Enter your Email Address to subscribe to our newsletters

गान्धीनगरम्, ०६ नवम्बरमासः (हि.स.)। दीपावली-धनतेरसयोः शुभावसरे गुजरात-राज्यस्य नागरिकेभ्यः आधुनिकस्य सुरक्षितस्य च परिवहनस्य उपहारः प्राप्तः। उपमुख्यमन्त्री हर्षसङ्घवी गान्धीनगरात् १०१ नूतनानां एसटी-यानानां लोकार्पणं कृत्वा तानि जनसेवायै प्रेषितवान्। अस्मिन्नवसरे परिवहनराज्यमन्त्री प्रवीण-माली अपि उपस्थितः आसीत्।
उपमुख्यमन्त्री एकां विशेषाम् उपक्रमं कुर्वन् पारम्परिकप्रोटोकॉलात् भिन्नतया एसटी-निगमस्य कर्मचारिणः अपि अस्मिन् कार्यक्रमे सहभागी अकरोत्। तेन कर्मचारिणाम् एव हस्ताभ्यां नूतनानि यानानि हरितध्वजं प्रदर्श्य सेवायै प्रेषितानि। नूतनानां यानानां सञ्चालनारम्भेण दीपावलीपर्वणि यात्रिणाम् आवागमनं सुकरं भविष्यति। अपि च राज्यस्य ग्रामीणनगरीयक्षेत्रयोः परिवहनसम्पर्कः अधिकं सुदृढः भविष्यति। अस्मिन्नवसरे तेन एसटी-निगमस्य कर्मचारिभ्यः दीपावलीपर्वणः आयोजनाय अर्धवेतनं अग्रिमरूपेण प्रदातुं घोषणापि कृता।
कार्यक्रमात् पूर्वं हर्षसङ्घवी एसटी-निगमस्य आधारस्तम्भरूपेण मन्यमानैः बसयानचालकैः, परिचालकैः, कार्यशाला-कर्मचारिभिः च सह सौहार्दपूर्णं संवादं कृतवान्। तेन सर्वेभ्यः कर्मचारिभ्यः तेषां परिवारजनेभ्यश्च दीपावलीपर्वण: नव-वर्षस्य च शुभकामनाः प्रदत्ताः।
अस्मिन्नवसरे गान्धीनगरमहानगर-पालिकायाः महापौरः रूपसिंहठाकोरः, जनपदपञ्चायताध्यक्षः राजेशभाईपटेलः, विधायकः अल्पेशठाकोरः, विधायकः रीता-बेनपटेलः, परिवहनविभागस्य अपरमुख्य-सचिवः हारितशुक्लः, गुजरात-राज्यमार्ग-परिवहननिगमस्य उपाध्यक्षः प्रशासनिक-सञ्चालकः च डॉ. राजेन्द्र-कुमारः, निगमस्य सचिवः रविनिर्मलः इत्येतै: सह स्थानीयजनप्रतिनिधयः एसटी-निगमस्य कर्मचारिणः च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan