सत्ताप्राप्तिरेव इण्डी-महागठबन्धनस्य एकमात्रं लक्ष्यम् - सर्वानन्दसोनोवालः
सिलीगुडिः, ०५ नवम्बरमासः (हि.स.)। केन्द्रीयपत्तन-पोतपरिवहन-जलमार्ग-मन्त्री सर्वानन्दसोनोवालः काङ्ग्रेसदलं तथा इण्डी-महागठबन्धनं च लक्ष्यीकृत्य आरोपितवान् यत् विपक्षिदलानां उद्देश्यं लोकतन्त्रस्य रक्षणं न, अपितु येन केन प्रकारेण सत्ताप्राप्तिरेव अस्
केंद्रीय मंत्री सर्वानंद सोनोवाल को गुलदस्ता प्रदान करते सिलीगुड़ी सांगठनिक जिला अध्यक्ष अरुण मंडल, साथ में दार्जिलिंग के सांसद राजू बिष्ट


सिलीगुडिः, ०५ नवम्बरमासः (हि.स.)। केन्द्रीयपत्तन-पोतपरिवहन-जलमार्ग-मन्त्री सर्वानन्दसोनोवालः काङ्ग्रेसदलं तथा इण्डी-महागठबन्धनं च लक्ष्यीकृत्य आरोपितवान् यत् विपक्षिदलानां उद्देश्यं लोकतन्त्रस्य रक्षणं न, अपितु येन केन प्रकारेण सत्ताप्राप्तिरेव अस्ति। गुरुवासरे सिलीगुडिनगरे भारतीय-जनतापक्षस्य पक्षतः आयोजिते ‘लोकतन्त्रं रक्षतु, अराजकतां दूरीकरोतु’ इति कार्यक्रमे सः एतदुक्तवान्। अस्मिन् अवसरे दार्जिलिङ्गस्य सांसदः राजू बिष्टः तथा सिलीगुडिसाङ्गठनिकजनपदाध्यक्षः अरुणमण्डलः अपि उपस्थितौ आस्ताम्।

केन्द्रीयमन्त्री आरोपितवान् यत् विपक्षिदलानि जनसामान्येषु भ्रमं प्रसार्य विधिव्यवस्थां भङ्क्तुं प्रयतन्ते। प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारस्य योजनानां उल्लेखं कुर्वन् सः अवदत् यत् कोटिशः जनाः निर्धनतायाः मुक्ताः कृताः। तेषां कृते आवासः, निःशुल्कं खाद्यान्नम्, पाकगैसः, विद्युत् तथा आयुष्मान् भारत् इत्यादीनां योजनानां लाभः अपि प्रदत्तः। काङ्ग्रेसदले भ्रष्टाचारस्य तुष्टीकरणस्य च राजनीतिं कर्तुम् आरोपयन् सः असमप्रदेशे आईएमडीटी-विधेः विषयमपि उत्थापितवान्।

सः पश्चिमबङ्गप्रदेशस्य पूर्वतनतृणमूल-काङ्ग्रेससर्वकारे अवैधप्रवेशं निवारयितुं विफलतायाः आरोपम् अकरोत्। सोनोवालः अवदत् यत् निर्वाचनपराजया-नन्तरं ईवीएम, निर्वाचनायोगः तथा न्यायपालिका इत्येतेषु प्रश्नान् उत्थापयितुं विपक्षस्य राजनैतिकनिराशां प्रदर्शयति।

सः राहुलगान्धिसहितान् विपक्षिनेतॄन् सेनायाः शौर्ये प्रश्नान् उत्थापयितुं आरोपितवान्। कार्यक्रमस्य अन्ते केन्द्रीयमन्त्री सर्वानन्दसोनोवालः २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं निर्मातुम् उद्दिष्टस्य उल्लेखं कुर्वन् युवभ्यः राष्ट्रनिर्माणे सक्रियां भूमिकां निर्वोढुम् आह्वानं कृतवान्।

Hindusthan Samachar / Divya Ranjan