कश्मीरीरबाबवाद्यस्य मागः निरन्तरं वर्तते, किन्तु तूतवृक्षस्य काष्ठस्य प्राप्तिः कठिनतरा जाता।
नव दिल्ली, 06 अक्टूबरमासः (हि.स.)। सर्वकारीयभवनेषु सौरऊर्जासंयन्त्राणां स्थापनायां अग्रणीभूमिकानिर्वहणस्य कृते वित्तीयसेवाविभागः (डीएफएस) ‘पीएम सूर्यघर उत्कृष्टतापुरस्कारेण’ सम्मानितः अभवत्। नवदेहल्याः भारतमण्डपम् इत्यत्र आयोजिते ‘नवीकरणीयऊर्जासम
डीएफएस को मिला ‘पीएम सूर्य घर उत्कृष्टता पुरस्कार’


नव दिल्ली, 06 अक्टूबरमासः (हि.स.)।

सर्वकारीयभवनेषु सौरऊर्जासंयन्त्राणां स्थापनायां अग्रणीभूमिकानिर्वहणस्य कृते वित्तीयसेवाविभागः (डीएफएस) ‘पीएम सूर्यघर उत्कृष्टतापुरस्कारेण’ सम्मानितः अभवत्। नवदेहल्याः भारतमण्डपम् इत्यत्र आयोजिते ‘नवीकरणीयऊर्जासम्मेलने प्रदर्शिन्यां च’ उपराष्ट्रपतिना सी.पी. राधाकृष्णनेन अयं पुरस्कारः प्रदत्तः।

वित्तीयसेवाविभागेन ‘पीएम सूर्यघर निःशुल्कविद्युत् योजनायाः’ अन्तर्गतं सर्वेषु सम्भाव्यप्रशासनिकभवनेषु सौरऊर्जासंयन्त्राणि संस्थाप्य २५७६ स्थानेषु कुलम् ६१.५० मेगावाटक्षमतायुक्तानि छदिस्थसौरऊर्जाप्रणालीनि सञ्चालने स्थापितानि। अनेन विभागेन शतप्रतिशतं लक्ष्यं प्राप्तम्। अस्याः महत्त्वपूर्णायाः उपलब्धेः परिप्रेक्ष्ये नवम्बरमासस्य पञ्चमे दिनाङ्के भारतमण्डपे ‘पीएम सूर्यघर उत्कृष्टतापुरस्कारे’ विभागः द्वितीयस्थानेन सम्मानितः अभवत्।

वित्तमन्त्रालयेन उक्तं यत् एते पुरस्काराः केन्द्रीयमन्त्रालयानां विभागानां च द्वारा सर्वाधिकभवनेषु सौरऊर्जासंयन्त्राणां स्थापनायाः श्रेण्यां प्रदत्ताः। अस्याः योजनायाः अन्तर्गतं केन्द्रीयमन्त्रालयानां विभागानां च श्रेण्यां सर्वाधिकभवनेषु सौरऊर्जासंयन्त्राणां स्थापनायै रेलमन्त्रालयेन प्रथमं स्थानं प्राप्य अयं पुरस्कारः प्राप्तः।

---------------------------------

Hindusthan Samachar / Dheeraj Maithani