्य बाबा महाकालस्य दिव्यस्वरूपस्य दर्शनं कृतवन्तः। दर्शनानन्तरं श्रद्धालवः नन्दिमहाराजस्य दर्शनं कृत्वा तस्य कर्णे स्वमनोकामनाः निवेदितवन्तः तथा सुखसमृद्ध्योः कामनाम् अकुर्वन्। अस्मिन् अवसरे मन्दिरपरिसरः बाबा महाकालस्य जयघोषैः गुञ्जितः अभवत्।
मान्यता अस्ति यत् भस्मसमर्पणानन्तरं भगवान् महाकालः निराकारस्वरूपात् साकारस्वरूपेण भक्तेभ्यः दर्शनं ददाति।
Hindusthan Samachar / Divya Ranjan