Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०५ नवम्बरमासः (हि.स.)। उत्सवानां समये यात्रिणाम् अतिरिक्त-सम्मर्दं दृष्ट्वा उत्तररेलवेद्वारा यात्रिणां सुविधाजनकयात्रायै अलीगढ-राजघाट नरौरा-स्थानयोः मध्ये अनारक्षितानि उत्सवविशेषरेलयानानि सञ्चालयितुं निर्णयः कृतः। एतानि विशेषरेलयानानि नवम्बरमासस्य ०९ तथा २४ दिनाङ्कयोः उभयदिशोः सञ्चालितानि भविष्यन्ति।
उत्तररेल-मुख्यजनसम्पर्काधिकारी हिमांशुशेखर-उपाध्यायः गुरुवासरे अवदत् यत् रेलयानसंख्या ०४१८७ अलीगढ-राजघाट नरौरा अनारक्षितविशेषरेलयानं निर्धारितदिनाङ्केषु अलीगढ-जङ्क्शन-स्थानकात् प्रातः ५:४० वादने प्रस्थास्यति तथा प्रातः ७:१५ वादने राजघाट नरौरा-स्थानकं प्राप्स्यति।
रेलयानसंख्या ०४१८८ राजघाट नरौरा-अलीगढ अनारक्षितविशेषरेलयानं राजघाट नरौरा-स्थानकात् प्रातः ८:१५ वादने प्रस्थास्यति तथा प्रातः ९:५५ वादने अलीगढ-जङ्क्शनस्थानकं प्राप्स्यति। उभे रेलयाने मञ्जूरगढी, हरदुआगञ्ज, सुनामई-हॉल्ट, गोधा-हॉल्ट, अतरौली-मार्गः, धर्मपुर-हॉल्ट तथा डिबाई-स्थानकेषु विरमतः। एतेषु विशेषरेलयानेषु सामान्यश्रेण्याः यानकक्षाः भविष्यन्ति।
रेलप्रशासनेन यात्रिभ्यः रेलयानानां विस्तृतविवरणार्थम् अद्यतनसमयसारण्याः च कृते राष्ट्रियरेलयानपूच्छाप्रणाल्याः जालपुटं द्रष्टुम् अथवा १३९ सङ्ख्यायां सम्पर्कं कर्तुम् आग्रहः कृतः।
Hindusthan Samachar / Divya Ranjan