Enter your Email Address to subscribe to our newsletters

काठमांडूः, 06 नवंबरमासः (हि.स.)।नेपालस्य राष्ट्रपतिः रामचन्द्रपौडेलस्य समक्षं नेपालदेशाय नियुक्तेन भारतीयराजदूतेन सुधाकरेण दलेलया शुक्रवासरे स्वपदस्य प्रत्ययपत्रं (क्रेडेन्शियल) समर्पितम्।
राष्ट्रपतिभवनस्य शीतलनिवासे आयोजिते विशेषसमारोहे भारतस्य राजदूतेन राष्ट्रपतये पौडेलमहोदयाय स्वपदप्रमाणपत्रं समर्पितम्। अस्मिन्नवसरे तस्य पत्नी तथा भारतीयदूतावासस्य अन्ये वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।
एतस्मात् पूर्वं नवनियुक्तः राजदूतः लाजिम्पाटस्थितात् रेडिसनहोटलतः राष्ट्रपतिभवनस्य शीतलनिवासपर्यन्तं अश्वारूढसुरक्षादलस्य संरक्षणे पारम्परिकायां रथिकायां (बग्घ्याम्) उपवेश्य आनीतः। राष्ट्रपतिभवने एव भारतीयराजदूताय नेपालीसेनया सम्मानसलामी अपि प्रदत्ता।
---------------
Hindusthan Samachar / Dheeraj Maithani