Enter your Email Address to subscribe to our newsletters

गान्धीनगरम्, ०६ नवम्बरमासः (हि.स.)। गुजरातराज्यसचिवालये प्रत्यक्षनियुक्ति-प्रक्रियया चयनितेभ्यः ११३ उपनायब-खण्डाधिकारिभ्यः उपमुख्यमन्त्रिणा हर्ष-सङ्घविना नियुक्तिपत्राणि प्रदत्तानि। एतदतिरिक्तं ६४ खण्डाधिकारिणां पदोन्नतिरपि कृता।
अस्मिन्नवसरे नायबखण्डाधिकारी-तृतीयश्रेण्याः ८७ अभ्यर्थिभिः सह दिव्याङ्गजनानां कृते विशेषनियुक्त्यभि-यानस्य अन्तर्गतं चयनितेभ्यः २६ दिव्याङ्गाभ्यर्थिभ्यः अपि नियुक्तिपत्राणि समर्पितानि।
नवनियुक्तान् अधिकारिणः सम्बोधयन् उपमुख्यमन्त्री सङ्घवी अवदत् यत् मुख्यमन्त्रिणः भूपेन्द्रपटेलस्य नेतृत्वे सर्वकारीयपदेषु नियुक्तेः आधारः केवलं प्रतिभा, योग्यता परिश्रमश्च अस्ति। कस्यापि अनुशंसां पक्षपातं च विना पारदर्शि-प्रक्रियया नियुक्तयः क्रियन्ते। धनतेरसस्य शुभावसरे सचिवालयपरिवारे ११३ नूतनाः सदस्याः सम्मिलिताः सन्ति। सः विश्वासं प्रकटितवान् यत् सर्वे अधिकारिणः पूर्णनिष्ठया स्वदायित्वानां निर्वहनं करिष्यन्ति।
सङ्घवी अवदत् यत् यूनाम् उज्ज्वल-भविष्याय २०२४ तमवर्षात् २०३३ तमवर्षपर्यन्तं प्रथमद्वितीयतृतीयश्रेणीनां प्रायः २.१० लक्षपदेषु प्रत्यक्षनियुक्तेः योजना निर्मिता अस्ति। सः अवदत् यत् विगतेषु दशवर्षेषु गुजरातराज्येन नियुक्ति-प्रक्रियायाः सुव्यवस्थितं तन्त्रं विकसितम्। नियुक्तिपञ्चाङ्गस्य माध्यमेन युवभ्यः पूर्वमेव सज्जतां योजनां च कर्तुम् अवसरः प्राप्यते। २०१४ तमवर्षात् २०२३ तमवर्षपर्यन्तं कुलम् १,७९,४२४ पदेषु नियुक्तयः कृताः तथा नियुक्तिप्रक्रिया ९२.९२ प्रतिशतं सम्पन्ना अभवत्।
सः अवदत् यत् दाहोदस्य बनासकण्ठायाश्च भारत-पाकिस्तानसीमासमीपस्थानां लघुग्रामाणाम् युवानः अपि अद्य सचिवालये महत्त्वपूर्णेषु पदेषु नियुक्ताः भवन्ति। दूरस्थग्रामेभ्यः सचिवालयपर्यन्तं प्राप्तिः तेषां परिश्रमस्य प्रतिभायाश्च महती उपलब्धिः अस्ति। अस्याः सफलतायाः पृष्ठे अभ्यर्थिनां मातापित्रोः वर्षाणां सङ्घर्षस्य समर्पणस्य च महत्त्वपूर्णं योगदानम् अपि अस्ति। सः नवनियुक्तान् अधिकारिणः आहूतवान् यत् सफलताप्राप्त्यनन्तरम् अपि स्वमातापित्रोः, ग्रामस्य मातृभूमेश्च प्रति सम्मानभावं धारयेयुः।
कार्यक्रमे राज्यस्य मुख्यसचिवः एम.के.दासः अवदत् यत् सर्वकारीयकार्येषु योग्यता पारदर्शिता च अत्यावश्यके स्तः। तेन नूतनाधिकारिभ्यः पूर्णनिष्ठया, तत्परतया, उत्तरदायित्वेन च कार्यं कर्तुम् आह्वानं कृतम्। अपि च आवेदनपत्राणां सञ्चिकानां च समये निस्तारणं कृत्वा नागरिकाणां समस्याः समुचितरूपेण समाधातुं बलं दत्तम्।
अस्मिन्नवसरे नवनियुक्ताः अधिकारिणः कर्मचारिणः तेषां परिवारजनाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan