Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 06 अक्टूबरमासः (हि.स.)।
वाणिज्यमन्त्रालयेन भारतब्रिटेनव्यापारसम्झौतानुसारं २०२७ तमवर्षाय यात्रिकवाहनैः सह कतिपयेषु निर्दिष्टोत्पादेषु शुल्करियायतानां लाभं प्राप्तुम् इच्छुकानाम् आयातकानां कृते कोटाप्राप्त्यर्थम् आवेदनानि आमन्त्रितानि सन्ति।
वाणिज्यमन्त्रालयस्य विदेशव्यापारमहानिदेशालयेन (डीजीएफटी) शुक्रवासरे भारतब्रिटेनव्यापक आर्थिकव्यापारसम्झौतेः (सीईटीए) अन्तर्गतं २०२७ तमवर्षाय यात्रिकवाहनैः सह निर्दिष्टोत्पादेषु शुल्करियायतानां लाभं प्राप्तुं आवेदनानि आमन्त्रितानि।
डीजीएफटी द्वारा निर्गतायां सार्वजनिकसूचनायाम् उक्तं यत्, ‘‘भारतब्रिटेनव्यापक आर्थिकव्यापारसम्झौतेः अन्तर्गतं २०२७ तमवर्षाय निर्दिष्टोत्पादेषु शुल्कदरकोटायाः (टीआरक्यू) आवंटनार्थं नवम्बरमासस्य षष्ठदिनाङ्कतः नवम्बरमासस्य एकविंशतिदिनाङ्कपर्यन्तं नवीनानि आवेदनानि आमन्त्रितानि सन्ति।’’
भारतब्रिटेनयोः व्यापक आर्थिकव्यापारसम्झौता (सीईटीए) जुलैमासस्य पञ्चदशमे दिनाङ्के प्रवृत्तः अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani