Enter your Email Address to subscribe to our newsletters


धनतेरसपर्वणः आरभ्य भ्रातृद्वितीयापर्यन्तं दुर्लभदर्शनस्य अवसरः, अन्नकूटमहो-त्सवस्य सज्जताः तीव्रगतिना प्रचलन्ति।
वाराणसी, ०५ नवम्बरमास: (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगर्यां वाराणस्यां श्रीकाशीविश्वनाथमन्दिरपरिसरे स्थितायाः विराजमानायाः स्वर्णमय्याः मातुः अन्नपूर्णायाः मन्दिरस्य कपाटा: वर्षे केवलम् एकवारं, तत् अपि केवलं चतुर्णां पञ्चानां वा दिनानां कृते श्रद्धालूनां दर्शनार्थम् उद्घाट्यन्ते। धार्मिकविश्वासा-नुसारम्, अस्मिन् विशेषावसरे साक्षात् काशीपुराधिपतिः बाबा विश्वनाथः अपि याचकरूपेण मातुः अन्नपूर्णायाः समीपं जगतः कल्याणाय अन्नं याचते।
धार्मिकमान्यतानुसारम्, इदं मन्दिरं धनतेरसपर्वणः आरभ्य भ्रातृद्वितीया-पर्यन्तमेव उद्घाटितं भवति। अस्मिन् वर्षे मन्दिरस्य कपाटा: नवम्बरमासस्य ०६ दिनाङ्के धनतेरसपर्वणि उद्घाटयिष्यन्ते। श्रद्धालवः अस्मिन् वर्षे अपि पञ्चदिनानि यावत् मातुः अन्नपूर्णायाः, महालक्ष्म्याः, भूदेव्याः तथा भगवान् महादेवस्य रजतविग्रहाणां दर्शनं कर्तुं शक्ष्यन्ति। एतेषु दिनेषु मातुः स्वर्णमयस्वरूपस्य दर्शनार्थं देशस्य विभिन्नभागेभ्यः लक्षशः श्रद्धालवः काशीनगरम् आगच्छन्ति।
मातुः ‘निधेः’ प्रसादप्राप्तिः सौभाग्यस्य विषयः
अन्नपूर्णामठमन्दिरस्य पीठाधीश्वरः महन्तः शङ्करपुरीमहाराजः अवदत् यत् मन्दिरे दर्शनानन्तरं श्रद्धालुभ्यः मातुः अन्नपूर्णेश्वर्याः ‘निधिरूपेण’ तण्डुलाः, धान्यलाजाः तथा अर्धरूप्यकस्य मुद्रा च प्रदीयते। काशीनगरस्य धार्मिकविश्वासा-नुसारम्, यः भक्तः एतां मुद्रां स्वस्य धनस्थाने अथवा धनागारे स्थापयति, तस्य गृहे सम्पूर्णवर्षं यावत् धनधान्ययोः अभावः न भवति।
स्वर्णप्रतिमायाः अद्भुता शोभा
मन्दिरे मातुः अन्नपूर्णायाः स्वर्णनिर्मिता प्रतिमा कमलासने विराजते। मातुः दक्षिणभागे देव्याः लक्ष्म्याः तथा वामभागे भूदेव्याः स्वर्णविग्रहौ स्थापितौ स्तः। विशेषता तु एषा अस्ति यत् बाबा विश्वनाथस्य रजतप्रतिमा मातुः अञ्चलस्य पुरतः अन्नयाचनमुद्रायां स्थिता अस्ति। एषः अद्वितीयः दृश्यः मन्दिरस्य दिव्यशोभां वर्धयति।
इतिहासकाराणाम् अनुसारं १७७५ तमे वर्षे यदा काशीविश्वनाथमन्दिरस्य पुन-र्निर्माणम् अभवत्, तदा तस्य पार्श्वे मातुः अन्नपूर्णायाः इदं मन्दिरं पूर्वमेव स्थापितम् आसीत्। भीष्मपुराणे अपि मातुः अस्याः स्वर्णप्रतिमायाः उल्लेखः प्राप्यते। प्राचीन-कथानुसारम्, कदाचित् काशीनगरे भीषणः दुर्भिक्षः अभवत्। तदा भगवान् शङ्करः स्वयम् मातुः अन्नपूर्णायाः समीपं भिक्षां याचितवान् तथा काश्यां कोऽपि जनः क्षुधितः न भविष्यति इति प्रतिज्ञां गृहीतवान्। तदारभ्य एषा परम्परा प्रचलिता अस्ति यत् काशीनगरम् आगच्छतः प्रत्येकस्य जनस्य मातुः अन्नपूर्णायाः कृपया अन्नप्राप्तिः भवति।
अन्नकूटमहोत्सवस्य सज्जतासु व्यस्तं प्रशासनम्
मन्दिरप्रबन्धनेन जनपदप्रशासनेन च दर्शनव्यवस्थायाः अन्तिमरूपं प्रदत्तम्। लक्षशः श्रद्धालूनां समागमं नियन्त्रयितुं सुरक्षायै व्यवस्थापनाय च विशेषा योजना निर्मिता अस्ति। प्रवेश-निर्गमनार्थं अवरोधकवेष्टनानि, अस्थायिसोपानानि तथा मार्गाः चिह्निताः क्रियन्ते। अन्नकूट-महोत्सवस्य सज्जतायाः अन्तर्गतं मिष्टान्नानां लड्डुकानां च निर्माणकार्यमपि प्रारब्धम्। महिलाः बहुसङ्ख्यया प्रसादनिर्माणकार्ये संलग्नाः सन्ति। मन्दिरस्य स्वच्छतायाः नैवेद्यस्य च शुद्धतायाः विषये अपि प्रबन्धनेन विशेषसावधानता क्रियते।
अस्मिन् वर्षे धनतेरसपर्वणि शुभयोगाः
धार्मिकपञ्चाङ्गानुसारम्, अस्मिन् वर्षे नवम्बरमासस्य षष्ठे दिनाङ्के धनतेरसपर्व आयोजयिष्यते। कार्तिक-मासस्य त्रयोदशी तिथिः नवम्बरमासस्य षष्ठे दिनाङ्के पूर्वाह्णे ९:३० वादने आरभ्यते, या सप्तमे दिनाङ्के पूर्वाह्णे ११:४५ वादनपर्यन्तं स्थास्यति। अस्मिन् वर्षे धनतेरसपर्वणि प्रदोषकालः सायं ५:४९ वादनात् रात्रौ ८:२३ वादनपर्यन्तं भविष्यति। धनतेरसपूजनाय प्रदोषकालः सर्वोत्तमः समयः इति कथितः अस्ति। ज्योतिषाचार्यः रवीन्द्रतिवारी अवदत् यत् अस्मिन् वर्षे धनतेरसपर्वणि शुक्रप्रदोषः तथा अन्ये अनेकाः शुभयोगाः निर्मीयन्ते। अस्मिन् वर्षे दीपावलीपर्व रविवासरे, नवम्बरमासस्य अष्टमे दिनाङ्के भविष्यति।
Hindusthan Samachar / Divya Ranjan