Enter your Email Address to subscribe to our newsletters


अलवरम्, ०६ नवम्बरमासः (हि.स.)। अलवरव्याघ्रमैराथनस्य तृतीयसंस्करणस्य शुभारम्भः शुक्रवासरे ऐतिहासिकस्य मूसीमहाराण्याः छत्रीपरिसरात् अभवत्। केन्द्रीयपर्यावरण-वन-जलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः तथा चलचित्राभिनेता, मैराथनस्य ब्राण्ड्-प्रचारकश्च रणदीपहूड्डा आयोजनस्य शुभारम्भं कृतवन्तौ। अस्मिन् अवसरे मैराथनस्य आधिकारिकशुभङ्करस्य ‘सरिस्कावीर’ इत्यस्य लोकार्पणं तथा आधिकारिकटी-शर्ट्-वस्त्रस्य अनावरणं कृतम्। मैराथनस्य तृतीयसंस्करणम् २०२७ तमस्य वर्षस्य फेब्रुवरीमासस्य सप्तम्यां दिनाङ्के आयोजयिष्यते।
कार्यक्रमे शुभङ्करः ‘सरिस्कावीरः’ विशेषाकर्षणस्य केन्द्रम् आसीत्। अस्य माध्यमेन बालकेभ्यः, युवभ्यः, परिवारेभ्यश्च व्याघ्रसंरक्षणस्य, वनपर्यावरणयोः सुरक्षा-याश्च विषये जागरूकता जनयिष्यते। शुभङ्करेण केन्द्रीयमन्त्रिणे भूपेन्द्रयादवाय अभिनेतृणे रणदीपहूड्डाय च मैराथनस्य आधिकारिकं टी-शर्ट्-वस्त्रं प्रदत्तम्। अनन्तरम् उभाभ्यां अतिथिभ्यां संयुक्तरूपेण टी-शर्ट्-वस्त्रस्य अनावरणं कृतम्।
अस्मिन् अवसरे राजस्थानपर्यटन-विभागस्य वी-शक्तिट्रस्ट्-संस्थायाश्च मध्ये मैराथनस्य आयोजनसम्बन्धी सन्धिपत्रे हस्ताक्षराणि अपि अभवन्। कार्यक्रमे मुम्बईनगरस्य आतङ्कवादी आक्रमणस्य समये अदम्यसाहसं प्रदर्शितवतः अलवरनिवासिनः कमाण्डो सुनीलजोधा तथा अजमेरस्य अल्ट्राधाविका सुफिया-सोफी इत्येतौ शालप्रदानेन प्रशस्ति-पत्रप्रदानेन च सम्मानितौ।
केन्द्रीयमन्त्री भूपेन्द्रयादवः अवदत् यत् अलवरव्याघ्रमैराथनम् केवलं क्रीडायोजनं नास्ति, अपितु शारीरिकस्वास्थ्यं जनान्दोलनरूपेण परिणेतुं तथा व्याघ्राणां वनानां च संरक्षणस्य विषये जागरूकतां वर्धयितुं कृतः प्रयासः अस्ति। प्रधानमन्त्री नरेन्द्रमोदिनः ‘फिट् इण्डिया’ अभियानम् अग्रे नयन् अस्य आयोजनस्य माध्यमेन जनान् स्वस्थजीवनशैलीम् अङ्गीकर्तुं सन्देशः दीयते।
सः अवदत् यत् सरिस्काव्याघ्राभयारण्यम् अलवरस्य ऐतिहासिकसांस्कृतिक-प्राकृतिकपरिचयस्य महत्त्वपूर्णं केन्द्रम् अस्ति। एषः प्रदेशः बाबाभर्तृहरेः तपोभूमिः अस्ति। करणिमाता, नारायणीमाता, नीलकण्ठमहादेवः इत्यादीनां धार्मिक-स्थलानां कारणेन अपि अस्य विशेषं महत्त्वम् अस्ति।
रणदीपहूड्डा अवदत्—अलवरस्य संस्कृतिः राष्ट्रियपरिचयं प्राप्स्यति
मैराथनस्य ब्राण्ड्-प्रचारकः अभिनेता रणदीपहूड्डा अवदत् यत् अलवरव्याघ्र-मैराथनम् केवलं धावनप्रतियोगिता नास्ति, अपितु एका विचारधारा अस्ति। अस्य माध्यमेन अलवरस्य संस्कृतेः, ऐतिहासिकवैभवस्य, प्राकृतिकसौन्दर्यस्य, खाद्यपरम्परायाः, वेशभूषायाः, भाषाशैल्याश्च राष्ट्रियस्तरे परिचयः प्राप्स्यति। सः अवदत् यत् अलवरे एनसीआर-क्षेत्रस्य एकमात्रं व्याघ्राभयारण्यं सरिस्का स्थितम् अस्ति, यस्य गौरवशाली इतिहासः अस्ति। तेन जनान् २०२७ तमस्य वर्षस्य फेब्रुवरी-मासस्य सप्तम्यां दिनाङ्के आयोज्यमाने मैराथनस्य तृतीयसंस्करणे अधिकाधिक-सङ्ख्यया भागं ग्रहीतुम् आग्रहः कृतः।
प्रथमसंस्करणे सप्तसहस्रं, द्वितीय-संस्करणे विंशतिसहस्रं धावकाः अभवन् सम्मिलिताः
मैराथनस्य संयोजकः अरुणजैनः अवदत् यत् प्रथमसंस्करणे सप्तसहस्राधिकाः प्रतिभागिनः भागं गृहीतवन्तः, यदा तु द्वितीयसंस्करणे एषा सङ्ख्या प्रायः विंशतिसहस्रं यावत् प्राप्ता। तृतीयसंस्करणे सहभागितां अधिकव्यापकां कर्तुं लक्ष्यं निर्धारितम् अस्ति। अस्मिन् वर्षे मैराथनस्य मार्गः अलवरनगरस्य अन्तः प्रस्तावितः अस्ति, येन नगरवासिनः अपि प्रत्यक्षतया आयोजनस्य भागिनः भवितुं शक्नुयुः।
मैराथने प्रतिभागिनां कृते चतस्रः श्रेण्यः निर्धारिताः सन्ति। तासु २१ किलोमीटर्-दूर्युक्ता अर्धमैराथनः, १० किलोमीटर्-धावनम्, पञ्च किलोमीटर्-शक्तिधावनम् तथा द्विकिलोमीटर्-दूर्युक्ता दिव्याङ्ग-धावनप्रतियोगिता च अन्तर्भवन्ति। आयोजकानाम् अनुसारं मैराथनस्य पञ्जीकरणपटलम् अक्टोबरमासस्य १८ दिनाङ्कात् आरब्धम् अस्ति। सेना, आरक्षकबलम्, वनविभागः, विद्यालय-महाविद्यालयाः, धावनसमूहाः, क्रीडासङ्घाः, व्यापारिकसङ्घटनानि च आयोजनेन सह योजयितुं प्रयासाः क्रियन्ते।
कार्यक्रमे अलवरनगरनिगमस्य महापौरः सुमनलताअग्रवालः, रामगढस्य विधायकः सुखवन्तसिंहः, सरसडेयरी-संस्थायाः अध्यक्षः नितिनसाङ्गवानः, जनपदाध्यक्षः अशोकगुप्तः, महासिंहचौधरी इत्यादयः अनेके जनप्रतिनिधयः, अधिकारिणः, संस्थानां प्रतिनिधयः बहुसङ्ख्यकाः युवानश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan