Enter your Email Address to subscribe to our newsletters

बलिया, 06 नवंबरमासः (हि.स.)।
बलियानगरे स्कूल गेम्स फेडरेशन ऑफ इण्डियायाः तत्त्वावधाने आयोजितायाः सप्ततितमायाः राष्ट्रियविद्यालयीयपादकन्दुकप्रतियोगितायाः विजेतृपदं मेजबान उत्तरप्रदेशस्य दलं प्राप्तवत्। अण्डर-१७ राष्ट्रियप्रतियोगितायाः अन्तिमस्पर्धा शुक्रवासरे वीरलोरिकक्रीडाङ्गणे अभवत्।
अवसरेऽस्मिन् क्रीडकानां कृते क्रीडाभावनायाः अनुशासनस्य च शिक्षामपि प्रदत्तम्।
अन्तिमस्पर्धायां निर्धारितसमयपर्यन्तं उभे दले १-१ इति अङ्कसाम्ये स्थिते। ततः स्पर्धा अतिरिक्तसमये आयोजिता, किन्तु अतिरिक्तसमयेऽपि किमपि निर्णायकं परिणामं न प्राप्तम्। उपाध्यर्थं आयोजितः टाईब्रेकरः अपि ३-३ इति अङ्कसाम्येन समाप्तः। ततः सडनडेथस्पर्धायामपि उभे दले १-१ इति अङ्कसाम्ये स्थिते। अन्ते निर्णायकमण्डलेन झारखण्डदलस्य अनुचिताचरणस्य कारणेन उत्तरप्रदेशं विजेतृदलं तथा झारखण्डं उपविजेतृदलं घोषितम्।
रामदहीनसिंह-अन्तरमहाविद्यालये, आमघाटे आयोजितायां कांस्यपदकस्पर्धायां पञ्जाबदलेन पश्चिमबङ्गदलं ४-३ इति अङ्कैः पराजितम्। अस्याः पूर्वं प्रथमायां उपान्त्यस्पर्धायां मेजबान उत्तरप्रदेशदलेन पश्चिमबङ्गदलं १-० इति तथा द्वितीयायाम् उपान्त्यस्पर्धायां झारखण्डदलेन पञ्जाबदलं ३-२ इति अङ्कैः पराजित्य अन्तिमस्पर्धायां स्थानं प्राप्तम्।
जिलाधिकारी ज्ञानेन्द्रसिंहः मुख्यातिथिरूपेण उपस्थितः भूत्वा विजेतृक्रीडकेभ्यः पुरस्कारान् प्रदत्तवान्। अस्मिन्नवसरे जिलाधिकारिणा विजेतृभ्यः शुभकामनाः प्रदत्ताः तथा राष्ट्रियप्रतियोगितायाः सफलायोजनाय आयोजनसमितेः प्रशंसा कृता।
राष्ट्रियप्रतियोगितायां निर्णायकानां दायित्वं अमलकुँवरः, मोहम्मदगयासुद्दीनः, अजययादवः, मेहरुद्दीनः, शनिकुमारः, सौरभकुमारः, अजीतसिंहः, चन्द्रकान्तरायः, राजुकुमारः, मोहम्मदअशफाकः, सञ्जयसाहनी, धर्मवीरप्रजापतिः, रविशर्मा, हाजीमुनव्वरः, मनोजतिवारी, उपेन्द्रशुक्लः, नवनीतः विशालकुमारश्च इत्यादिभिः निर्व्यूढ म्।
Hindusthan Samachar / Dheeraj Maithani