धनत्रयोदश्याः पावनावसरे मुख्यमन्त्री हेमन्तसोरेनः प्रदेशवासिभ्यः शुभकामनाः अयच्छत्।
रांची, 06 नवंबरमासः (हि.स.)। झारखण्डस्य मुख्यमन्त्री हेमन्तसोरेनः धनत्रयोदश्याः पावनावसरे राज्यवासिभ्यः बधाइः शुभकामनाः च प्रदत्तवान्। अनेन पर्वणा प्रदेशस्य प्रत्येकस्य नागरिकस्य जीवने सुखं, समृद्धिः, उत्तमस्वास्थ्यं नवीनानि सुखदानि च आगच्छेयुरिति
मुख्यमंत्री की फाइल फोटो


रांची, 06 नवंबरमासः (हि.स.)। झारखण्डस्य मुख्यमन्त्री हेमन्तसोरेनः धनत्रयोदश्याः पावनावसरे राज्यवासिभ्यः बधाइः शुभकामनाः च प्रदत्तवान्। अनेन पर्वणा प्रदेशस्य प्रत्येकस्य नागरिकस्य जीवने सुखं, समृद्धिः, उत्तमस्वास्थ्यं नवीनानि सुखदानि च आगच्छेयुरिति सः कामितवान्।

मुख्यमन्त्री शुक्रवासरे सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र स्वसन्देशे लिखितवान्, “धनत्रयोदश्याः पावनपर्वणि भवद्भ्यः सर्वेभ्यः हार्दिक्यः बधाइः, शुभकामनाः जोहार च। अयम् अवसरः भवतां सर्वेषां जीवने सुखं, समृद्धिं, उत्तमस्वास्थ्यं नवीनानि सुखदानि च आनयतु। प्रत्येकस्मिन् गृहे सुखसमृद्धिः भवतु, प्रत्येकस्मिन् परिवारे सुखशान्तिः समृद्धिश्च तिष्ठतु।”

सः राज्यस्य प्रत्येकं नागरिकं प्रति स्वशुभकामनाः प्रेषयन् अवदत् यत् तस्य हार्दिकी इच्छा अस्ति यत् प्रदेशस्य प्रत्येकं गृहं सुखसमृद्धिभिः परिपूर्णं भवेत् तथा च प्रत्येकस्मिन् परिवारे सुखशान्तिः समृद्धिश्च अक्षुण्णा तिष्ठेत्। मुख्यमन्त्री सर्वेषां मङ्गलमयस्य स्वस्थजीवनस्य च कामनां कुर्वन् जनान् इमं पर्व पूर्णोत्साहेन परस्परप्रेम्णा च आचरितुं आग्रहं कृतवान्।

-----------

Hindusthan Samachar / Dheeraj Maithani